Sūkta 40
- Devatā देवता
- 1-4: Indra; 5: Sūrya; 6: Indra, Atri; 7-9: Atri
- Ṛṣi ऋषि
- Atri Bhauma
- Chandas छन्दस्
- Triṣṭubh, Uṣṇih, Anuṣṭubh
Metres by ṛk
1st set of styles nicṛdanuṣṭup (5, 6, 8); uṣṇik (2, 3); nicṛduṣṇik (1); triṣṭup (4); bhurikpaṅkti (7); svarāḍuṣnik (9)
2nd set of styles triṣṭubh (4, 6-8); uṣṇih (1-3); anuṣṭubh (5, 9)
-
Ṛk 1
आ या॒ह्यद्रि॑भिः सु॒तं सोमं॑ सोमपते पिब ।
वृष॑न्निंद्र॒ वृष॑भिर्वृत्रहंतम ॥आ याह्य् अद्रिभिः सुतं सोमं सोमपते पिब |
वृषन्न् इन्द्र वृषभिर् वृत्रहन्तम ||ā́ yāhyádribhiḥ sutám sómam somapate piba ǀ
vṛ́ṣannindra vṛ́ṣabhirvṛtrahantama ǁā yāhy adribhiḥ sutaṃ somaṃ somapate piba |
vṛṣann indra vṛṣabhir vṛtrahantama ||आ । या॒हि॒ । अद्रि॑ऽभिः । सु॒तम् । सोम॑म् । सो॒म॒ऽप॒ते॒ । पि॒ब॒ ।
वृष॑न् । इ॒न्द्र॒ । वृष॑ऽभिः । वृ॒त्र॒ह॒न्ऽत॒म॒ ॥आ । याहि । अद्रिऽभिः । सुतम् । सोमम् । सोमऽपते । पिब ।
वृषन् । इन्द्र । वृषऽभिः । वृत्रहन्ऽतम ॥ā́ ǀ yāhi ǀ ádri-bhiḥ ǀ sutám ǀ sómam ǀ soma-pate ǀ piba ǀ
vṛ́ṣan ǀ indra ǀ vṛ́ṣa-bhiḥ ǀ vṛtrahan-tama ǁā ǀ yāhi ǀ adri-bhiḥ ǀ sutam ǀ somam ǀ soma-pate ǀ piba ǀ
vṛṣan ǀ indra ǀ vṛṣa-bhiḥ ǀ vṛtrahan-tama ǁ5.40.1 Aṣṭaka 4.2.11.1Anuvāka 5.3.49
-
Ṛk 2
वृषा॒ ग्रावा॒ वृषा॒ मदो॒ वृषा॒ सोमो॑ अ॒यं सु॒तः ।
वृष॑न्निंद्र॒ वृष॑भिर्वृत्रहंतम ॥वृषा ग्रावा वृषा मदो वृषा सोमो अयं सुतः |
वृषन्न् इन्द्र वृषभिर् वृत्रहन्तम ||vṛ́ṣā grā́vā vṛ́ṣā mádo vṛ́ṣā sómo ayám sutáḥ ǀ
vṛ́ṣannindra vṛ́ṣabhirvṛtrahantama ǁvṛṣā grāvā vṛṣā mado vṛṣā somo ayaṃ sutaḥ |
vṛṣann indra vṛṣabhir vṛtrahantama ||वृषा॑ । ग्रावा॑ । वृषा॑ । मदः॑ । वृषा॑ । सोमः॑ । अ॒यम् । सु॒तः ।
वृष॑न् । इ॒न्द्र॒ । वृष॑ऽभिः । वृ॒त्र॒ह॒न्ऽत॒म॒ ॥वृषा । ग्रावा । वृषा । मदः । वृषा । सोमः । अयम् । सुतः ।
वृषन् । इन्द्र । वृषऽभिः । वृत्रहन्ऽतम ॥vṛ́ṣā ǀ grā́vā ǀ vṛ́ṣā ǀ mádaḥ ǀ vṛ́ṣā ǀ sómaḥ ǀ ayám ǀ sutáḥ ǀ
vṛ́ṣan ǀ indra ǀ vṛ́ṣa-bhiḥ ǀ vṛtrahan-tama ǁvṛṣā ǀ grāvā ǀ vṛṣā ǀ madaḥ ǀ vṛṣā ǀ somaḥ ǀ ayam ǀ sutaḥ ǀ
vṛṣan ǀ indra ǀ vṛṣa-bhiḥ ǀ vṛtrahan-tama ǁ5.40.2 Aṣṭaka 4.2.11.2Anuvāka 5.3.50
