Sūkta 78
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Saptavadhri Ātreya
- Chandas छन्दस्
- Anuṣṭubh, Uṣṇih, Triṣṭubh
Metres by ṛk
1st set of styles uṣṇik (1-3); nicṛdanuṣṭup (7-9); anuṣṭup (5, 6); nicṛttriṣṭup (4)
2nd set of styles anuṣṭubh (5-9); uṣṇih (1-3); triṣṭubh (4)
-
Ṛk 1
अश्वि॑ना॒वेह ग॑च्छतं॒ नास॑त्या॒ मा वि वे॑नतं ।
हं॒सावि॑व पतत॒मा सु॒ताँ उप॑ ॥अश्विनाव् एह गच्छतं नासत्या मा वि वेनतम् |
हंसाव् इव पततम् आ सुतां उप ||áśvināvéhá gacchatam nā́satyā mā́ ví venatam ǀ
haṃsā́viva patatamā́ sutā́m̐ úpa ǁaśvināv eha gacchataṃ nāsatyā mā vi venatam |
haṃsāv iva patatam ā sutāṃ upa ||अश्वि॑नौ । आ । इ॒ह । ग॒च्छ॒त॒म् । नास॑त्या । मा । वि । वे॒न॒त॒म् ।
हं॒सौऽइ॑व । प॒त॒त॒म् । आ । सु॒तान् । उप॑ ॥अश्विनौ । आ । इह । गच्छतम् । नासत्या । मा । वि । वेनतम् ।
हंसौऽइव । पततम् । आ । सुतान् । उप ॥áśvinau ǀ ā́ ǀ ihá ǀ gacchatam ǀ nā́satyā ǀ mā́ ǀ ví ǀ venatam ǀ
haṃsáu-iva ǀ patatam ǀ ā́ ǀ sutā́n ǀ úpa ǁaśvinau ǀ ā ǀ iha ǀ gacchatam ǀ nāsatyā ǀ mā ǀ vi ǀ venatam ǀ
haṃsau-iva ǀ patatam ǀ ā ǀ sutān ǀ upa ǁ5.78.1 Aṣṭaka 4.4.19.1Anuvāka 5.6.40
-
Ṛk 2
अश्वि॑ना हरि॒णावि॑व गौ॒रावि॒वानु॒ यव॑सं ।
हं॒सावि॑व पतत॒मा सु॒ताँ उप॑ ॥अश्विना हरिणाव् इव गौराव् इवानु यवसम् |
हंसाव् इव पततम् आ सुतां उप ||áśvinā hariṇā́viva gaurā́vivā́nu yávasam ǀ
haṃsā́viva patatamā́ sutā́m̐ úpa ǁaśvinā hariṇāv iva gaurāv ivānu yavasam |
haṃsāv iva patatam ā sutāṃ upa ||अश्वि॑ना । ह॒रि॒णौऽइ॑व । गौ॒रौऽइ॑व । अनु॑ । यव॑सम् ।
हं॒सौऽइ॑व । प॒त॒त॒म् । आ । सु॒तान् । उप॑ ॥अश्विना । हरिणौऽइव । गौरौऽइव । अनु । यवसम् ।
हंसौऽइव । पततम् । आ । सुतान् । उप ॥áśvinā ǀ hariṇáu-iva ǀ gauráu-iva ǀ ánu ǀ yávasam ǀ
haṃsáu-iva ǀ patatam ǀ ā́ ǀ sutā́n ǀ úpa ǁaśvinā ǀ hariṇau-iva ǀ gaurau-iva ǀ anu ǀ yavasam ǀ
haṃsau-iva ǀ patatam ǀ ā ǀ sutān ǀ upa ǁ5.78.2 Aṣṭaka 4.4.19.2Anuvāka 5.6.41
-
Ṛk 3
अश्वि॑ना वाजिनीवसू जु॒षेथां॑ य॒ज्ञमि॒ष्टये॑ ।
हं॒सावि॑व पतत॒मा सु॒ताँ उप॑ ॥अश्विना वाजिनीवसू जुषेथां यज्ञम् इष्टये |
हंसाव् इव पततम् आ सुतां उप ||áśvinā vājinīvasū juṣéthām yajñámiṣṭáye ǀ
