Ṛgveda · Maṇḍala 5

Sūkta 44

Viśvedevās · Avatsāra Kāśyapa And Other · 15 ṛks

Link
Devatā देवता
Viśvedevās
Ṛṣi ऋषि
Avatsāra Kāśyapa And Other
Chandas छन्दस्
Jagatī, Triṣṭubh
Metres by ṛk

1st set of styles nicṛjjagatī (2-6); jagatī (8, 9, 12); virāṭjagatī (1, 13); svarāṭtriṣṭup (10, 11); bhuriktriṣṭup (7); virāṭtrisṭup (14); triṣṭup (15)

2nd set of styles jagatī (1-13); triṣṭubh (14, 15)

  1. Ṛk 1

    तं प्र॒त्नथा॑ पू॒र्वथा॑ वि॒श्वथे॒मथा॑ ज्ये॒ष्ठता॑तिं बर्हि॒षदं॑ स्व॒र्विदं॑ ।
    प्र॒ती॒ची॒नं वृ॒जनं॑ दोहसे गि॒राशुं जयं॑त॒मनु॒ यासु॒ वर्ध॑से ॥

    तम् प्रत्नथा पूर्वथा विश्वथेमथा ज्येष्ठतातिम् बर्हिषदं स्वर्विदम् |
    प्रतीचीनं वृजनं दोहसे गिराशुं जयन्तम् अनु यासु वर्धसे ||

    tám pratnáthā pūrváthā viśváthemáthā jyeṣṭhátātim barhiṣádam svarvídam ǀ
    pratīcīnám vṛjánam dohase girā́śúm jáyantamánu yā́su várdhase ǁ

    tam pratnathā pūrvathā viśvathemathā jyeṣṭhatātim barhiṣadaṃ svarvidam |
    pratīcīnaṃ vṛjanaṃ dohase girāśuṃ jayantam anu yāsu vardhase ||

    तम् । प्र॒त्नऽथा॑ । पू॒र्वऽथा॑ । वि॒श्वऽथा॑ । इ॒मऽथा॑ । ज्ये॒ष्ठऽता॑तिम् । ब॒र्हि॒ऽसद॑म् । स्वः॒ऽविद॑म् ।
    प्र॒ती॒ची॒नम् । वृ॒जन॑म् । दो॒ह॒से॒ । गि॒रा । आ॒शुम् । जय॑न्तम् । अनु॑ । यासु॑ । वर्ध॑से ॥

    तम् । प्रत्नऽथा । पूर्वऽथा । विश्वऽथा । इमऽथा । ज्येष्ठऽतातिम् । बर्हिऽसदम् । स्वःऽविदम् ।
    प्रतीचीनम् । वृजनम् । दोहसे । गिरा । आशुम् । जयन्तम् । अनु । यासु । वर्धसे ॥

    tám ǀ pratná-thā ǀ pūrvá-thā ǀ viśvá-thā ǀ imá-thā ǀ jyeṣṭhá-tātim ǀ barhi-sádam ǀ svaḥ-vídam ǀ
    pratīcīnám ǀ vṛjánam ǀ dohase ǀ girā́ ǀ āśúm ǀ jáyantam ǀ ánu ǀ yā́su ǀ várdhase ǁ

    tam ǀ pratna-thā ǀ pūrva-thā ǀ viśva-thā ǀ ima-thā ǀ jyeṣṭha-tātim ǀ barhi-sadam ǀ svaḥ-vidam ǀ
    pratīcīnam ǀ vṛjanam ǀ dohase ǀ girā ǀ āśum ǀ jayantam ǀ anu ǀ yāsu ǀ vardhase ǁ

    5.44.1 Aṣṭaka 4.2.23.1Anuvāka 5.3.113

  2. Ṛk 2

    श्रि॒ये सु॒दृशी॒रुप॑रस्य॒ याः स्व॑र्वि॒रोच॑मानः क॒कुभा॑मचो॒दते॑ ।
    सु॒गो॒पा अ॑सि॒ न दभा॑य सुक्रतो प॒रो मा॒याभि॑र्ऋ॒त आ॑स॒ नाम॑ ते ॥

    श्रिये सुदृशीर् उपरस्य याः स्वर् विरोचमानः ककुभाम् अचोदते |
    सुगोपा असि न दभाय सुक्रतो परो मायाभिर् ऋत आस नाम ते ||

    śriyé sudṛ́śīrúparasya yā́ḥ svárvirócamānaḥ kakúbhāmacodáte ǀ
    sugopā́ asi ná dábhāya sukrato paró māyā́bhirṛtá āsa nā́ma te ǁ

    śriye sudṛśīr uparasya yāḥ svar virocamānaḥ kakubhām acodate |
    sugopā asi na dabhāya sukrato paro māyābhir ṛta āsa nāma te ||

    श्रि॒ये । सु॒ऽदृशीः॑ । उप॑रस्य । याः । स्वः॑ । वि॒ऽरोच॑मानः । क॒कुभा॑म् । अ॒चो॒दते॑ ।
    सु॒ऽगो॒पाः । अ॒सि॒ । न । दभा॑य । सु॒क्र॒तो॒ इति॑ सुऽक्रतो । प॒रः । मा॒याभिः॑ । ऋ॒ते । आ॒स॒ । नाम॑ । ते॒ ॥

    श्रिये । सुऽदृशीः । उपरस्य । याः । स्वः । विऽरोचमानः । ककुभाम् । अचोदते ।
    सुऽगोपाः । असि । न । दभाय । सुक्रतो इति सुऽक्रतो । परः । मायाभिः । ऋते । आस । नाम । ते ॥

    śriyé ǀ su-dṛ́śīḥ ǀ úparasya ǀ yā́ḥ ǀ sváḥ ǀ vi-rócamānaḥ ǀ kakúbhām ǀ acodáte ǀ
    su-gopā́ḥ ǀ asi ǀ ná ǀ dábhāya ǀ sukrato íti su-krato ǀ paráḥ ǀ māyā́bhiḥ ǀ ṛté ǀ āsa ǀ nā́ma ǀ te ǁ