-
Ṛk 3
वृषा॑ त्वा॒ वृष॑णं हुवे॒ वज्रिं॑चि॒त्राभि॑रू॒तिभिः॑ ।
वृष॑न्निंद्र॒ वृष॑भिर्वृत्रहंतम ॥वृषा त्वा वृषणं हुवे वज्रिञ् चित्राभिर् ऊतिभिः |
वृषन्न् इन्द्र वृषभिर् वृत्रहन्तम ||vṛ́ṣā tvā vṛ́ṣaṇam huve vájriñcitrā́bhirūtíbhiḥ ǀ
vṛ́ṣannindra vṛ́ṣabhirvṛtrahantama ǁvṛṣā tvā vṛṣaṇaṃ huve vajriñ citrābhir ūtibhiḥ |
vṛṣann indra vṛṣabhir vṛtrahantama ||वृषा॑ । त्वा॒ । वृष॑णम् । हु॒वे॒ । वज्रि॑न् । चि॒त्राभिः॑ । ऊ॒तिऽभिः॑ ।
वृष॑न् । इ॒न्द्र॒ । वृष॑ऽभिः । वृ॒त्र॒ह॒न्ऽत॒म॒ ॥वृषा । त्वा । वृषणम् । हुवे । वज्रिन् । चित्राभिः । ऊतिऽभिः ।
वृषन् । इन्द्र । वृषऽभिः । वृत्रहन्ऽतम ॥vṛ́ṣā ǀ tvā ǀ vṛ́ṣaṇam ǀ huve ǀ vájrin ǀ citrā́bhiḥ ǀ ūtí-bhiḥ ǀ
vṛ́ṣan ǀ indra ǀ vṛ́ṣa-bhiḥ ǀ vṛtrahan-tama ǁvṛṣā ǀ tvā ǀ vṛṣaṇam ǀ huve ǀ vajrin ǀ citrābhiḥ ǀ ūti-bhiḥ ǀ
vṛṣan ǀ indra ǀ vṛṣa-bhiḥ ǀ vṛtrahan-tama ǁ5.40.3 Aṣṭaka 4.2.11.3Anuvāka 5.3.51
-
Ṛk 4
ऋ॒जी॒षी व॒ज्री वृ॑ष॒भस्तु॑रा॒षाट्छु॒ष्मी राजा॑ वृत्र॒हा सो॑म॒पावा॑ ।
यु॒क्त्वा हरि॑भ्या॒मुप॑ यासद॒र्वाङ्माध्यं॑दिने॒ सव॑ने मत्स॒दिंद्रः॑ ॥ऋजीषी वज्री वृषभस् तुराषाट् छुष्मी राजा वृत्रहा सोमपावा |
युक्त्वा हरिभ्याम् उप यासद् अर्वाङ् माध्यन्दिने सवने मत्सद् इन्द्रः ||ṛjīṣī́ vajrī́ vṛṣabhásturāṣā́ṭchuṣmī́ rā́jā vṛtrahā́ somapā́vā ǀ
yuktvā́ háribhyāmúpa yāsadarvā́ṅmā́dhyaṃdine sávane matsadíndraḥ ǁṛjīṣī vajrī vṛṣabhas turāṣāṭ chuṣmī rājā vṛtrahā somapāvā |
yuktvā haribhyām upa yāsad arvāṅ mādhyandine savane matsad indraḥ ||ऋ॒जी॒षी । व॒ज्री । वृ॒ष॒भः । तु॒रा॒षाट् । शु॒ष्मी । राजा॑ । वृ॒त्र॒ऽहा । सो॒म॒ऽपावा॑ ।
यु॒क्त्वा । हरि॑ऽभ्याम् । उप॑ । या॒स॒त् । अ॒र्वाङ् । माध्य॑न्दिने । सव॑ने । म॒त्स॒त् । इन्द्रः॑ ॥ऋजीषी । वज्री । वृषभः । तुराषाट् । शुष्मी । राजा । वृत्रऽहा । सोमऽपावा ।
युक्त्वा । हरिऽभ्याम् । उप । यासत् । अर्वाङ् । माध्यन्दिने । सवने । मत्सत् । इन्द्रः ॥ṛjīṣī́ ǀ vajrī́ ǀ vṛṣabháḥ ǀ turāṣā́ṭ ǀ śuṣmī́ ǀ rā́jā ǀ vṛtra-hā́ ǀ soma-pā́vā ǀ
yuktvā́ ǀ hári-bhyām ǀ úpa ǀ yāsat ǀ arvā́ṅ ǀ mā́dhyandine ǀ sávane ǀ matsat ǀ índraḥ ǁṛjīṣī ǀ vajrī ǀ vṛṣabhaḥ ǀ turāṣāṭ ǀ śuṣmī ǀ rājā ǀ vṛtra-hā ǀ soma-pāvā ǀ
