Sūkta 58
- Devatā देवता
- Maruts
- Ṛṣi ऋषि
- Śyāvāśva Ātreya
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles nicṛttriṣṭup (1, 3, 4, 6, 8); triṣṭup (2, 5); bhurikpaṅkti (7)
2nd set of styles triṣṭubh
-
Ṛk 1
तमु॑ नू॒नं तवि॑षीमंतमेषां स्तु॒षे ग॒णं मारु॑तं॒ नव्य॑सीनां ।
य आ॒श्व॑श्वा॒ अम॑व॒द्वहं॑त उ॒तेशि॑रे अ॒मृत॑स्य स्व॒राजः॑ ॥तम् उ नूनं तविषीमन्तम् एषां स्तुषे गणम् मारुतं नव्यसीनाम् |
य आश्वश्वा अमवद् वहन्त उतेशिरे अमृतस्य स्वराजः ||támu nūnám táviṣīmantameṣām stuṣé gaṇám mā́rutam návyasīnām ǀ
yá āśváśvā ámavadváhanta utéśire amṛ́tasya svarā́jaḥ ǁtam u nūnaṃ taviṣīmantam eṣāṃ stuṣe gaṇam mārutaṃ navyasīnām |
ya āśvaśvā amavad vahanta uteśire amṛtasya svarājaḥ ||तम् । ऊं॒ इति॑ । नू॒नम् । तवि॑षीऽमन्तम् । ए॒षा॒म् । स्तु॒षे । ग॒णम् । मारु॑तम् । नव्य॑सीनाम् ।
ये । आ॒शुऽअ॑श्वाः । अम॑ऽवत् । वह॑न्ते । उ॒त । ई॒शि॒रे॒ । अ॒मृत॑स्य । स्व॒ऽराजः॑ ॥तम् । ऊं इति । नूनम् । तविषीऽमन्तम् । एषाम् । स्तुषे । गणम् । मारुतम् । नव्यसीनाम् ।
ये । आशुऽअश्वाः । अमऽवत् । वहन्ते । उत । ईशिरे । अमृतस्य । स्वऽराजः ॥tám ǀ ūṃ íti ǀ nūnám ǀ táviṣī-mantam ǀ eṣām ǀ stuṣé ǀ gaṇám ǀ mā́rutam ǀ návyasīnām ǀ
yé ǀ āśú-aśvāḥ ǀ áma-vat ǀ váhante ǀ utá ǀ īśire ǀ amṛ́tasya ǀ sva-rā́jaḥ ǁtam ǀ ūṃ iti ǀ nūnam ǀ taviṣī-mantam ǀ eṣām ǀ stuṣe ǀ gaṇam ǀ mārutam ǀ navyasīnām ǀ
ye ǀ āśu-aśvāḥ ǀ ama-vat ǀ vahante ǀ uta ǀ īśire ǀ amṛtasya ǀ sva-rājaḥ ǁ5.58.1 Aṣṭaka 4.3.23.1Anuvāka 5.5.9
-
Ṛk 2
त्वे॒षं ग॒णं त॒वसं॒ खादि॑हस्तं॒ धुनि॑व्रतं मा॒यिनं॒ दाति॑वारं ।
म॒यो॒भुवो॒ ये अमि॑ता महि॒त्वा वंद॑स्व विप्र तुवि॒राध॑सो॒ नॄन् ॥त्वेषं गणं तवसं खादिहस्तं धुनिव्रतम् मायिनं दातिवारम् |
मयोभुवो ये अमिता महित्वा वन्दस्व विप्र तुविराधसो नॄन् ||tveṣám gaṇám tavásam khā́dihastam dhúnivratam māyínam dā́tivāram ǀ
mayobhúvo yé ámitā mahitvā́ vándasva vipra tuvirā́dhaso nṝ́n ǁtveṣaṃ gaṇaṃ tavasaṃ khādihastaṃ dhunivratam māyinaṃ dātivāram |
mayobhuvo ye amitā mahitvā vandasva vipra tuvirādhaso nṝn ||त्वे॒षम् । ग॒णम् । त॒वस॑म् । खादि॑ऽहस्तम् । धुनि॑ऽव्रतम् । मा॒यिन॑म् । दाति॑ऽवारम् ।