    śriye ǀ su-dṛśīḥ ǀ uparasya ǀ yāḥ ǀ svaḥ ǀ vi-rocamānaḥ ǀ kakubhām ǀ acodate ǀ
    su-gopāḥ ǀ asi ǀ na ǀ dabhāya ǀ sukrato iti su-krato ǀ paraḥ ǀ māyābhiḥ ǀ ṛte ǀ āsa ǀ nāma ǀ te ǁ

    5.44.2 Aṣṭaka 4.2.23.2Anuvāka 5.3.114

  3. Ṛk 3

    अत्यं॑ ह॒विः स॑चते॒ सच्च॒ धातु॒ चारि॑ष्टगातुः॒ स होता॑ सहो॒भरिः॑ ।
    प्र॒सर्स्रा॑णो॒ अनु॑ ब॒र्हिर्वृषा॒ शिशु॒र्मध्ये॒ युवा॒जरो॑ वि॒स्रुहा॑ हि॒तः ॥

    अत्यं हविः सचते सच् च धातु चारिष्टगातुः स होता सहोभरिः |
    प्रसर्स्राणो अनु बर्हिर् वृषा शिशुर् मध्ये युवाजरो विस्रुहा हितः ||

    átyam havíḥ sacate sácca dhā́tu cā́riṣṭagātuḥ sá hótā sahobháriḥ ǀ
    prasársrāṇo ánu barhírvṛ́ṣā śíśurmádhye yúvājáro visrúhā hitáḥ ǁ

    atyaṃ haviḥ sacate sac ca dhātu cāriṣṭagātuḥ sa hotā sahobhariḥ |
    prasarsrāṇo anu barhir vṛṣā śiśur madhye yuvājaro visruhā hitaḥ ||

    अत्य॑म् । ह॒विः । स॒च॒ते॒ । सत् । च॒ । धातु॑ । च॒ । अरि॑ष्टऽगातुः । सः । होता॑ । स॒हः॒ऽभरिः॑ ।
    प्र॒ऽसर्स्रा॑णः । अनु॑ । ब॒र्हिः । वृषा॑ । शिशुः॑ । मध्ये॑ । युवा॑ । अ॒जरः॑ । वि॒ऽस्रुहा॑ । हि॒तः ॥

    अत्यम् । हविः । सचते । सत् । च । धातु । च । अरिष्टऽगातुः । सः । होता । सहःऽभरिः ।
    प्रऽसर्स्राणः । अनु । बर्हिः । वृषा । शिशुः । मध्ये । युवा । अजरः । विऽस्रुहा । हितः ॥

    átyam ǀ havíḥ ǀ sacate ǀ sát ǀ ca ǀ dhā́tu ǀ ca ǀ áriṣṭa-gātuḥ ǀ sáḥ ǀ hótā ǀ sahaḥ-bháriḥ ǀ
    pra-sársrāṇaḥ ǀ ánu ǀ barhíḥ ǀ vṛ́ṣā ǀ śíśuḥ ǀ mádhye ǀ yúvā ǀ ajáraḥ ǀ vi-srúhā ǀ hitáḥ ǁ

    atyam ǀ haviḥ ǀ sacate ǀ sat ǀ ca ǀ dhātu ǀ ca ǀ ariṣṭa-gātuḥ ǀ saḥ ǀ hotā ǀ sahaḥ-bhariḥ ǀ
    pra-sarsrāṇaḥ ǀ anu ǀ barhiḥ ǀ vṛṣā ǀ śiśuḥ ǀ madhye ǀ yuvā ǀ ajaraḥ ǀ vi-sruhā ǀ hitaḥ ǁ

    5.44.3 Aṣṭaka 4.2.23.3Anuvāka 5.3.115

  4. Ṛk 4

    प्र व॑ ए॒ते सु॒युजो॒ याम॑न्नि॒ष्टये॒ नीची॑र॒मुष्मै॑ य॒म्य॑ ऋता॒वृधः॑ ।
    सु॒यंतु॑भिः सर्वशा॒सैर॒भीशु॑भिः॒ क्रिवि॒र्नामा॑नि प्रव॒णे मु॑षायति ॥

    प्र व एते सुयुजो यामन्न् इष्टये नीचीर् अमुष्मै यम्य ऋतावृधः |
    सुयन्तुभिः सर्वशासैर् अभीशुभिः क्रिविर् नामानि प्रवणे मुषायति ||

    prá va eté suyújo yā́manniṣṭáye nī́cīramúṣmai yamyá ṛtāvṛ́dhaḥ ǀ
    suyántubhiḥ sarvaśāsáirabhī́śubhiḥ krívirnā́māni pravaṇé muṣāyati ǁ

    pra va ete suyujo yāmann iṣṭaye nīcīr amuṣmai yamya ṛtāvṛdhaḥ |
    suyantubhiḥ sarvaśāsair abhīśubhiḥ krivir nāmāni pravaṇe muṣāyati ||

    प्र । वः॒ । ए॒ते । सु॒ऽयुजः॑ । याम॑न् । इ॒ष्टये॑ । नीचीः॑ । अ॒मुष्मै॑ । य॒म्यः॑ । ऋ॒त॒ऽवृधः॑ ।
    सु॒यन्तु॑ऽभिः । स॒र्व॒ऽशा॒सैः । अ॒भीशु॑ऽभिः । क्रिविः॑ । नामा॑नि । प्र॒व॒णे । मु॒षा॒य॒ति॒ ॥

