Ṛk 5.44.9
Saṃhitā
स॒मु॒द्रमा॑सा॒मव॑ तस्थे अग्रि॒मा न रि॑ष्यति॒ सव॑नं॒ यस्मि॒न्नाय॑ता ।
अत्रा॒ न हार्दि॑ क्रव॒णस्य॑ रेजते॒ यत्रा॑ म॒तिर्वि॒द्यते॑ पूत॒बंध॑नी ॥
समुद्रम् आसाम् अव तस्थे अग्रिमा न रिष्यति सवनं यस्मिन्न् आयता |
अत्रा न हार्दि क्रवणस्य रेजते यत्रा मतिर् विद्यते पूतबन्धनी ||
samudrámāsāmáva tasthe agrimā́ ná riṣyati sávanam yásminnā́yatā ǀ
átrā ná hā́rdi kravaṇásya rejate yátrā matírvidyáte pūtabándhanī ǁ
samudram āsām ava tasthe agrimā na riṣyati savanaṃ yasminn āyatā |
atrā na hārdi kravaṇasya rejate yatrā matir vidyate pūtabandhanī ||
Padapāṭha
स॒मु॒द्रम् । आ॒सा॒म् । अव॑ । त॒स्थे॒ । अ॒ग्रि॒मा । न । रि॒ष्य॒ति॒ । सव॑नम् । यस्मि॑न् । आऽय॑ता ।
अत्र॑ । न । हार्दि॑ । क्र॒व॒णस्य॑ । रे॒ज॒ते॒ । यत्र॑ । म॒तिः । वि॒द्यते॑ । पू॒त॒ऽबन्ध॑नी ॥
समुद्रम् । आसाम् । अव । तस्थे । अग्रिमा । न । रिष्यति । सवनम् । यस्मिन् । आऽयता ।
अत्र । न । हार्दि । क्रवणस्य । रेजते । यत्र । मतिः । विद्यते । पूतऽबन्धनी ॥
samudrám ǀ āsām ǀ áva ǀ tasthe ǀ agrimā́ ǀ ná ǀ riṣyati ǀ sávanam ǀ yásmin ǀ ā́-yatā ǀ
átra ǀ ná ǀ hā́rdi ǀ kravaṇásya ǀ rejate ǀ yátra ǀ matíḥ ǀ vidyáte ǀ pūta-bándhanī ǁ
samudram ǀ āsām ǀ ava ǀ tasthe ǀ agrimā ǀ na ǀ riṣyati ǀ savanam ǀ yasmin ǀ ā-yatā ǀ
atra ǀ na ǀ hārdi ǀ kravaṇasya ǀ rejate ǀ yatra ǀ matiḥ ǀ vidyate ǀ pūta-bandhanī ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 05.044.09
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.2.24.04
- Maṇḍala · Anuvāka · Ṛk
- 05.03.121
- Devatā देवता
- Viśvedevās
- Ṛṣi ऋषि
- Avatsāra Kāśyapa And Other
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.