Ṛk 5.63.1
Saṃhitā
ऋत॑स्य गोपा॒वधि॑ तिष्ठथो॒ रथं॒ सत्य॑धर्माणा पर॒मे व्यो॑मनि ।
यमत्र॑ मित्रावरु॒णाव॑थो यु॒वं तस्मै॑ वृ॒ष्टिर्मधु॑मत्पिन्वते दि॒वः ॥
ऋतस्य गोपाव् अधि तिष्ठथो रथं सत्यधर्माणा परमे व्योमनि |
यम् अत्र मित्रावरुणावथो युवं तस्मै वृष्टिर् मधुमत् पिन्वते दिवः ||
ṛ́tasya gopāvádhi tiṣṭhatho rátham sátyadharmāṇā paramé vyómani ǀ
yámátra mitrāvaruṇā́vatho yuvám tásmai vṛṣṭírmádhumatpinvate diváḥ ǁ
ṛtasya gopāv adhi tiṣṭhatho rathaṃ satyadharmāṇā parame vyomani |
yam atra mitrāvaruṇāvatho yuvaṃ tasmai vṛṣṭir madhumat pinvate divaḥ ||
Padapāṭha
ऋत॑स्य । गो॒पौ॒ । अधि॑ । ति॒ष्ठ॒थः॒ । रथ॑म् । सत्य॑ऽधर्माणा । प॒र॒मे । विऽओ॑मनि ।
यम् । अत्र॑ । मि॒त्रा॒व॒रु॒णा॒ । अव॑थः । यु॒वम् । तस्मै॑ । वृ॒ष्टिः । मधु॑ऽमत् । पि॒न्व॒ते॒ । दि॒वः ॥
ऋतस्य । गोपौ । अधि । तिष्ठथः । रथम् । सत्यऽधर्माणा । परमे । विऽओमनि ।
यम् । अत्र । मित्रावरुणा । अवथः । युवम् । तस्मै । वृष्टिः । मधुऽमत् । पिन्वते । दिवः ॥
ṛ́tasya ǀ gopau ǀ ádhi ǀ tiṣṭhathaḥ ǀ rátham ǀ sátya-dharmāṇā ǀ paramé ǀ ví-omani ǀ
yám ǀ átra ǀ mitrāvaruṇā ǀ ávathaḥ ǀ yuvám ǀ tásmai ǀ vṛṣṭíḥ ǀ mádhu-mat ǀ pinvate ǀ diváḥ ǁ
ṛtasya ǀ gopau ǀ adhi ǀ tiṣṭhathaḥ ǀ ratham ǀ satya-dharmāṇā ǀ parame ǀ vi-omani ǀ
yam ǀ atra ǀ mitrāvaruṇā ǀ avathaḥ ǀ yuvam ǀ tasmai ǀ vṛṣṭiḥ ǀ madhu-mat ǀ pinvate ǀ divaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 05.063.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.4.01.01
- Maṇḍala · Anuvāka · Ṛk
- 05.05.061
- Devatā देवता
- Mitra, Varuṇa
- Ṛṣi ऋषि
- Arcanānas Ātreya
- Chandas छन्दस्
- Jagatī
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.