yuktvā ǀ hari-bhyām ǀ upa ǀ yāsat ǀ arvāṅ ǀ mādhyandine ǀ savane ǀ matsat ǀ indraḥ ǁ5.40.4 Aṣṭaka 4.2.11.4Anuvāka 5.3.52
-
Ṛk 5
यत्त्वा॑ सूर्य॒ स्व॑र्भानु॒स्तम॒सावि॑ध्यदासु॒रः ।
अक्षे॑त्रवि॒द्यथा॑ मु॒ग्धो भुव॑नान्यदीधयुः ॥यत् त्वा सूर्य स्वर्भानुस् तमसाविध्यद् आसुरः |
अक्षेत्रविद् यथा मुग्धो भुवनान्य् अदीधयुः ||yáttvā sūrya svárbhānustámasā́vidhyadāsuráḥ ǀ
ákṣetravidyáthā mugdhó bhúvanānyadīdhayuḥ ǁyat tvā sūrya svarbhānus tamasāvidhyad āsuraḥ |
akṣetravid yathā mugdho bhuvanāny adīdhayuḥ ||यत् । त्वा॒ । सू॒र्य॒ । स्वः॑ऽभानुः । तम॑सा । अवि॑ध्यत् । आ॒सु॒रः ।
अक्षे॑त्रऽवित् । यथा॑ । मु॒ग्धः । भुव॑नानि । अ॒दी॒ध॒युः॒ ॥यत् । त्वा । सूर्य । स्वःऽभानुः । तमसा । अविध्यत् । आसुरः ।
अक्षेत्रऽवित् । यथा । मुग्धः । भुवनानि । अदीधयुः ॥yát ǀ tvā ǀ sūrya ǀ sváḥ-bhānuḥ ǀ támasā ǀ ávidhyat ǀ āsuráḥ ǀ
ákṣetra-vit ǀ yáthā ǀ mugdháḥ ǀ bhúvanāni ǀ adīdhayuḥ ǁyat ǀ tvā ǀ sūrya ǀ svaḥ-bhānuḥ ǀ tamasā ǀ avidhyat ǀ āsuraḥ ǀ
akṣetra-vit ǀ yathā ǀ mugdhaḥ ǀ bhuvanāni ǀ adīdhayuḥ ǁ5.40.5 Aṣṭaka 4.2.11.5Anuvāka 5.3.53
-
Ṛk 6
स्व॑र्भानो॒रध॒ यदिं॑द्र मा॒या अ॒वो दि॒वो वर्त॑माना अ॒वाह॑न् ।
गू॒ळ्हं सूर्यं॒ तम॒साप॑व्रतेन तु॒रीये॑ण॒ ब्रह्म॑णाविंद॒दत्रिः॑ ॥स्वर्भानोर् अध यद् इन्द्र माया अवो दिवो वर्तमाना अवाहन् |
गूऌहं सूर्यं तमसापव्रतेन तुरीयेण ब्रह्मणाविन्दद् अत्रिः ||svárbhānorádha yádindra māyā́ avó divó vártamānā avā́han ǀ
gūḷhám sū́ryam támasā́pavratena turī́yeṇa bráhmaṇāvindadátriḥ ǁsvarbhānor adha yad indra māyā avo divo vartamānā avāhan |
gūḷhaṃ sūryaṃ tamasāpavratena turīyeṇa brahmaṇāvindad atriḥ ||स्वः॑ऽभानोः । अध॑ । यत् । इ॒न्द्र॒ । मा॒या । अ॒वः । दि॒वः । वर्त॑मानाः । अ॒व॒ऽअह॑न् ।
गू॒ळ्हम् । सूर्य॑म् । तम॑सा । अप॑ऽव्रतेन । तु॒रीये॑ण । ब्रह्म॑णा । अ॒वि॒न्द॒त् । अत्रिः॑ ॥स्वःऽभानोः । अध । यत् । इन्द्र । माया । अवः । दिवः । वर्तमानाः । अवऽअहन् ।
गूळ्हम् । सूर्यम् । तमसा । अपऽव्रतेन । तुरीयेण । ब्रह्मणा । अविन्दत् । अत्रिः ॥sváḥ-bhānoḥ ǀ ádha ǀ yát ǀ indra ǀ māyā́ ǀ aváḥ ǀ diváḥ ǀ vártamānāḥ ǀ ava-áhan ǀ