    प्र । वः । एते । सुऽयुजः । यामन् । इष्टये । नीचीः । अमुष्मै । यम्यः । ऋतऽवृधः ।
    सुयन्तुऽभिः । सर्वऽशासैः । अभीशुऽभिः । क्रिविः । नामानि । प्रवणे । मुषायति ॥

    prá ǀ vaḥ ǀ eté ǀ su-yújaḥ ǀ yā́man ǀ iṣṭáye ǀ nī́cīḥ ǀ amúṣmai ǀ yamyáḥ ǀ ṛta-vṛ́dhaḥ ǀ
    suyántu-bhiḥ ǀ sarva-śāsáiḥ ǀ abhī́śu-bhiḥ ǀ kríviḥ ǀ nā́māni ǀ pravaṇé ǀ muṣāyati ǁ

    pra ǀ vaḥ ǀ ete ǀ su-yujaḥ ǀ yāman ǀ iṣṭaye ǀ nīcīḥ ǀ amuṣmai ǀ yamyaḥ ǀ ṛta-vṛdhaḥ ǀ
    suyantu-bhiḥ ǀ sarva-śāsaiḥ ǀ abhīśu-bhiḥ ǀ kriviḥ ǀ nāmāni ǀ pravaṇe ǀ muṣāyati ǁ

    5.44.4 Aṣṭaka 4.2.23.4Anuvāka 5.3.116

  5. Ṛk 5

    सं॒जर्भु॑राण॒स्तरु॑भिः सुते॒गृभं॑ वया॒किनं॑ चि॒त्तग॑र्भासु सु॒स्वरुः॑ ।
    धा॒र॒वा॒केष्वृ॑जुगाथ शोभसे॒ वर्ध॑स्व॒ पत्नी॑र॒भि जी॒वो अ॑ध्व॒रे ॥

    संजर्भुराणस् तरुभिः सुतेगृभं वयाकिनं चित्तगर्भासु सुस्वरुः |
    धारवाकेष्व् ऋजुगाथ शोभसे वर्धस्व पत्नीर् अभि जीवो अध्वरे ||

    saṃjárbhurāṇastárubhiḥ sutegṛ́bham vayākínam cittágarbhāsu susváruḥ ǀ
    dhāravākéṣvṛjugātha śobhase várdhasva pátnīrabhí jīvó adhvaré ǁ

    saṃjarbhurāṇas tarubhiḥ sutegṛbhaṃ vayākinaṃ cittagarbhāsu susvaruḥ |
    dhāravākeṣv ṛjugātha śobhase vardhasva patnīr abhi jīvo adhvare ||

    स॒म्ऽजर्भु॑राणः । तरु॑ऽभिः । सु॒ते॒ऽगृभ॑म् । व॒या॒किन॑म् । चि॒त्तऽग॑र्भासु । सु॒ऽस्वरुः॑ ।
    धा॒र॒ऽवा॒केषु॑ । ऋ॒जु॒ऽगा॒थ॒ । शो॒भ॒से॒ । वर्ध॑स्व । पत्नीः॑ । अ॒भि । जी॒वः । अ॒ध्व॒रे ॥

    सम्ऽजर्भुराणः । तरुऽभिः । सुतेऽगृभम् । वयाकिनम् । चित्तऽगर्भासु । सुऽस्वरुः ।
    धारऽवाकेषु । ऋजुऽगाथ । शोभसे । वर्धस्व । पत्नीः । अभि । जीवः । अध्वरे ॥

    sam-járbhurāṇaḥ ǀ táru-bhiḥ ǀ sute-gṛ́bham ǀ vayākínam ǀ cittá-garbhāsu ǀ su-sváruḥ ǀ
    dhāra-vākéṣu ǀ ṛju-gātha ǀ śobhase ǀ várdhasva ǀ pátnīḥ ǀ abhí ǀ jīváḥ ǀ adhvaré ǁ

    sam-jarbhurāṇaḥ ǀ taru-bhiḥ ǀ sute-gṛbham ǀ vayākinam ǀ citta-garbhāsu ǀ su-svaruḥ ǀ
    dhāra-vākeṣu ǀ ṛju-gātha ǀ śobhase ǀ vardhasva ǀ patnīḥ ǀ abhi ǀ jīvaḥ ǀ adhvare ǁ

    5.44.5 Aṣṭaka 4.2.23.5Anuvāka 5.3.117

  6. Ṛk 6

    या॒दृगे॒व ददृ॑शे ता॒दृगु॑च्यते॒ सं छा॒यया॑ दधिरे सि॒ध्रया॒प्स्वा ।
    म॒हीम॒स्मभ्य॑मुरु॒षामु॒रु ज्रयो॑ बृ॒हत्सु॒वीर॒मन॑पच्युतं॒ सहः॑ ॥

    यादृग् एव ददृशे तादृग् उच्यते सं छायया दधिरे सिध्रयाप्स्व् आ |
    महीम् अस्मभ्यम् उरुषाम् उरु ज्रयो बृहत् सुवीरम् अनपच्युतं सहः ||

    yādṛ́gevá dádṛśe tādṛ́gucyate sám chāyáyā dadhire sidhráyāpsvā́ ǀ
    mahī́masmábhyamuruṣā́murú jráyo bṛhátsuvī́ramánapacyutam sáhaḥ ǁ

    yādṛg eva dadṛśe tādṛg ucyate saṃ chāyayā dadhire sidhrayāpsv ā |
    mahīm asmabhyam uruṣām uru jrayo bṛhat suvīram anapacyutaṃ sahaḥ ||

    या॒दृक् । ए॒व । ददृ॑शे । ता॒दृक् । उ॒च्य॒ते॒ । सम् । छा॒यया॑ । द॒धि॒रे॒ । सि॒ध्रया॑ । अ॒प्ऽसु । आ ।
    म॒हीम् । अ॒स्मभ्य॑म् । उ॒रु॒ऽसाम् । उ॒रु । ज्रयः॑ । बृ॒हत् । सु॒ऽवीर॑म् । अन॑पऽच्युतम् । सहः॑ ॥

