Ṛk 5.78.5
Saṃhitā
वि जि॑हीष्व वनस्पते॒ योनिः॒ सूष्यं॑त्या इव ।
श्रु॒तं मे॑ अश्विना॒ हवं॑ स॒प्तव॑ध्रिं च मुंचतं ॥
वि जिहीष्व वनस्पते योनिः सूष्यन्त्या इव |
श्रुतम् मे अश्विना हवं सप्तवध्रिं च मुञ्चतम् ||
ví jihīṣva vanaspate yóniḥ sū́ṣyantyā iva ǀ
śrutám me aśvinā hávam saptávadhrim ca muñcatam ǁ
vi jihīṣva vanaspate yoniḥ sūṣyantyā iva |
śrutam me aśvinā havaṃ saptavadhriṃ ca muñcatam ||
Padapāṭha
वि । जि॒ही॒ष्व॒ । व॒न॒स्प॒ते॒ । योनिः॑ । सूष्य॑न्त्याःऽइव ।
श्रु॒तम् । मे॒ । अ॒श्वि॒ना॒ । हव॑म् । स॒प्तऽव॑ध्रिम् । च॒ । मु॒ञ्च॒त॒म् ॥
वि । जिहीष्व । वनस्पते । योनिः । सूष्यन्त्याःऽइव ।
श्रुतम् । मे । अश्विना । हवम् । सप्तऽवध्रिम् । च । मुञ्चतम् ॥
ví ǀ jihīṣva ǀ vanaspate ǀ yóniḥ ǀ sū́ṣyantyāḥ-iva ǀ
śrutám ǀ me ǀ aśvinā ǀ hávam ǀ saptá-vadhrim ǀ ca ǀ muñcatam ǁ
vi ǀ jihīṣva ǀ vanaspate ǀ yoniḥ ǀ sūṣyantyāḥ-iva ǀ
śrutam ǀ me ǀ aśvinā ǀ havam ǀ sapta-vadhrim ǀ ca ǀ muñcatam ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 05.078.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.4.20.01
- Maṇḍala · Anuvāka · Ṛk
- 05.06.044
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Saptavadhri Ātreya
- Chandas छन्दस्
- Anuṣṭubh, Uṣṇih, Triṣṭubh
- Svara स्वरः
- ऋषभः
Text and interpretations from the Ṛgveda database of theveda.org.in.