Ṛk 5.78.4
Saṃhitā
अत्रि॒र्यद्वा॑मव॒रोह॑न्नृ॒बीस॒मजो॑हवी॒न्नाध॑मानेव॒ योषा॑ ।
श्ये॒नस्य॑ चि॒ज्जव॑सा॒ नूत॑ने॒नाग॑च्छतमश्विना॒ शंत॑मेन ॥
अत्रिर् यद् वाम् अवरोहन्न् ऋबीसम् अजोहवीन् नाधमानेव योषा |
श्येनस्य चिज् जवसा नूतनेनागच्छतम् अश्विना शन्तमेन ||
átriryádvāmavaróhannṛbī́samájohavīnnā́dhamāneva yóṣā ǀ
śyenásya cijjávasā nū́tanenā́gacchatamaśvinā śáṃtamena ǁ
atrir yad vām avarohann ṛbīsam ajohavīn nādhamāneva yoṣā |
śyenasya cij javasā nūtanenāgacchatam aśvinā śantamena ||
Padapāṭha
अत्रिः॑ । यत् । वा॒म् । अ॒व॒ऽरोह॑न् । ऋ॒बीस॑म् । अजो॑हवीत् । नाध॑मानाऽइव । योषा॑ ।
श्ये॒नस्य॑ । चि॒त् । जव॑सा । नूत॑नेन । आ । अ॒ग॒च्छ॒त॒म् । अ॒श्वि॒ना॒ । शम्ऽत॑मेन ॥
अत्रिः । यत् । वाम् । अवऽरोहन् । ऋबीसम् । अजोहवीत् । नाधमानाऽइव । योषा ।
श्येनस्य । चित् । जवसा । नूतनेन । आ । अगच्छतम् । अश्विना । शम्ऽतमेन ॥
átriḥ ǀ yát ǀ vām ǀ ava-róhan ǀ ṛbī́sam ǀ ájohavīt ǀ nā́dhamānā-iva ǀ yóṣā ǀ
śyenásya ǀ cit ǀ jávasā ǀ nū́tanena ǀ ā́ ǀ agacchatam ǀ aśvinā ǀ śám-tamena ǁ
atriḥ ǀ yat ǀ vām ǀ ava-rohan ǀ ṛbīsam ǀ ajohavīt ǀ nādhamānā-iva ǀ yoṣā ǀ
śyenasya ǀ cit ǀ javasā ǀ nūtanena ǀ ā ǀ agacchatam ǀ aśvinā ǀ śam-tamena ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 05.078.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.4.19.04
- Maṇḍala · Anuvāka · Ṛk
- 05.06.043
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Saptavadhri Ātreya
- Chandas छन्दस्
- Anuṣṭubh, Uṣṇih, Triṣṭubh
- Svara स्वरः
- ऋषभः
Text and interpretations from the Ṛgveda database of theveda.org.in.