    यादृक् । एव । ददृशे । तादृक् । उच्यते । सम् । छायया । दधिरे । सिध्रया । अप्ऽसु । आ ।
    महीम् । अस्मभ्यम् । उरुऽसाम् । उरु । ज्रयः । बृहत् । सुऽवीरम् । अनपऽच्युतम् । सहः ॥

    yādṛ́k ǀ evá ǀ dádṛśe ǀ tādṛ́k ǀ ucyate ǀ sám ǀ chāyáyā ǀ dadhire ǀ sidhráyā ǀ ap-sú ǀ ā́ ǀ
    mahī́m ǀ asmábhyam ǀ uru-sā́m ǀ urú ǀ jráyaḥ ǀ bṛhát ǀ su-vī́ram ǀ ánapa-cyutam ǀ sáhaḥ ǁ

    yādṛk ǀ eva ǀ dadṛśe ǀ tādṛk ǀ ucyate ǀ sam ǀ chāyayā ǀ dadhire ǀ sidhrayā ǀ ap-su ǀ ā ǀ
    mahīm ǀ asmabhyam ǀ uru-sām ǀ uru ǀ jrayaḥ ǀ bṛhat ǀ su-vīram ǀ anapa-cyutam ǀ sahaḥ ǁ

    5.44.6 Aṣṭaka 4.2.24.1Anuvāka 5.3.118

  7. Ṛk 7

    वेत्यग्रु॒र्जनि॑वा॒न्वा अति॒ स्पृधः॑ समर्य॒ता मन॑सा॒ सूर्यः॑ क॒विः ।
    घ्रं॒सं रक्षं॑तं॒ परि॑ वि॒श्वतो॒ गय॑म॒स्माकं॒ शर्म॑ वनव॒त्स्वाव॑सुः ॥

    वेत्य् अग्रुर् जनिवान् वा अति स्पृधः समर्यता मनसा सूर्यः कविः |
    घ्रंसं रक्षन्तम् परि विश्वतो गयम् अस्माकं शर्म वनवत् स्वावसुः ||

    vétyágrurjánivānvā́ áti spṛ́dhaḥ samaryatā́ mánasā sū́ryaḥ kavíḥ ǀ
    ghraṃsám rákṣantam pári viśváto gáyamasmā́kam śárma vanavatsvā́vasuḥ ǁ

    vety agrur janivān vā ati spṛdhaḥ samaryatā manasā sūryaḥ kaviḥ |
    ghraṃsaṃ rakṣantam pari viśvato gayam asmākaṃ śarma vanavat svāvasuḥ ||

    वेति॑ । अग्रुः॑ । जनि॑ऽवान् । वै । अति॑ । स्पृधः॑ । स॒ऽम॒र्य॒ता । मन॑सा । सूर्यः॑ । क॒विः ।
    घ्रं॒सम् । रक्ष॑न्तम् । परि॑ । वि॒श्वतः॑ । गय॑म् । अ॒स्माक॑म् । शर्म॑ । व॒न॒व॒त् । स्वऽव॑सुः ॥

    वेति । अग्रुः । जनिऽवान् । वै । अति । स्पृधः । सऽमर्यता । मनसा । सूर्यः । कविः ।
    घ्रंसम् । रक्षन्तम् । परि । विश्वतः । गयम् । अस्माकम् । शर्म । वनवत् । स्वऽवसुः ॥

    véti ǀ ágruḥ ǀ jáni-vān ǀ vái ǀ áti ǀ spṛ́dhaḥ ǀ sa-maryatā́ ǀ mánasā ǀ sū́ryaḥ ǀ kavíḥ ǀ
    ghraṃsám ǀ rákṣantam ǀ pári ǀ viśvátaḥ ǀ gáyam ǀ asmā́kam ǀ śárma ǀ vanavat ǀ svá-vasuḥ ǁ

    veti ǀ agruḥ ǀ jani-vān ǀ vai ǀ ati ǀ spṛdhaḥ ǀ sa-maryatā ǀ manasā ǀ sūryaḥ ǀ kaviḥ ǀ
    ghraṃsam ǀ rakṣantam ǀ pari ǀ viśvataḥ ǀ gayam ǀ asmākam ǀ śarma ǀ vanavat ǀ sva-vasuḥ ǁ

    5.44.7 Aṣṭaka 4.2.24.2Anuvāka 5.3.119

  8. Ṛk 8

    ज्यायां॑सम॒स्य य॒तुन॑स्य के॒तुन॑ ऋषिस्व॒रं च॑रति॒ यासु॒ नाम॑ ते ।
    या॒दृश्मिं॒धायि॒ तम॑प॒स्यया॑ विद॒द्य उ॑ स्व॒यं वह॑ते॒ सो अरं॑ करत् ॥

    ज्यायांसम् अस्य यतुनस्य केतुन ऋषिस्वरं चरति यासु नाम ते |
    यादृश्मिन् धायि तम् अपस्यया विदद् य उ स्वयं वहते सो अरं करत् ||

    jyā́yāṃsamasyá yatúnasya ketúna ṛṣisvarám carati yā́su nā́ma te ǀ
    yādṛ́śmindhā́yi támapasyáyā vidadyá u svayám váhate só áram karat ǁ

    jyāyāṃsam asya yatunasya ketuna ṛṣisvaraṃ carati yāsu nāma te |
    yādṛśmin dhāyi tam apasyayā vidad ya u svayaṃ vahate so araṃ karat ||

    ज्यायां॑सम् । अ॒स्य । य॒तुन॑स्य । के॒तुना॑ । ऋ॒षि॒ऽस्व॒रम् । च॒र॒ति॒ । यासु॑ । नाम॑ । ते॒ ।
    या॒दृश्मि॑न् । धायि॑ । तम् । अ॒प॒स्यया॑ । वि॒द॒त् । यः । ऊं॒ इति॑ । स्व॒यम् । वह॑ते । सः । अर॑म् । क॒र॒त् ॥

    ज्यायांसम् । अस्य । यतुनस्य । केतुना । ऋषिऽस्वरम् । चरति । यासु । नाम । ते ।
    यादृश्मिन् । धायि । तम् । अपस्यया । विदत् । यः । ऊं इति । स्वयम् । वहते । सः । अरम् । करत् ॥

    jyā́yāṃsam ǀ asyá ǀ yatúnasya ǀ ketúnā ǀ ṛṣi-svarám ǀ carati ǀ yā́su ǀ nā́ma ǀ te ǀ
    yādṛ́śmin ǀ dhā́yi ǀ tám ǀ apasyáyā ǀ vidat ǀ yáḥ ǀ ūṃ íti ǀ svayám ǀ váhate ǀ sáḥ ǀ áram ǀ karat ǁ

    jyāyāṃsam ǀ asya ǀ yatunasya ǀ ketunā ǀ ṛṣi-svaram ǀ carati ǀ yāsu ǀ nāma ǀ te ǀ
    yādṛśmin ǀ dhāyi ǀ tam ǀ apasyayā ǀ vidat ǀ yaḥ ǀ ūṃ iti ǀ svayam ǀ vahate ǀ saḥ ǀ aram ǀ karat ǁ

