Ṛk 5.58.1
Saṃhitā
तमु॑ नू॒नं तवि॑षीमंतमेषां स्तु॒षे ग॒णं मारु॑तं॒ नव्य॑सीनां ।
य आ॒श्व॑श्वा॒ अम॑व॒द्वहं॑त उ॒तेशि॑रे अ॒मृत॑स्य स्व॒राजः॑ ॥
तम् उ नूनं तविषीमन्तम् एषां स्तुषे गणम् मारुतं नव्यसीनाम् |
य आश्वश्वा अमवद् वहन्त उतेशिरे अमृतस्य स्वराजः ||
támu nūnám táviṣīmantameṣām stuṣé gaṇám mā́rutam návyasīnām ǀ
yá āśváśvā ámavadváhanta utéśire amṛ́tasya svarā́jaḥ ǁ
tam u nūnaṃ taviṣīmantam eṣāṃ stuṣe gaṇam mārutaṃ navyasīnām |
ya āśvaśvā amavad vahanta uteśire amṛtasya svarājaḥ ||
Padapāṭha
तम् । ऊं॒ इति॑ । नू॒नम् । तवि॑षीऽमन्तम् । ए॒षा॒म् । स्तु॒षे । ग॒णम् । मारु॑तम् । नव्य॑सीनाम् ।
ये । आ॒शुऽअ॑श्वाः । अम॑ऽवत् । वह॑न्ते । उ॒त । ई॒शि॒रे॒ । अ॒मृत॑स्य । स्व॒ऽराजः॑ ॥
तम् । ऊं इति । नूनम् । तविषीऽमन्तम् । एषाम् । स्तुषे । गणम् । मारुतम् । नव्यसीनाम् ।
ये । आशुऽअश्वाः । अमऽवत् । वहन्ते । उत । ईशिरे । अमृतस्य । स्वऽराजः ॥
tám ǀ ūṃ íti ǀ nūnám ǀ táviṣī-mantam ǀ eṣām ǀ stuṣé ǀ gaṇám ǀ mā́rutam ǀ návyasīnām ǀ
yé ǀ āśú-aśvāḥ ǀ áma-vat ǀ váhante ǀ utá ǀ īśire ǀ amṛ́tasya ǀ sva-rā́jaḥ ǁ
tam ǀ ūṃ iti ǀ nūnam ǀ taviṣī-mantam ǀ eṣām ǀ stuṣe ǀ gaṇam ǀ mārutam ǀ navyasīnām ǀ
ye ǀ āśu-aśvāḥ ǀ ama-vat ǀ vahante ǀ uta ǀ īśire ǀ amṛtasya ǀ sva-rājaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 05.058.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.3.23.01
- Maṇḍala · Anuvāka · Ṛk
- 05.05.009
- Devatā देवता
- Maruts
- Ṛṣi ऋषि
- Śyāvāśva Ātreya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.