gūḷhám ǀ sū́ryam ǀ támasā ǀ ápa-vratena ǀ turī́yeṇa ǀ bráhmaṇā ǀ avindat ǀ átriḥ ǁsvaḥ-bhānoḥ ǀ adha ǀ yat ǀ indra ǀ māyā ǀ avaḥ ǀ divaḥ ǀ vartamānāḥ ǀ ava-ahan ǀ
gūḷham ǀ sūryam ǀ tamasā ǀ apa-vratena ǀ turīyeṇa ǀ brahmaṇā ǀ avindat ǀ atriḥ ǁ5.40.6 Aṣṭaka 4.2.12.1Anuvāka 5.3.54
-
Ṛk 7
मा मामि॒मं तव॒ संत॑मत्र इर॒स्या द्रु॒ग्धो भि॒यसा॒ नि गा॑रीत् ।
त्वं मि॒त्रो अ॑सि स॒त्यरा॑धा॒स्तौ मे॒हाव॑तं॒ वरु॑णश्च॒ राजा॑ ॥मा माम् इमं तव सन्तम् अत्र इरस्या द्रुग्धो भियसा नि गारीत् |
त्वम् मित्रो असि सत्यराधास् तौ मेहावतं वरुणश् च राजा ||mā́ mā́mimám táva sántamatra irasyā́ drugdhó bhiyásā ní gārīt ǀ
tvám mitró asi satyárādhāstáu mehā́vatam váruṇaśca rā́jā ǁmā mām imaṃ tava santam atra irasyā drugdho bhiyasā ni gārīt |
tvam mitro asi satyarādhās tau mehāvataṃ varuṇaś ca rājā ||मा । माम् । इ॒मम् । तव॑ । सन्त॑म् । अ॒त्रे॒ । इ॒र॒स्या । द्रु॒ग्धः । भि॒यसा॑ । नि । गा॒री॒त् ।
त्वम् । मि॒त्रः । अ॒सि॒ । स॒त्यऽरा॑धाः । तौ । मा॒ । इ॒ह । अ॒व॒त॒म् । वरु॑णः । च॒ । राजा॑ ॥मा । माम् । इमम् । तव । सन्तम् । अत्रे । इरस्या । द्रुग्धः । भियसा । नि । गारीत् ।
त्वम् । मित्रः । असि । सत्यऽराधाः । तौ । मा । इह । अवतम् । वरुणः । च । राजा ॥mā́ ǀ mā́m ǀ imám ǀ táva ǀ sántam ǀ atre ǀ irasyā́ ǀ drugdháḥ ǀ bhiyásā ǀ ní ǀ gārīt ǀ
tvám ǀ mitráḥ ǀ asi ǀ satyá-rādhāḥ ǀ táu ǀ mā ǀ ihá ǀ avatam ǀ váruṇaḥ ǀ ca ǀ rā́jā ǁmā ǀ mām ǀ imam ǀ tava ǀ santam ǀ atre ǀ irasyā ǀ drugdhaḥ ǀ bhiyasā ǀ ni ǀ gārīt ǀ
tvam ǀ mitraḥ ǀ asi ǀ satya-rādhāḥ ǀ tau ǀ mā ǀ iha ǀ avatam ǀ varuṇaḥ ǀ ca ǀ rājā ǁ5.40.7 Aṣṭaka 4.2.12.2Anuvāka 5.3.55
-
Ṛk 8
ग्राव्णो॑ ब्र॒ह्मा यु॑युजा॒नः स॑प॒र्यन् की॒रिणा॑ दे॒वान्नम॑सोप॒शिक्ष॑न् ।
अत्रिः॒ सूर्य॑स्य दि॒वि चक्षु॒राधा॒त्स्व॑र्भानो॒रप॑ मा॒या अ॑घुक्षत् ॥ग्राव्णो ब्रह्मा युयुजानः सपर्यन् कीरिणा देवान् नमसोपशिक्षन् |
अत्रिः सूर्यस्य दिवि चक्षुर् आधात् स्वर्भानोर् अप माया अघुक्षत् ||grā́vṇo brahmā́ yuyujānáḥ saparyán kīríṇā devā́nnámasopaśíkṣan ǀ