    5.44.8 Aṣṭaka 4.2.24.3Anuvāka 5.3.120

  9. Ṛk 9

    स॒मु॒द्रमा॑सा॒मव॑ तस्थे अग्रि॒मा न रि॑ष्यति॒ सव॑नं॒ यस्मि॒न्नाय॑ता ।
    अत्रा॒ न हार्दि॑ क्रव॒णस्य॑ रेजते॒ यत्रा॑ म॒तिर्वि॒द्यते॑ पूत॒बंध॑नी ॥

    समुद्रम् आसाम् अव तस्थे अग्रिमा न रिष्यति सवनं यस्मिन्न् आयता |
    अत्रा न हार्दि क्रवणस्य रेजते यत्रा मतिर् विद्यते पूतबन्धनी ||

    samudrámāsāmáva tasthe agrimā́ ná riṣyati sávanam yásminnā́yatā ǀ
    átrā ná hā́rdi kravaṇásya rejate yátrā matírvidyáte pūtabándhanī ǁ

    samudram āsām ava tasthe agrimā na riṣyati savanaṃ yasminn āyatā |
    atrā na hārdi kravaṇasya rejate yatrā matir vidyate pūtabandhanī ||

    स॒मु॒द्रम् । आ॒सा॒म् । अव॑ । त॒स्थे॒ । अ॒ग्रि॒मा । न । रि॒ष्य॒ति॒ । सव॑नम् । यस्मि॑न् । आऽय॑ता ।
    अत्र॑ । न । हार्दि॑ । क्र॒व॒णस्य॑ । रे॒ज॒ते॒ । यत्र॑ । म॒तिः । वि॒द्यते॑ । पू॒त॒ऽबन्ध॑नी ॥

    समुद्रम् । आसाम् । अव । तस्थे । अग्रिमा । न । रिष्यति । सवनम् । यस्मिन् । आऽयता ।
    अत्र । न । हार्दि । क्रवणस्य । रेजते । यत्र । मतिः । विद्यते । पूतऽबन्धनी ॥

    samudrám ǀ āsām ǀ áva ǀ tasthe ǀ agrimā́ ǀ ná ǀ riṣyati ǀ sávanam ǀ yásmin ǀ ā́-yatā ǀ
    átra ǀ ná ǀ hā́rdi ǀ kravaṇásya ǀ rejate ǀ yátra ǀ matíḥ ǀ vidyáte ǀ pūta-bándhanī ǁ

    samudram ǀ āsām ǀ ava ǀ tasthe ǀ agrimā ǀ na ǀ riṣyati ǀ savanam ǀ yasmin ǀ ā-yatā ǀ
    atra ǀ na ǀ hārdi ǀ kravaṇasya ǀ rejate ǀ yatra ǀ matiḥ ǀ vidyate ǀ pūta-bandhanī ǁ

    5.44.9 Aṣṭaka 4.2.24.4Anuvāka 5.3.121

  10. Ṛk 10

    स हि क्ष॒त्रस्य॑ मन॒सस्य॒ चित्ति॑भिरेवाव॒दस्य॑ यज॒तस्य॒ सध्रेः॑ ।
    अ॒व॒त्सा॒रस्य॑ स्पृणवाम॒ रण्व॑भिः॒ शवि॑ष्ठं॒ वाजं॑ वि॒दुषा॑ चि॒दर्ध्यं॑ ॥

    स हि क्षत्रस्य मनसस्य चित्तिभिर् एवावदस्य यजतस्य सध्रेः |
    अवत्सारस्य स्पृणवाम रण्वभिः शविष्ठं वाजं विदुषा चिद् अर्ध्यम् ||

    sá hí kṣatrásya manasásya cíttibhirevāvadásya yajatásya sádhreḥ ǀ
    avatsārásya spṛṇavāma ráṇvabhiḥ śáviṣṭham vā́jam vidúṣā cidárdhyam ǁ

    sa hi kṣatrasya manasasya cittibhir evāvadasya yajatasya sadhreḥ |
    avatsārasya spṛṇavāma raṇvabhiḥ śaviṣṭhaṃ vājaṃ viduṣā cid ardhyam ||

    सः । हि । क्ष॒त्रस्य॑ । म॒न॒सस्य॑ । चित्ति॑ऽभिः । ए॒व॒ऽव॒दस्य॑ । य॒ज॒तस्य॑ । सध्रेः॑ ।
    अ॒व॒ऽत्सा॒रस्य॑ । स्पृ॒ण॒वा॒म॒ । रण्व॑ऽभिः । शवि॑ष्ठम् । वाज॑म् । वि॒दुषा॑ । चि॒त् । अर्ध्य॑म् ॥

    सः । हि । क्षत्रस्य । मनसस्य । चित्तिऽभिः । एवऽवदस्य । यजतस्य । सध्रेः ।
    अवऽत्सारस्य । स्पृणवाम । रण्वऽभिः । शविष्ठम् । वाजम् । विदुषा । चित् । अर्ध्यम् ॥

    sáḥ ǀ hí ǀ kṣatrásya ǀ manasásya ǀ cítti-bhiḥ ǀ eva-vadásya ǀ yajatásya ǀ sádhreḥ ǀ
    ava-tsārásya ǀ spṛṇavāma ǀ ráṇva-bhiḥ ǀ śáviṣṭham ǀ vā́jam ǀ vidúṣā ǀ cit ǀ árdhyam ǁ

    saḥ ǀ hi ǀ kṣatrasya ǀ manasasya ǀ citti-bhiḥ ǀ eva-vadasya ǀ yajatasya ǀ sadhreḥ ǀ
    ava-tsārasya ǀ spṛṇavāma ǀ raṇva-bhiḥ ǀ śaviṣṭham ǀ vājam ǀ viduṣā ǀ cit ǀ ardhyam ǁ

