Ṛk 5.58.4
Saṃhitā
यू॒यं राजा॑न॒मिर्यं॒ जना॑य विभ्वत॒ष्टं ज॑नयथा यजत्राः ।
यु॒ष्मदे॑ति मुष्टि॒हा बा॒हुजू॑तो यु॒ष्मत्सद॑श्वो मरुतः सु॒वीरः॑ ॥
यूयं राजानम् इर्यं जनाय विभ्वतष्टं जनयथा यजत्राः |
युष्मद् एति मुष्टिहा बाहुजूतो युष्मत् सदश्वो मरुतः सुवीरः ||
yūyám rā́jānamíryam jánāya vibhvataṣṭám janayathā yajatrāḥ ǀ
yuṣmádeti muṣṭihā́ bāhújūto yuṣmátsádaśvo marutaḥ suvī́raḥ ǁ
yūyaṃ rājānam iryaṃ janāya vibhvataṣṭaṃ janayathā yajatrāḥ |
yuṣmad eti muṣṭihā bāhujūto yuṣmat sadaśvo marutaḥ suvīraḥ ||
Padapāṭha
यू॒यम् । राजा॑नम् । इर्य॑म् । जना॑य । वि॒भ्व॒ऽत॒ष्टम् । ज॒न॒य॒थ॒ । य॒ज॒त्राः॒ ।
यु॒ष्मत् । ए॒ति॒ । मु॒ष्टि॒ऽहा । बा॒हुऽजू॑तः । यु॒ष्मत् । सत्ऽअ॑श्वः । म॒रु॒तः॒ । सु॒ऽवीरः॑ ॥
यूयम् । राजानम् । इर्यम् । जनाय । विभ्वऽतष्टम् । जनयथ । यजत्राः ।
युष्मत् । एति । मुष्टिऽहा । बाहुऽजूतः । युष्मत् । सत्ऽअश्वः । मरुतः । सुऽवीरः ॥
yūyám ǀ rā́jānam ǀ íryam ǀ jánāya ǀ vibhva-taṣṭám ǀ janayatha ǀ yajatrāḥ ǀ
yuṣmát ǀ eti ǀ muṣṭi-hā́ ǀ bāhú-jūtaḥ ǀ yuṣmát ǀ sát-aśvaḥ ǀ marutaḥ ǀ su-vī́raḥ ǁ
yūyam ǀ rājānam ǀ iryam ǀ janāya ǀ vibhva-taṣṭam ǀ janayatha ǀ yajatrāḥ ǀ
yuṣmat ǀ eti ǀ muṣṭi-hā ǀ bāhu-jūtaḥ ǀ yuṣmat ǀ sat-aśvaḥ ǀ marutaḥ ǀ su-vīraḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 05.058.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.3.23.04
- Maṇḍala · Anuvāka · Ṛk
- 05.05.012
- Devatā देवता
- Maruts
- Ṛṣi ऋषि
- Śyāvāśva Ātreya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.