म॒यः॒ऽभुवः॑ । ये । अमि॑ताः । म॒हि॒ऽत्वा । वन्द॑स्व । वि॒प्र॒ । तु॒वि॒ऽराध॑सः । नॄन् ॥त्वेषम् । गणम् । तवसम् । खादिऽहस्तम् । धुनिऽव्रतम् । मायिनम् । दातिऽवारम् ।
मयःऽभुवः । ये । अमिताः । महिऽत्वा । वन्दस्व । विप्र । तुविऽराधसः । नॄन् ॥tveṣám ǀ gaṇám ǀ tavásam ǀ khā́di-hastam ǀ dhúni-vratam ǀ māyínam ǀ dā́ti-vāram ǀ
mayaḥ-bhúvaḥ ǀ yé ǀ ámitāḥ ǀ mahi-tvā́ ǀ vándasva ǀ vipra ǀ tuvi-rā́dhasaḥ ǀ nṝ́n ǁtveṣam ǀ gaṇam ǀ tavasam ǀ khādi-hastam ǀ dhuni-vratam ǀ māyinam ǀ dāti-vāram ǀ
mayaḥ-bhuvaḥ ǀ ye ǀ amitāḥ ǀ mahi-tvā ǀ vandasva ǀ vipra ǀ tuvi-rādhasaḥ ǀ nṝn ǁ5.58.2 Aṣṭaka 4.3.23.2Anuvāka 5.5.10
-
Ṛk 3
आ वो॑ यंतूदवा॒हासो॑ अ॒द्य वृ॒ष्टिं ये विश्वे॑ म॒रुतो॑ जु॒नंति॑ ।
अ॒यं यो अ॒ग्निर्म॑रुतः॒ समि॑द्ध ए॒तं जु॑षध्वं कवयो युवानः ॥आ वो यन्तूदवाहासो अद्य वृष्टिं ये विश्वे मरुतो जुनन्ति |
अयं यो अग्निर् मरुतः समिद्ध एतं जुषध्वं कवयो युवानः ||ā́ vo yantūdavāhā́so adyá vṛṣṭím yé víśve marúto junánti ǀ
ayám yó agnírmarutaḥ sámiddha etám juṣadhvam kavayo yuvānaḥ ǁā vo yantūdavāhāso adya vṛṣṭiṃ ye viśve maruto junanti |
ayaṃ yo agnir marutaḥ samiddha etaṃ juṣadhvaṃ kavayo yuvānaḥ ||आ । वः॒ । य॒न्तु॒ । उ॒द॒ऽवा॒हासः॑ । अ॒द्य । वृ॒ष्टिम् । ये । विश्वे॑ । म॒रुतः॑ । जु॒नन्ति॑ ।
अ॒यम् । यः । अ॒ग्निः । म॒रु॒तः॒ । सम्ऽइ॑द्धः । ए॒तम् । जु॒ष॒ध्व॒म् । क॒व॒यः॒ । यु॒वा॒नः॒ ॥आ । वः । यन्तु । उदऽवाहासः । अद्य । वृष्टिम् । ये । विश्वे । मरुतः । जुनन्ति ।
अयम् । यः । अग्निः । मरुतः । सम्ऽइद्धः । एतम् । जुषध्वम् । कवयः । युवानः ॥ā́ ǀ vaḥ ǀ yantu ǀ uda-vāhā́saḥ ǀ adyá ǀ vṛṣṭím ǀ yé ǀ víśve ǀ marútaḥ ǀ junánti ǀ
ayám ǀ yáḥ ǀ agníḥ ǀ marutaḥ ǀ sám-iddhaḥ ǀ etám ǀ juṣadhvam ǀ kavayaḥ ǀ yuvānaḥ ǁā ǀ vaḥ ǀ yantu ǀ uda-vāhāsaḥ ǀ adya ǀ vṛṣṭim ǀ ye ǀ viśve ǀ marutaḥ ǀ junanti ǀ
ayam ǀ yaḥ ǀ agniḥ ǀ marutaḥ ǀ sam-iddhaḥ ǀ etam ǀ juṣadhvam ǀ kavayaḥ ǀ yuvānaḥ ǁ5.58.3 Aṣṭaka 4.3.23.3Anuvāka 5.5.11
-
Ṛk 4
यू॒यं राजा॑न॒मिर्यं॒ जना॑य विभ्वत॒ष्टं ज॑नयथा यजत्राः ।
यु॒ष्मदे॑ति मुष्टि॒हा बा॒हुजू॑तो यु॒ष्मत्सद॑श्वो मरुतः सु॒वीरः॑ ॥यूयं राजानम् इर्यं जनाय विभ्वतष्टं जनयथा यजत्राः |
