Ṛk 5.44.14
Saṃhitā
यो जा॒गार॒ तमृचः॑ कामयंते॒ यो जा॒गार॒ तमु॒ सामा॑नि यंति ।
यो जा॒गार॒ तम॒यं सोम॑ आह॒ तवा॒हम॑स्मि स॒ख्ये न्यो॑काः ॥
यो जागार तम् ऋचः कामयन्ते यो जागार तम् उ सामानि यन्ति |
यो जागार तम् अयं सोम आह तवाहम् अस्मि सख्ये न्योकाः ||
yó jāgā́ra támṛ́caḥ kāmayante yó jāgā́ra támu sā́māni yanti ǀ
yó jāgā́ra támayám sóma āha távāhámasmi sakhyé nyókāḥ ǁ
yo jāgāra tam ṛcaḥ kāmayante yo jāgāra tam u sāmāni yanti |
yo jāgāra tam ayaṃ soma āha tavāham asmi sakhye nyokāḥ ||
Padapāṭha
यः । जा॒गार॑ । तम् । ऋचः॑ । का॒म॒य॒न्ते॒ । यः । जा॒गार॑ । तम् । ऊं॒ इति॑ । सामा॑नि । य॒न्ति॒ ।
यः । जा॒गार॑ । तम् । अ॒यम् । सोमः॑ । आ॒ह॒ । तव॑ । अ॒हम् । अ॒स्मि॒ । स॒ख्ये । निऽओ॑काः ॥
यः । जागार । तम् । ऋचः । कामयन्ते । यः । जागार । तम् । ऊं इति । सामानि । यन्ति ।
यः । जागार । तम् । अयम् । सोमः । आह । तव । अहम् । अस्मि । सख्ये । निऽओकाः ॥
yáḥ ǀ jāgā́ra ǀ tám ǀ ṛ́caḥ ǀ kāmayante ǀ yáḥ ǀ jāgā́ra ǀ tám ǀ ūṃ íti ǀ sā́māni ǀ yanti ǀ
yáḥ ǀ jāgā́ra ǀ tám ǀ ayám ǀ sómaḥ ǀ āha ǀ táva ǀ ahám ǀ asmi ǀ sakhyé ǀ ní-okāḥ ǁ
yaḥ ǀ jāgāra ǀ tam ǀ ṛcaḥ ǀ kāmayante ǀ yaḥ ǀ jāgāra ǀ tam ǀ ūṃ iti ǀ sāmāni ǀ yanti ǀ
yaḥ ǀ jāgāra ǀ tam ǀ ayam ǀ somaḥ ǀ āha ǀ tava ǀ aham ǀ asmi ǀ sakhye ǀ ni-okāḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 05.044.14
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.2.25.04
- Maṇḍala · Anuvāka · Ṛk
- 05.03.126
- Devatā देवता
- Viśvedevās
- Ṛṣi ऋषि
- Avatsāra Kāśyapa And Other
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.