    5.44.10 Aṣṭaka 4.2.24.5Anuvāka 5.3.122

  11. Ṛk 11

    श्ये॒न आ॑सा॒मदि॑तिः क॒क्ष्यो॒३॒॑ मदो॑ वि॒श्ववा॑रस्य यज॒तस्य॑ मा॒यिनः॑ ।
    सम॒न्यम॑न्यमर्थयं॒त्येत॑वे वि॒दुर्वि॒षाणं॑ परि॒पान॒मंति॒ ते ॥

    श्येन आसाम् अदितिः कक्ष्यो मदो विश्ववारस्य यजतस्य मायिनः |
    सम् अन्यम्-अन्यम् अर्थयन्त्य् एतवे विदुर् विषाणम् परिपानम् अन्ति ते ||

    śyená āsāmáditiḥ kakṣyó mádo viśvávārasya yajatásya māyínaḥ ǀ
    sámanyámanyamarthayantyétave vidúrviṣā́ṇam paripā́namánti té ǁ

    śyena āsām aditiḥ kakṣyo mado viśvavārasya yajatasya māyinaḥ |
    sam anyam-anyam arthayanty etave vidur viṣāṇam paripānam anti te ||

    श्ये॒नः । आ॒सा॒म् । अदि॑तिः । क॒क्ष्यः॑ । मदः॑ । वि॒श्वऽवा॑रस्य । य॒ज॒तस्य॑ । मा॒यिनः॑ ।
    सम् । अ॒न्यम्ऽअ॑न्यम् । अ॒र्थ॒य॒न्ति॒ । एत॑वे । वि॒दुः । वि॒ऽसान॑म् । प॒रि॒ऽपान॑म् । अन्ति॑ । ते ॥

    श्येनः । आसाम् । अदितिः । कक्ष्यः । मदः । विश्वऽवारस्य । यजतस्य । मायिनः ।
    सम् । अन्यम्ऽअन्यम् । अर्थयन्ति । एतवे । विदुः । विऽसानम् । परिऽपानम् । अन्ति । ते ॥

    śyenáḥ ǀ āsām ǀ áditiḥ ǀ kakṣyáḥ ǀ mádaḥ ǀ viśvá-vārasya ǀ yajatásya ǀ māyínaḥ ǀ
    sám ǀ anyám-anyam ǀ arthayanti ǀ étave ǀ vidúḥ ǀ vi-sā́nam ǀ pari-pā́nam ǀ ánti ǀ té ǁ

    śyenaḥ ǀ āsām ǀ aditiḥ ǀ kakṣyaḥ ǀ madaḥ ǀ viśva-vārasya ǀ yajatasya ǀ māyinaḥ ǀ
    sam ǀ anyam-anyam ǀ arthayanti ǀ etave ǀ viduḥ ǀ vi-sānam ǀ pari-pānam ǀ anti ǀ te ǁ

    5.44.11 Aṣṭaka 4.2.25.1Anuvāka 5.3.123

  12. Ṛk 12

    स॒दा॒पृ॒णो य॑ज॒तो वि द्विषो॑ वधीद्बाहुवृ॒क्तः श्रु॑त॒वित्तर्यो॑ वः॒ सचा॑ ।
    उ॒भा स वरा॒ प्रत्ये॑ति॒ भाति॑ च॒ यदीं॑ ग॒णं भज॑ते सुप्र॒याव॑भिः ॥

    सदापृणो यजतो वि द्विषो वधीद् बाहुवृक्तः श्रुतवित् तर्यो वः सचा |
    उभा स वरा प्रत्य् एति भाति च यद् ईं गणम् भजते सुप्रयावभिः ||

    sadāpṛṇó yajató ví dvíṣo vadhīdbāhuvṛktáḥ śrutavíttáryo vaḥ sácā ǀ
    ubhā́ sá várā prátyeti bhā́ti ca yádīm gaṇám bhájate suprayā́vabhiḥ ǁ

    sadāpṛṇo yajato vi dviṣo vadhīd bāhuvṛktaḥ śrutavit taryo vaḥ sacā |
    ubhā sa varā praty eti bhāti ca yad īṃ gaṇam bhajate suprayāvabhiḥ ||

    स॒दा॒ऽपृ॒णः । य॒ज॒तः । वि । द्विषः॑ । व॒धी॒त् । बा॒हु॒ऽवृ॒क्तः । श्रु॒त॒ऽवित् । तर्यः॑ । वः॒ । सचा॑ ।
    उ॒भा । सः । वरा॑ । प्रति॑ । ए॒ति॒ । भाति॑ । च॒ । यत् । ई॒म् । ग॒णम् । भज॑ते । सु॒प्र॒याव॑ऽभिः ॥

    सदाऽपृणः । यजतः । वि । द्विषः । वधीत् । बाहुऽवृक्तः । श्रुतऽवित् । तर्यः । वः । सचा ।
    उभा । सः । वरा । प्रति । एति । भाति । च । यत् । ईम् । गणम् । भजते । सुप्रयावऽभिः ॥

    sadā-pṛṇáḥ ǀ yajatáḥ ǀ ví ǀ dvíṣaḥ ǀ vadhīt ǀ bāhu-vṛktáḥ ǀ śruta-vít ǀ táryaḥ ǀ vaḥ ǀ sácā ǀ
    ubhā́ ǀ sáḥ ǀ várā ǀ práti ǀ eti ǀ bhā́ti ǀ ca ǀ yát ǀ īm ǀ gaṇám ǀ bhájate ǀ suprayā́va-bhiḥ ǁ

    sadā-pṛṇaḥ ǀ yajataḥ ǀ vi ǀ dviṣaḥ ǀ vadhīt ǀ bāhu-vṛktaḥ ǀ śruta-vit ǀ taryaḥ ǀ vaḥ ǀ sacā ǀ
    ubhā ǀ saḥ ǀ varā ǀ prati ǀ eti ǀ bhāti ǀ ca ǀ yat ǀ īm ǀ gaṇam ǀ bhajate ǀ suprayāva-bhiḥ ǁ