युष्मद् एति मुष्टिहा बाहुजूतो युष्मत् सदश्वो मरुतः सुवीरः ||yūyám rā́jānamíryam jánāya vibhvataṣṭám janayathā yajatrāḥ ǀ
yuṣmádeti muṣṭihā́ bāhújūto yuṣmátsádaśvo marutaḥ suvī́raḥ ǁyūyaṃ rājānam iryaṃ janāya vibhvataṣṭaṃ janayathā yajatrāḥ |
yuṣmad eti muṣṭihā bāhujūto yuṣmat sadaśvo marutaḥ suvīraḥ ||यू॒यम् । राजा॑नम् । इर्य॑म् । जना॑य । वि॒भ्व॒ऽत॒ष्टम् । ज॒न॒य॒थ॒ । य॒ज॒त्राः॒ ।
यु॒ष्मत् । ए॒ति॒ । मु॒ष्टि॒ऽहा । बा॒हुऽजू॑तः । यु॒ष्मत् । सत्ऽअ॑श्वः । म॒रु॒तः॒ । सु॒ऽवीरः॑ ॥यूयम् । राजानम् । इर्यम् । जनाय । विभ्वऽतष्टम् । जनयथ । यजत्राः ।
युष्मत् । एति । मुष्टिऽहा । बाहुऽजूतः । युष्मत् । सत्ऽअश्वः । मरुतः । सुऽवीरः ॥yūyám ǀ rā́jānam ǀ íryam ǀ jánāya ǀ vibhva-taṣṭám ǀ janayatha ǀ yajatrāḥ ǀ
yuṣmát ǀ eti ǀ muṣṭi-hā́ ǀ bāhú-jūtaḥ ǀ yuṣmát ǀ sát-aśvaḥ ǀ marutaḥ ǀ su-vī́raḥ ǁyūyam ǀ rājānam ǀ iryam ǀ janāya ǀ vibhva-taṣṭam ǀ janayatha ǀ yajatrāḥ ǀ
yuṣmat ǀ eti ǀ muṣṭi-hā ǀ bāhu-jūtaḥ ǀ yuṣmat ǀ sat-aśvaḥ ǀ marutaḥ ǀ su-vīraḥ ǁ5.58.4 Aṣṭaka 4.3.23.4Anuvāka 5.5.12
-
Ṛk 5
अ॒रा इ॒वेदच॑रमा॒ अहे॑व॒ प्रप्र॑ जायंते॒ अक॑वा॒ महो॑भिः ।
पृश्नेः॑ पु॒त्रा उ॑प॒मासो॒ रभि॑ष्ठाः॒ स्वया॑ म॒त्या म॒रुतः॒ सं मि॑मिक्षुः ॥अरा इवेद् अचरमा अहेव प्र-प्र जायन्ते अकवा महोभिः |
पृश्नेः पुत्रा उपमासो रभिष्ठाः स्वया मत्या मरुतः सम् मिमिक्षुः ||arā́ ivédácaramā áheva prápra jāyante ákavā máhobhiḥ ǀ
pṛ́śneḥ putrā́ upamā́so rábhiṣṭhāḥ sváyā matyā́ marútaḥ sám mimikṣuḥ ǁarā ived acaramā aheva pra-pra jāyante akavā mahobhiḥ |
pṛśneḥ putrā upamāso rabhiṣṭhāḥ svayā matyā marutaḥ sam mimikṣuḥ ||अ॒राःऽइ॑व । इत् । अच॑रमाः । अहा॑ऽइव । प्रऽप्र॑ । जा॒य॒न्ते॒ । अक॑वाः । महः॑ऽभिः ।
पृश्नेः॑ । पु॒त्राः । उ॒प॒ऽमासः॑ । रभि॑ष्ठाः । स्वया॑ । म॒त्या । म॒रुतः॑ । सम् । मि॒मि॒क्षुः॒ ॥अराःऽइव । इत् । अचरमाः । अहाऽइव । प्रऽप्र । जायन्ते । अकवाः । महःऽभिः ।
पृश्नेः । पुत्राः । उपऽमासः । रभिष्ठाः । स्वया । मत्या । मरुतः । सम् । मिमिक्षुः ॥arā́ḥ-iva ǀ ít ǀ ácaramāḥ ǀ áhā-iva ǀ prá-pra ǀ jāyante ǀ ákavāḥ ǀ máhaḥ-bhiḥ ǀ