haṃsā́viva patatamā́ sutā́m̐ úpa ǁaśvinā vājinīvasū juṣethāṃ yajñam iṣṭaye |
haṃsāv iva patatam ā sutāṃ upa ||अश्वि॑ना । वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू । जु॒षेथा॑म् । य॒ज्ञम् । इ॒ष्टये॑ ।
हं॒सौऽइ॑व । प॒त॒त॒म् । आ । सु॒तान् । उप॑ ॥अश्विना । वाजिनीवसू इति वाजिनीऽवसू । जुषेथाम् । यज्ञम् । इष्टये ।
हंसौऽइव । पततम् । आ । सुतान् । उप ॥áśvinā ǀ vājinīvasū íti vājinī-vasū ǀ juṣéthām ǀ yajñám ǀ iṣṭáye ǀ
haṃsáu-iva ǀ patatam ǀ ā́ ǀ sutā́n ǀ úpa ǁaśvinā ǀ vājinīvasū iti vājinī-vasū ǀ juṣethām ǀ yajñam ǀ iṣṭaye ǀ
haṃsau-iva ǀ patatam ǀ ā ǀ sutān ǀ upa ǁ5.78.3 Aṣṭaka 4.4.19.3Anuvāka 5.6.42
-
Ṛk 4
अत्रि॒र्यद्वा॑मव॒रोह॑न्नृ॒बीस॒मजो॑हवी॒न्नाध॑मानेव॒ योषा॑ ।
श्ये॒नस्य॑ चि॒ज्जव॑सा॒ नूत॑ने॒नाग॑च्छतमश्विना॒ शंत॑मेन ॥अत्रिर् यद् वाम् अवरोहन्न् ऋबीसम् अजोहवीन् नाधमानेव योषा |
श्येनस्य चिज् जवसा नूतनेनागच्छतम् अश्विना शन्तमेन ||átriryádvāmavaróhannṛbī́samájohavīnnā́dhamāneva yóṣā ǀ
śyenásya cijjávasā nū́tanenā́gacchatamaśvinā śáṃtamena ǁatrir yad vām avarohann ṛbīsam ajohavīn nādhamāneva yoṣā |
śyenasya cij javasā nūtanenāgacchatam aśvinā śantamena ||अत्रिः॑ । यत् । वा॒म् । अ॒व॒ऽरोह॑न् । ऋ॒बीस॑म् । अजो॑हवीत् । नाध॑मानाऽइव । योषा॑ ।
श्ये॒नस्य॑ । चि॒त् । जव॑सा । नूत॑नेन । आ । अ॒ग॒च्छ॒त॒म् । अ॒श्वि॒ना॒ । शम्ऽत॑मेन ॥अत्रिः । यत् । वाम् । अवऽरोहन् । ऋबीसम् । अजोहवीत् । नाधमानाऽइव । योषा ।
श्येनस्य । चित् । जवसा । नूतनेन । आ । अगच्छतम् । अश्विना । शम्ऽतमेन ॥átriḥ ǀ yát ǀ vām ǀ ava-róhan ǀ ṛbī́sam ǀ ájohavīt ǀ nā́dhamānā-iva ǀ yóṣā ǀ
śyenásya ǀ cit ǀ jávasā ǀ nū́tanena ǀ ā́ ǀ agacchatam ǀ aśvinā ǀ śám-tamena ǁatriḥ ǀ yat ǀ vām ǀ ava-rohan ǀ ṛbīsam ǀ ajohavīt ǀ nādhamānā-iva ǀ yoṣā ǀ
śyenasya ǀ cit ǀ javasā ǀ nūtanena ǀ ā ǀ agacchatam ǀ aśvinā ǀ śam-tamena ǁ5.78.4 Aṣṭaka 4.4.19.4Anuvāka 5.6.43
-
Ṛk 5
वि जि॑हीष्व वनस्पते॒ योनिः॒ सूष्यं॑त्या इव ।
श्रु॒तं मे॑ अश्विना॒ हवं॑ स॒प्तव॑ध्रिं च मुंचतं ॥वि जिहीष्व वनस्पते योनिः सूष्यन्त्या इव |
श्रुतम् मे अश्विना हवं सप्तवध्रिं च मुञ्चतम् ||ví jihīṣva vanaspate yóniḥ sū́ṣyantyā iva ǀ
śrutám me aśvinā hávam saptávadhrim ca muñcatam ǁvi jihīṣva vanaspate yoniḥ sūṣyantyā iva |
