Ṛk 5.44.15
Saṃhitā
अ॒ग्निर्जा॑गार॒ तमृचः॑ कामयंते॒ऽग्निर्जा॑गार॒ तमु॒ सामा॑नि यंति ।
अ॒ग्निर्जा॑गार॒ तम॒यं सोम॑ आह॒ तवा॒हम॑स्मि स॒ख्ये न्यो॑काः ॥
अग्निर् जागार तम् ऋचः कामयन्ते ऽग्निर् जागार तम् उ सामानि यन्ति |
अग्निर् जागार तम् अयं सोम आह तवाहम् अस्मि सख्ये न्योकाः ||
agnírjāgāra támṛ́caḥ kāmayante’gnírjāgāra támu sā́māni yanti ǀ
agnírjāgāra támayám sóma āha távāhámasmi sakhyé nyókāḥ ǁ
agnir jāgāra tam ṛcaḥ kāmayante 'gnir jāgāra tam u sāmāni yanti |
agnir jāgāra tam ayaṃ soma āha tavāham asmi sakhye nyokāḥ ||
Padapāṭha
अ॒ग्निः । जा॒गा॒र॒ । तम् । ऋचः॑ । का॒म॒य॒न्ते॒ । अ॒ग्निः । जा॒गा॒र॒ । तम् । ऊं॒ इति॑ । सामा॑नि । य॒न्ति॒ ।
अ॒ग्निः । जा॒गा॒र॒ । तम् । अ॒यम् । सोमः॑ । आ॒ह॒ । तव॑ । अ॒हम् । अ॒स्मि॒ । स॒ख्ये । निऽओ॑काः ॥
अग्निः । जागार । तम् । ऋचः । कामयन्ते । अग्निः । जागार । तम् । ऊं इति । सामानि । यन्ति ।
अग्निः । जागार । तम् । अयम् । सोमः । आह । तव । अहम् । अस्मि । सख्ये । निऽओकाः ॥
agníḥ ǀ jāgāra ǀ tám ǀ ṛ́caḥ ǀ kāmayante ǀ agníḥ ǀ jāgāra ǀ tám ǀ ūṃ íti ǀ sā́māni ǀ yanti ǀ
agníḥ ǀ jāgāra ǀ tám ǀ ayám ǀ sómaḥ ǀ āha ǀ táva ǀ ahám ǀ asmi ǀ sakhyé ǀ ní-okāḥ ǁ
agniḥ ǀ jāgāra ǀ tam ǀ ṛcaḥ ǀ kāmayante ǀ agniḥ ǀ jāgāra ǀ tam ǀ ūṃ iti ǀ sāmāni ǀ yanti ǀ
agniḥ ǀ jāgāra ǀ tam ǀ ayam ǀ somaḥ ǀ āha ǀ tava ǀ aham ǀ asmi ǀ sakhye ǀ ni-okāḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 05.044.15
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.2.25.05
- Maṇḍala · Anuvāka · Ṛk
- 05.03.127
- Devatā देवता
- Viśvedevās
- Ṛṣi ऋषि
- Avatsāra Kāśyapa And Other
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.