pṛ́śneḥ ǀ putrā́ḥ ǀ upa-mā́saḥ ǀ rábhiṣṭhāḥ ǀ sváyā ǀ matyā́ ǀ marútaḥ ǀ sám ǀ mimikṣuḥ ǁarāḥ-iva ǀ it ǀ acaramāḥ ǀ ahā-iva ǀ pra-pra ǀ jāyante ǀ akavāḥ ǀ mahaḥ-bhiḥ ǀ
pṛśneḥ ǀ putrāḥ ǀ upa-māsaḥ ǀ rabhiṣṭhāḥ ǀ svayā ǀ matyā ǀ marutaḥ ǀ sam ǀ mimikṣuḥ ǁ5.58.5 Aṣṭaka 4.3.23.5Anuvāka 5.5.13
-
Ṛk 6
यत्प्राया॑सिष्ट॒ पृष॑तीभि॒रश्वै॑र्वीळुप॒विभि॑र्मरुतो॒ रथे॑भिः ।
क्षोदं॑त॒ आपो॑ रिण॒ते वना॒न्यवो॒स्रियो॑ वृष॒भः क्रं॑दतु॒ द्यौः ॥यत् प्रायासिष्ट पृषतीभिर् अश्वैर् वीऌउपविभिर् मरुतो रथेभिः |
क्षोदन्त आपो रिणते वनान्य् अवोस्रियो वृषभः क्रन्दतु द्यौः ||yátprā́yāsiṣṭa pṛ́ṣatībhiráśvairvīḷupavíbhirmaruto ráthebhiḥ ǀ
kṣódanta ā́po riṇaté vánānyávosríyo vṛṣabháḥ krandatu dyáuḥ ǁyat prāyāsiṣṭa pṛṣatībhir aśvair vīḷupavibhir maruto rathebhiḥ |
kṣodanta āpo riṇate vanāny avosriyo vṛṣabhaḥ krandatu dyauḥ ||यत् । प्र । अया॑सिष्ट । पृष॑तीभिः । अश्वैः॑ । वी॒ळु॒प॒विऽभिः॑ । म॒रु॒तः॒ । रथे॑भिः ।
क्षोद॑न्ते । आपः॑ । रि॒ण॒ते । वना॑नि । अव॑ । उ॒स्रियः॑ । वृ॒ष॒भः । क्र॒न्द॒तु॒ । द्यौः ॥यत् । प्र । अयासिष्ट । पृषतीभिः । अश्वैः । वीळुपविऽभिः । मरुतः । रथेभिः ।
क्षोदन्ते । आपः । रिणते । वनानि । अव । उस्रियः । वृषभः । क्रन्दतु । द्यौः ॥yát ǀ prá ǀ áyāsiṣṭa ǀ pṛ́ṣatībhiḥ ǀ áśvaiḥ ǀ vīḷupaví-bhiḥ ǀ marutaḥ ǀ ráthebhiḥ ǀ
kṣódante ǀ ā́paḥ ǀ riṇaté ǀ vánāni ǀ áva ǀ usríyaḥ ǀ vṛṣabháḥ ǀ krandatu ǀ dyáuḥ ǁyat ǀ pra ǀ ayāsiṣṭa ǀ pṛṣatībhiḥ ǀ aśvaiḥ ǀ vīḷupavi-bhiḥ ǀ marutaḥ ǀ rathebhiḥ ǀ
kṣodante ǀ āpaḥ ǀ riṇate ǀ vanāni ǀ ava ǀ usriyaḥ ǀ vṛṣabhaḥ ǀ krandatu ǀ dyauḥ ǁ5.58.6 Aṣṭaka 4.3.23.6Anuvāka 5.5.14
-
Ṛk 7
प्रथि॑ष्ट॒ याम॑न्पृथि॒वी चि॑देषां॒ भर्ते॑व॒ गर्भं॒ स्वमिच्छवो॑ धुः ।
वाता॒न्ह्यश्वां॑धु॒र्या॑युयु॒ज्रे व॒र्षं स्वेदं॑ चक्रिरे रु॒द्रिया॑सः ॥प्रथिष्ट यामन् पृथिवी चिद् एषाम् भर्तेव गर्भं स्वम् इच् छवो धुः |
वातान् ह्य् अश्वान् धुर्य् आयुयुज्रे वर्षं स्वेदं चक्रिरे रुद्रियासः ||práthiṣṭa yā́manpṛthivī́ cideṣām bhárteva gárbham svámícchávo dhuḥ ǀ
vā́tānhyáśvāndhuryā́yuyujré varṣám svédam cakrire rudríyāsaḥ ǁprathiṣṭa yāman pṛthivī cid eṣām bharteva garbhaṃ svam ic chavo dhuḥ |