śrutam me aśvinā havaṃ saptavadhriṃ ca muñcatam ||वि । जि॒ही॒ष्व॒ । व॒न॒स्प॒ते॒ । योनिः॑ । सूष्य॑न्त्याःऽइव ।
श्रु॒तम् । मे॒ । अ॒श्वि॒ना॒ । हव॑म् । स॒प्तऽव॑ध्रिम् । च॒ । मु॒ञ्च॒त॒म् ॥वि । जिहीष्व । वनस्पते । योनिः । सूष्यन्त्याःऽइव ।
श्रुतम् । मे । अश्विना । हवम् । सप्तऽवध्रिम् । च । मुञ्चतम् ॥ví ǀ jihīṣva ǀ vanaspate ǀ yóniḥ ǀ sū́ṣyantyāḥ-iva ǀ
śrutám ǀ me ǀ aśvinā ǀ hávam ǀ saptá-vadhrim ǀ ca ǀ muñcatam ǁvi ǀ jihīṣva ǀ vanaspate ǀ yoniḥ ǀ sūṣyantyāḥ-iva ǀ
śrutam ǀ me ǀ aśvinā ǀ havam ǀ sapta-vadhrim ǀ ca ǀ muñcatam ǁ5.78.5 Aṣṭaka 4.4.20.1Anuvāka 5.6.44
-
Ṛk 6
भी॒ताय॒ नाध॑मानाय॒ ऋष॑ये स॒प्तव॑ध्रये ।
मा॒याभि॑रश्विना यु॒वं वृ॒क्षं सं च॒ वि चा॑चथः ॥भीताय नाधमानाय ऋषये सप्तवध्रये |
मायाभिर् अश्विना युवं वृक्षं सं च वि चाचथः ||bhītā́ya nā́dhamānāya ṛ́ṣaye saptávadhraye ǀ
māyā́bhiraśvinā yuvám vṛkṣám sám ca ví cācathaḥ ǁbhītāya nādhamānāya ṛṣaye saptavadhraye |
māyābhir aśvinā yuvaṃ vṛkṣaṃ saṃ ca vi cācathaḥ ||भी॒ताय॑ । नाध॑मानाय । ऋष॑ये । स॒प्तऽव॑ध्रये ।
मा॒याभिः॑ । अ॒श्वि॒ना॒ । यु॒वम् । वृ॒क्षम् । सम् । च॒ । वि । च॒ । अ॒च॒थः॒ ॥भीताय । नाधमानाय । ऋषये । सप्तऽवध्रये ।
मायाभिः । अश्विना । युवम् । वृक्षम् । सम् । च । वि । च । अचथः ॥bhītā́ya ǀ nā́dhamānāya ǀ ṛ́ṣaye ǀ saptá-vadhraye ǀ
māyā́bhiḥ ǀ aśvinā ǀ yuvám ǀ vṛkṣám ǀ sám ǀ ca ǀ ví ǀ ca ǀ acathaḥ ǁbhītāya ǀ nādhamānāya ǀ ṛṣaye ǀ sapta-vadhraye ǀ
māyābhiḥ ǀ aśvinā ǀ yuvam ǀ vṛkṣam ǀ sam ǀ ca ǀ vi ǀ ca ǀ acathaḥ ǁ5.78.6 Aṣṭaka 4.4.20.2Anuvāka 5.6.45
-
Ṛk 7
यथा॒ वातः॑ पुष्क॒रिणीं॑ समिं॒गय॑ति स॒र्वतः॑ ।
ए॒वा ते॒ गर्भ॑ एजतु नि॒रैतु॒ दश॑मास्यः ॥यथा वातः पुष्करिणीं समिङ्गयति सर्वतः |
एवा ते गर्भ एजतु निरैतु दशमास्यः ||yáthā vā́taḥ puṣkaríṇīm samiṅgáyati sarvátaḥ ǀ
evā́ te gárbha ejatu niráitu dáśamāsyaḥ ǁyathā vātaḥ puṣkariṇīṃ samiṅgayati sarvataḥ |
evā te garbha ejatu niraitu daśamāsyaḥ ||यथा॑ । वातः॑ । पु॒ष्क॒रिणी॑म् । स॒म्ऽइ॒ङ्गय॑ति । स॒र्वतः॑ ।
ए॒व । ते॒ । गर्भः॑ । ए॒ज॒तु॒ । निः॒ऽऐतु॑ । दश॑ऽमास्यः ॥यथा । वातः । पुष्करिणीम् । सम्ऽइङ्गयति । सर्वतः ।