átriḥ sū́ryasya diví cákṣurā́dhātsvárbhānorápa māyā́ aghukṣat ǁgrāvṇo brahmā yuyujānaḥ saparyan kīriṇā devān namasopaśikṣan |
atriḥ sūryasya divi cakṣur ādhāt svarbhānor apa māyā aghukṣat ||ग्राव्णः॑ । ब्र॒ह्मा । यु॒यु॒जा॒नः । स॒प॒र्यन् । की॒रिणा॑ । दे॒वान् । नम॑सा । उ॒प॒ऽशिक्ष॑न् ।
अत्रिः॑ । सूर्य॑स्य । दि॒वि । चक्षुः॑ । आ । अ॒धा॒त् । स्वः॑ऽभानोः । अप॑ । मा॒याः । अ॒घु॒क्ष॒त् ॥ग्राव्णः । ब्रह्मा । युयुजानः । सपर्यन् । कीरिणा । देवान् । नमसा । उपऽशिक्षन् ।
अत्रिः । सूर्यस्य । दिवि । चक्षुः । आ । अधात् । स्वःऽभानोः । अप । मायाः । अघुक्षत् ॥grā́vṇaḥ ǀ brahmā́ ǀ yuyujānáḥ ǀ saparyán ǀ kīríṇā ǀ devā́n ǀ námasā ǀ upa-śíkṣan ǀ
átriḥ ǀ sū́ryasya ǀ diví ǀ cákṣuḥ ǀ ā́ ǀ adhāt ǀ sváḥ-bhānoḥ ǀ ápa ǀ māyā́ḥ ǀ aghukṣat ǁgrāvṇaḥ ǀ brahmā ǀ yuyujānaḥ ǀ saparyan ǀ kīriṇā ǀ devān ǀ namasā ǀ upa-śikṣan ǀ
atriḥ ǀ sūryasya ǀ divi ǀ cakṣuḥ ǀ ā ǀ adhāt ǀ svaḥ-bhānoḥ ǀ apa ǀ māyāḥ ǀ aghukṣat ǁ5.40.8 Aṣṭaka 4.2.12.3Anuvāka 5.3.56
-
Ṛk 9
यं वै सूर्यं॒ स्व॑र्भानु॒स्तम॒सावि॑ध्यदासु॒रः ।
अत्र॑य॒स्तमन्व॑विंदन्न॒ह्य१॒॑न्ये अश॑क्नुवन् ॥यं वै सूर्यं स्वर्भानुस् तमसाविध्यद् आसुरः |
अत्रयस् तम् अन्व् अविन्दन् नह्य् अन्ये अशक्नुवन् ||yám vái sū́ryam svárbhānustámasā́vidhyadāsuráḥ ǀ
átrayastámánvavindannahyányé áśaknuvan ǁyaṃ vai sūryaṃ svarbhānus tamasāvidhyad āsuraḥ |
atrayas tam anv avindan nahy anye aśaknuvan ||यम् । वै । सूर्य॑म् । स्वः॑ऽभानुः । तम॑सा । अवि॑ध्यत् । आ॒सु॒रः ।
अत्र॑यः । तम् । अनु॑ । अ॒वि॒न्द॒न् । न॒हि । अ॒न्ये । अश॑क्नुवन् ॥यम् । वै । सूर्यम् । स्वःऽभानुः । तमसा । अविध्यत् । आसुरः ।
अत्रयः । तम् । अनु । अविन्दन् । नहि । अन्ये । अशक्नुवन् ॥yám ǀ vái ǀ sū́ryam ǀ sváḥ-bhānuḥ ǀ támasā ǀ ávidhyat ǀ āsuráḥ ǀ
átrayaḥ ǀ tám ǀ ánu ǀ avindan ǀ nahí ǀ anyé ǀ áśaknuvan ǁyam ǀ vai ǀ sūryam ǀ svaḥ-bhānuḥ ǀ tamasā ǀ avidhyat ǀ āsuraḥ ǀ
atrayaḥ ǀ tam ǀ anu ǀ avindan ǀ nahi ǀ anye ǀ aśaknuvan ǁ5.40.9 Aṣṭaka 4.2.12.4Anuvāka 5.3.57
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.