vātān hy aśvān dhury āyuyujre varṣaṃ svedaṃ cakrire rudriyāsaḥ ||प्रथि॑ष्ट । याम॑न् । पृ॒थि॒वी । चि॒त् । ए॒षा॒म् । भर्ता॑ऽइव । गर्भ॑म् । स्वम् । इत् । शवः॑ । धुः॒ ।
वाता॑न् । हि । अश्वा॑न् । धु॒रि । आ॒ऽयु॒यु॒ज्रे । व॒र्षम् । स्वेद॑म् । च॒क्रि॒रे॒ । रु॒द्रिया॑सः ॥प्रथिष्ट । यामन् । पृथिवी । चित् । एषाम् । भर्ताऽइव । गर्भम् । स्वम् । इत् । शवः । धुः ।
वातान् । हि । अश्वान् । धुरि । आऽयुयुज्रे । वर्षम् । स्वेदम् । चक्रिरे । रुद्रियासः ॥práthiṣṭa ǀ yā́man ǀ pṛthivī́ ǀ cit ǀ eṣām ǀ bhártā-iva ǀ gárbham ǀ svám ǀ ít ǀ śávaḥ ǀ dhuḥ ǀ
vā́tān ǀ hí ǀ áśvān ǀ dhurí ǀ ā-yuyujré ǀ varṣám ǀ svédam ǀ cakrire ǀ rudríyāsaḥ ǁprathiṣṭa ǀ yāman ǀ pṛthivī ǀ cit ǀ eṣām ǀ bhartā-iva ǀ garbham ǀ svam ǀ it ǀ śavaḥ ǀ dhuḥ ǀ
vātān ǀ hi ǀ aśvān ǀ dhuri ǀ ā-yuyujre ǀ varṣam ǀ svedam ǀ cakrire ǀ rudriyāsaḥ ǁ5.58.7 Aṣṭaka 4.3.23.7Anuvāka 5.5.15
-
Ṛk 8
ह॒ये नरो॒ मरु॑तो मृ॒ळता॑ न॒स्तुवी॑मघासो॒ अमृ॑ता॒ ऋत॑ज्ञाः ।
सत्य॑श्रुतः॒ कव॑यो॒ युवा॑नो॒ बृह॑द्गिरयो बृ॒हदु॒क्षमा॑णाः ॥हये नरो मरुतो मृऌअता नस् तुवीमघासो अमृता ऋतज्ञाः |
सत्यश्रुतः कवयो युवानो बृहद्गिरयो बृहद् उक्षमाणाः ||hayé náro máruto mṛḷátā nastúvīmaghāso ámṛtā ṛ́tajñāḥ ǀ
sátyaśrutaḥ kávayo yúvāno bṛ́hadgirayo bṛhádukṣámāṇāḥ ǁhaye naro maruto mṛḷatā nas tuvīmaghāso amṛtā ṛtajñāḥ |
satyaśrutaḥ kavayo yuvāno bṛhadgirayo bṛhad ukṣamāṇāḥ ||ह॒ये । नरः॑ । मरु॑तः । मृ॒ळत॑ । नः॒ । तुवि॑ऽमघासः । अमृ॑ताः । ऋत॑ऽज्ञाः ।
सत्य॑ऽश्रुतः । कव॑यः । युवा॑नः । बृह॑त्ऽगिरयः । बृ॒हत् । उ॒क्षमा॑णाः ॥हये । नरः । मरुतः । मृळत । नः । तुविऽमघासः । अमृताः । ऋतऽज्ञाः ।
सत्यऽश्रुतः । कवयः । युवानः । बृहत्ऽगिरयः । बृहत् । उक्षमाणाः ॥hayé ǀ náraḥ ǀ márutaḥ ǀ mṛḷáta ǀ naḥ ǀ túvi-maghāsaḥ ǀ ámṛtāḥ ǀ ṛ́ta-jñāḥ ǀ
sátya-śrutaḥ ǀ kávayaḥ ǀ yúvānaḥ ǀ bṛ́hat-girayaḥ ǀ bṛhát ǀ ukṣámāṇāḥ ǁhaye ǀ naraḥ ǀ marutaḥ ǀ mṛḷata ǀ naḥ ǀ tuvi-maghāsaḥ ǀ amṛtāḥ ǀ ṛta-jñāḥ ǀ
satya-śrutaḥ ǀ kavayaḥ ǀ yuvānaḥ ǀ bṛhat-girayaḥ ǀ bṛhat ǀ ukṣamāṇāḥ ǁ5.58.8 Aṣṭaka 4.3.23.8Anuvāka 5.5.16
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.