एव । ते । गर्भः । एजतु । निःऽऐतु । दशऽमास्यः ॥yáthā ǀ vā́taḥ ǀ puṣkaríṇīm ǀ sam-iṅgáyati ǀ sarvátaḥ ǀ
evá ǀ te ǀ gárbhaḥ ǀ ejatu ǀ niḥ-áitu ǀ dáśa-māsyaḥ ǁyathā ǀ vātaḥ ǀ puṣkariṇīm ǀ sam-iṅgayati ǀ sarvataḥ ǀ
eva ǀ te ǀ garbhaḥ ǀ ejatu ǀ niḥ-aitu ǀ daśa-māsyaḥ ǁ5.78.7 Aṣṭaka 4.4.20.3Anuvāka 5.6.46
-
Ṛk 8
यथा॒ वातो॒ यथा॒ वनं॒ यथा॑ समु॒द्र एज॑ति ।
ए॒वा त्वं द॑शमास्य स॒हावे॑हि ज॒रायु॑णा ॥यथा वातो यथा वनं यथा समुद्र एजति |
एवा त्वं दशमास्य सहावेहि जरायुणा ||yáthā vā́to yáthā vánam yáthā samudrá éjati ǀ
evā́ tvám daśamāsya sahā́vehi jarā́yuṇā ǁyathā vāto yathā vanaṃ yathā samudra ejati |
evā tvaṃ daśamāsya sahāvehi jarāyuṇā ||यथा॑ । वातः॑ । यथा॑ । वन॑म् । यथा॑ । स॒मु॒द्रः । एज॑ति ।
ए॒व । त्वम् । द॒श॒ऽमा॒स्य॒ । स॒ह । अव॑ । इ॒हि॒ । ज॒रायु॑णा ॥यथा । वातः । यथा । वनम् । यथा । समुद्रः । एजति ।
एव । त्वम् । दशऽमास्य । सह । अव । इहि । जरायुणा ॥yáthā ǀ vā́taḥ ǀ yáthā ǀ vánam ǀ yáthā ǀ samudráḥ ǀ éjati ǀ
evá ǀ tvám ǀ daśa-māsya ǀ sahá ǀ áva ǀ ihi ǀ jarā́yuṇā ǁyathā ǀ vātaḥ ǀ yathā ǀ vanam ǀ yathā ǀ samudraḥ ǀ ejati ǀ
eva ǀ tvam ǀ daśa-māsya ǀ saha ǀ ava ǀ ihi ǀ jarāyuṇā ǁ5.78.8 Aṣṭaka 4.4.20.4Anuvāka 5.6.47
-
Ṛk 9
दश॒ मासां॑छशया॒नः कु॑मा॒रो अधि॑ मा॒तरि॑ ।
नि॒रैतु॑ जी॒वो अक्ष॑तो जी॒वो जीवं॑त्या॒ अधि॑ ॥दश मासाञ् छशयानः कुमारो अधि मातरि |
निरैतु जीवो अक्षतो जीवो जीवन्त्या अधि ||dáśa mā́sāñchaśayānáḥ kumāró ádhi mātári ǀ
niráitu jīvó ákṣato jīvó jī́vantyā ádhi ǁdaśa māsāñ chaśayānaḥ kumāro adhi mātari |
niraitu jīvo akṣato jīvo jīvantyā adhi ||दश॑ । मासा॑न् । श॒श॒या॒नः । कु॒मा॒रः । अधि॑ । मा॒तरि॑ ।
निः॒ऽऐतु॑ । जी॒वः । अक्ष॑तः । जी॒वः । जीव॑न्त्याः । अधि॑ ॥दश । मासान् । शशयानः । कुमारः । अधि । मातरि ।
निःऽऐतु । जीवः । अक्षतः । जीवः । जीवन्त्याः । अधि ॥dáśa ǀ mā́sān ǀ śaśayānáḥ ǀ kumāráḥ ǀ ádhi ǀ mātári ǀ
niḥ-áitu ǀ jīváḥ ǀ ákṣataḥ ǀ jīváḥ ǀ jī́vantyāḥ ǀ ádhi ǁdaśa ǀ māsān ǀ śaśayānaḥ ǀ kumāraḥ ǀ adhi ǀ mātari ǀ
niḥ-aitu ǀ jīvaḥ ǀ akṣataḥ ǀ jīvaḥ ǀ jīvantyāḥ ǀ adhi ǁ5.78.9 Aṣṭaka 4.4.20.5Anuvāka 5.6.48
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.