    5.44.12 Aṣṭaka 4.2.25.2Anuvāka 5.3.124

  13. Ṛk 13

    सु॒तं॒भ॒रो यज॑मानस्य॒ सत्प॑ति॒र्विश्वा॑सा॒मूधः॒ स धि॒यामु॒दंच॑नः ।
    भर॑द्धे॒नू रस॑वच्छिश्रिये॒ पयो॑ऽनुब्रुवा॒णो अध्ये॑ति॒ न स्व॒पन् ॥

    सुतम्भरो यजमानस्य सत्पतिर् विश्वासाम् ऊधः स धियाम् उदञ्चनः |
    भरद् धेनू रसवच् छिश्रिये पयो ऽनुब्रुवाणो अध्य् एति न स्वपन् ||

    sutambharó yájamānasya sátpatirvíśvāsāmū́dhaḥ sá dhiyā́mudáñcanaḥ ǀ
    bháraddhenū́ rásavacchiśriye páyo’nubruvāṇó ádhyeti ná svapán ǁ

    sutambharo yajamānasya satpatir viśvāsām ūdhaḥ sa dhiyām udañcanaḥ |
    bharad dhenū rasavac chiśriye payo 'nubruvāṇo adhy eti na svapan ||

    सु॒त॒म्ऽभ॒रः । यज॑मानस्य । सत्ऽप॑तिः । विश्वा॑साम् । ऊधः॑ । सः । धि॒याम् । उ॒त्ऽअञ्च॑नः ।
    भर॑त् । धे॒नुः । रस॑ऽवत् । शि॒श्रि॒ये॒ । पयः॑ । अ॒नु॒ऽब्रु॒वा॒णः । अधि॑ । ए॒ति॒ । न । स्व॒पन् ॥

    सुतम्ऽभरः । यजमानस्य । सत्ऽपतिः । विश्वासाम् । ऊधः । सः । धियाम् । उत्ऽअञ्चनः ।
    भरत् । धेनुः । रसऽवत् । शिश्रिये । पयः । अनुऽब्रुवाणः । अधि । एति । न । स्वपन् ॥

    sutam-bharáḥ ǀ yájamānasya ǀ sát-patiḥ ǀ víśvāsām ǀ ū́dhaḥ ǀ sáḥ ǀ dhiyā́m ǀ ut-áñcanaḥ ǀ
    bhárat ǀ dhenúḥ ǀ rása-vat ǀ śiśriye ǀ páyaḥ ǀ anu-bruvāṇáḥ ǀ ádhi ǀ eti ǀ ná ǀ svapán ǁ

    sutam-bharaḥ ǀ yajamānasya ǀ sat-patiḥ ǀ viśvāsām ǀ ūdhaḥ ǀ saḥ ǀ dhiyām ǀ ut-añcanaḥ ǀ
    bharat ǀ dhenuḥ ǀ rasa-vat ǀ śiśriye ǀ payaḥ ǀ anu-bruvāṇaḥ ǀ adhi ǀ eti ǀ na ǀ svapan ǁ

    5.44.13 Aṣṭaka 4.2.25.3Anuvāka 5.3.125

  14. Ṛk 14

    यो जा॒गार॒ तमृचः॑ कामयंते॒ यो जा॒गार॒ तमु॒ सामा॑नि यंति ।
    यो जा॒गार॒ तम॒यं सोम॑ आह॒ तवा॒हम॑स्मि स॒ख्ये न्यो॑काः ॥

    यो जागार तम् ऋचः कामयन्ते यो जागार तम् उ सामानि यन्ति |
    यो जागार तम् अयं सोम आह तवाहम् अस्मि सख्ये न्योकाः ||

    yó jāgā́ra támṛ́caḥ kāmayante yó jāgā́ra támu sā́māni yanti ǀ
    yó jāgā́ra támayám sóma āha távāhámasmi sakhyé nyókāḥ ǁ

    yo jāgāra tam ṛcaḥ kāmayante yo jāgāra tam u sāmāni yanti |
    yo jāgāra tam ayaṃ soma āha tavāham asmi sakhye nyokāḥ ||

    यः । जा॒गार॑ । तम् । ऋचः॑ । का॒म॒य॒न्ते॒ । यः । जा॒गार॑ । तम् । ऊं॒ इति॑ । सामा॑नि । य॒न्ति॒ ।
    यः । जा॒गार॑ । तम् । अ॒यम् । सोमः॑ । आ॒ह॒ । तव॑ । अ॒हम् । अ॒स्मि॒ । स॒ख्ये । निऽओ॑काः ॥

    यः । जागार । तम् । ऋचः । कामयन्ते । यः । जागार । तम् । ऊं इति । सामानि । यन्ति ।
    यः । जागार । तम् । अयम् । सोमः । आह । तव । अहम् । अस्मि । सख्ये । निऽओकाः ॥

    yáḥ ǀ jāgā́ra ǀ tám ǀ ṛ́caḥ ǀ kāmayante ǀ yáḥ ǀ jāgā́ra ǀ tám ǀ ūṃ íti ǀ sā́māni ǀ yanti ǀ
    yáḥ ǀ jāgā́ra ǀ tám ǀ ayám ǀ sómaḥ ǀ āha ǀ táva ǀ ahám ǀ asmi ǀ sakhyé ǀ ní-okāḥ ǁ

    yaḥ ǀ jāgāra ǀ tam ǀ ṛcaḥ ǀ kāmayante ǀ yaḥ ǀ jāgāra ǀ tam ǀ ūṃ iti ǀ sāmāni ǀ yanti ǀ
    yaḥ ǀ jāgāra ǀ tam ǀ ayam ǀ somaḥ ǀ āha ǀ tava ǀ aham ǀ asmi ǀ sakhye ǀ ni-okāḥ ǁ

    5.44.14 Aṣṭaka 4.2.25.4Anuvāka 5.3.126

  15. Ṛk 15

    अ॒ग्निर्जा॑गार॒ तमृचः॑ कामयंते॒ऽग्निर्जा॑गार॒ तमु॒ सामा॑नि यंति ।
    अ॒ग्निर्जा॑गार॒ तम॒यं सोम॑ आह॒ तवा॒हम॑स्मि स॒ख्ये न्यो॑काः ॥

    अग्निर् जागार तम् ऋचः कामयन्ते ऽग्निर् जागार तम् उ सामानि यन्ति |
    अग्निर् जागार तम् अयं सोम आह तवाहम् अस्मि सख्ये न्योकाः ||

    agnírjāgāra támṛ́caḥ kāmayante’gnírjāgāra támu sā́māni yanti ǀ
    agnírjāgāra támayám sóma āha távāhámasmi sakhyé nyókāḥ ǁ

    agnir jāgāra tam ṛcaḥ kāmayante 'gnir jāgāra tam u sāmāni yanti |
    agnir jāgāra tam ayaṃ soma āha tavāham asmi sakhye nyokāḥ ||

    अ॒ग्निः । जा॒गा॒र॒ । तम् । ऋचः॑ । का॒म॒य॒न्ते॒ । अ॒ग्निः । जा॒गा॒र॒ । तम् । ऊं॒ इति॑ । सामा॑नि । य॒न्ति॒ ।
    अ॒ग्निः । जा॒गा॒र॒ । तम् । अ॒यम् । सोमः॑ । आ॒ह॒ । तव॑ । अ॒हम् । अ॒स्मि॒ । स॒ख्ये । निऽओ॑काः ॥

    अग्निः । जागार । तम् । ऋचः । कामयन्ते । अग्निः । जागार । तम् । ऊं इति । सामानि । यन्ति ।
    अग्निः । जागार । तम् । अयम् । सोमः । आह । तव । अहम् । अस्मि । सख्ये । निऽओकाः ॥

    agníḥ ǀ jāgāra ǀ tám ǀ ṛ́caḥ ǀ kāmayante ǀ agníḥ ǀ jāgāra ǀ tám ǀ ūṃ íti ǀ sā́māni ǀ yanti ǀ
    agníḥ ǀ jāgāra ǀ tám ǀ ayám ǀ sómaḥ ǀ āha ǀ táva ǀ ahám ǀ asmi ǀ sakhyé ǀ ní-okāḥ ǁ

    agniḥ ǀ jāgāra ǀ tam ǀ ṛcaḥ ǀ kāmayante ǀ agniḥ ǀ jāgāra ǀ tam ǀ ūṃ iti ǀ sāmāni ǀ yanti ǀ
    agniḥ ǀ jāgāra ǀ tam ǀ ayam ǀ somaḥ ǀ āha ǀ tava ǀ aham ǀ asmi ǀ sakhye ǀ ni-okāḥ ǁ

    5.44.15 Aṣṭaka 4.2.25.5Anuvāka 5.3.127

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 5.44 · Viśvedevās

Interpretations

Ralph T. H. Griffith

Ṛk 1

As in the first old times, as all were wont, as now, he draweth forth the power turned hitherward with song, The Princedom throned on holy grass, who findeth light, swift, conquering in the' plants wherein he waxeth strong.

Ṛk 2

Shining to him who leaves heaven's regions undisturbed, which to his sheen who is beneath show fair in light, Good guardian art thou, not to be deceived, Most Wise! Far from deceits thy name dwelleth in holy Law.

Ṛk 3

Truth waits upon oblation present and to come: naught checks him in his way, this vic tory- bringing Priest: The Mighty Child who glides along the sacred grass, the undecaying Youth set in the midst of plants.

Ṛk 4

These come, well-yoked, to you for furtherance in the rite: down come the twinborn strengtheners of Law for him, With reins easily guided and commanding all. In the deep fall the hide stealeth away their names.

Ṛk 5

Thou, moving beauteously in visibly pregnant ones, snatching with trees the branching plant that grasps the juice, Shinest, true Singer! mid the upholders of the voice. Increase thy Consorts thou, lively at sacrifice.

Ṛk 6

Like as he is beheld such is he said to be. They with effectual splendour in the floods have made Earth yield us room enough and amply wide extent, great might invincible, with store of hero sons.

Ṛk 7

Sūrya the Sage, as if unwedded, with a Spouse, in battle-loving spirit moveth o’er the foes. May he, self-excellent, grant us a sheltering home, a house that wards the fierce heat off on every side.

Ṛk 8

Thy name, sung forth by Ṛṣis in these hymns of ours, goes to the loftier One with this swift mover's light. By skill he wins the boon whereon his heart is set: he who bestirs himself shall bring the thing to pass.

Ṛk 9

The chief and best of these abideth in the sea, nor doth libation fail wherein it is prolonged. The heart of him who praiseth trembleth not in fear there where the hymn is found connected with the pure.

Ṛk 10

For it is he: with though to of Ksatra, Manasa, of Yajata, and Sadhri, and Evavada, With Avatsara's sweet songs will we strive to win the mightiest strength which even he who knows should gain.

Ṛk 11

The Hawk is their full source, girth-stretching rapturous drink of Visvavara, of Mayin, and Yajata. They ever seek a fresh draught so that they may come, know when thy time to halt and drink thy fill is near.

Ṛk 12

Sadaprna the holy, Tarya, Srutavit, and Bahuvrkta, joined with you, have slain the foes. He gains his wish in both the worlds and brightly shines-when he adores the host with well-advancing steeds.

Ṛk 13

The worshipper's defender is Sutambhara, producer and uplifter of all holy thoughts. The milch-cow brought, sweet-flavoured milk was dealt around. Who speaks the bidding text knows this, not he who sleeps.

Ṛk 14

The sacred hymns love him who wakes and watches: to him who watches come the Sāma verses. This Soma saith unto the man who watches, I rest and have my dwelling in thy friendship.

Ṛk 15

Agni is watchful, and the gcas love him; Agni is watchful, Sāma verses seek him. Agni is watchful, to him saith this Soma, I rest and have my dwelling in thy friendship.