Sūkta 20
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Prayasvanta Ātreya
- Chandas छन्दस्
- Anuṣṭubh, Paṅkti
Metres by ṛk
1st set of styles virāḍanuṣṭup (1, 3); nicṛdanuṣṭup (2); paṅktiḥ (4)
2nd set of styles anuṣṭubh (1-3); paṅkti (4)
-
Ṛk 1
यम॑ग्ने वाजसातम॒ त्वं चि॒न्मन्य॑से र॒यिं ।
तं नो॑ गी॒र्भिः श्र॒वाय्यं॑ देव॒त्रा प॑नया॒ युजं॑ ॥यम् अग्ने वाजसातम त्वं चिन् मन्यसे रयिम् |
तं नो गीर्भिः श्रवाय्यं देवत्रा पनया युजम् ||yámagne vājasātama tvám cinmányase rayím ǀ
tám no gīrbhíḥ śravā́yyam devatrā́ panayā yújam ǁyam agne vājasātama tvaṃ cin manyase rayim |
taṃ no gīrbhiḥ śravāyyaṃ devatrā panayā yujam ||यम् । अ॒ग्ने॒ । वा॒ज॒ऽसा॒त॒म॒ । त्वम् । चि॒त् । मन्य॑से । र॒यिम् ।
तम् । नः॒ । गीः॒ऽभिः । श्र॒वाय्य॑म् । दे॒व॒ऽत्रा । प॒न॒य॒ । युज॑म् ॥यम् । अग्ने । वाजऽसातम । त्वम् । चित् । मन्यसे । रयिम् ।
तम् । नः । गीःऽभिः । श्रवाय्यम् । देवऽत्रा । पनय । युजम् ॥yám ǀ agne ǀ vāja-sātama ǀ tvám ǀ cit ǀ mányase ǀ rayím ǀ
tám ǀ naḥ ǀ gīḥ-bhíḥ ǀ śravā́yyam ǀ deva-trā́ ǀ panaya ǀ yújam ǁyam ǀ agne ǀ vāja-sātama ǀ tvam ǀ cit ǀ manyase ǀ rayim ǀ
tam ǀ naḥ ǀ gīḥ-bhiḥ ǀ śravāyyam ǀ deva-trā ǀ panaya ǀ yujam ǁ5.20.1 Aṣṭaka 4.1.12.1Anuvāka 5.2.26
-
Ṛk 2
ये अ॑ग्ने॒ नेरयं॑ति ते वृ॒द्धा उ॒ग्रस्य॒ शव॑सः ।
अप॒ द्वेषो॒ अप॒ ह्वरो॒ऽन्यव्र॑तस्य सश्चिरे ॥ये अग्ने नेरयन्ति ते वृद्धा उग्रस्य शवसः |
अप द्वेषो अप ह्वरो ऽन्यव्रतस्य सश्चिरे ||yé agne néráyanti te vṛddhā́ ugrásya śávasaḥ ǀ
ápa dvéṣo ápa hváro’nyávratasya saścire ǁye agne nerayanti te vṛddhā ugrasya śavasaḥ |
apa dveṣo apa hvaro 'nyavratasya saścire ||ये । अ॒ग्ने॒ । न । ई॒रय॑न्ति । ते॒ । वृ॒द्धाः । उ॒ग्रस्य॑ । शव॑सः ।
अप॑ । द्वेषः॑ । अप॑ । ह्वरः॑ । अ॒न्यऽव्र॑तस्य । स॒श्चि॒रे॒ ॥ये । अग्ने । न । ईरयन्ति । ते । वृद्धाः । उग्रस्य । शवसः ।
अप । द्वेषः । अप । ह्वरः । अन्यऽव्रतस्य । सश्चिरे ॥yé ǀ agne ǀ ná ǀ īráyanti ǀ te ǀ vṛddhā́ḥ ǀ ugrásya ǀ śávasaḥ ǀ
ápa ǀ dvéṣaḥ ǀ ápa ǀ hváraḥ ǀ anyá-vratasya ǀ saścire ǁye ǀ agne ǀ na ǀ īrayanti ǀ te ǀ vṛddhāḥ ǀ ugrasya ǀ śavasaḥ ǀ
apa ǀ dveṣaḥ ǀ apa ǀ hvaraḥ ǀ anya-vratasya ǀ saścire ǁ5.20.2 Aṣṭaka 4.1.12.2Anuvāka 5.2.27
-
Ṛk 3
होता॑रं त्वा वृणीम॒हेऽग्ने॒ दक्ष॑स्य॒ साध॑नं ।
य॒ज्ञेषु॑ पू॒र्व्यं गि॒रा प्रय॑स्वंतो हवामहे ॥होतारं त्वा वृणीमहे ऽग्ने दक्षस्य साधनम् |
यज्ञेषु पूर्व्यं गिरा प्रयस्वन्तो हवामहे ||hótāram tvā vṛṇīmahé’gne dákṣasya sā́dhanam ǀ
yajñéṣu pūrvyám girā́ práyasvanto havāmahe ǁhotāraṃ tvā vṛṇīmahe 'gne dakṣasya sādhanam |
yajñeṣu pūrvyaṃ girā prayasvanto havāmahe ||होता॑रम् । त्वा॒ । वृ॒णी॒म॒हे॒ । अग्ने॑ । दक्ष॑स्य । साध॑नम् ।
य॒ज्ञेषु॑ । पू॒र्व्यम् । गि॒रा । प्रय॑स्वन्तः । ह॒वा॒म॒हे॒ ॥होतारम् । त्वा । वृणीमहे । अग्ने । दक्षस्य । साधनम् ।
यज्ञेषु । पूर्व्यम् । गिरा । प्रयस्वन्तः । हवामहे ॥hótāram ǀ tvā ǀ vṛṇīmahe ǀ ágne ǀ dákṣasya ǀ sā́dhanam ǀ
yajñéṣu ǀ pūrvyám ǀ girā́ ǀ práyasvantaḥ ǀ havāmahe ǁhotāram ǀ tvā ǀ vṛṇīmahe ǀ agne ǀ dakṣasya ǀ sādhanam ǀ
yajñeṣu ǀ pūrvyam ǀ girā ǀ prayasvantaḥ ǀ havāmahe ǁ5.20.3 Aṣṭaka 4.1.12.3Anuvāka 5.2.28
-
Ṛk 4
इ॒त्था यथा॑ त ऊ॒तये॒ सह॑सावंदि॒वेदि॑वे ।
रा॒य ऋ॒ताय॑ सुक्रतो॒ गोभिः॑ ष्याम सध॒मादो॑ वी॒रैः स्या॑म सध॒मादः॑ ॥इत्था यथा त ऊतये सहसावन् दिवे-दिवे |
राय ऋताय सुक्रतो गोभिः ष्याम सधमादो वीरैः स्याम सधमादः ||itthā́ yáthā ta ūtáye sáhasāvandivédive ǀ
rāyá ṛtā́ya sukrato góbhiḥ ṣyāma sadhamā́do vīráiḥ syāma sadhamā́daḥ ǁitthā yathā ta ūtaye sahasāvan dive-dive |
rāya ṛtāya sukrato gobhiḥ ṣyāma sadhamādo vīraiḥ syāma sadhamādaḥ ||इ॒त्था । यथा॑ । ते॒ । ऊ॒तये॑ । सह॑साऽवन् । दि॒वेऽदि॑वे ।
रा॒ये । ऋ॒ताय॑ । सु॒क्र॒तो॒ इति॑ सुऽक्रतो । गोभिः॑ । स्या॒म॒ । स॒ध॒ऽमादः॑ । वी॒रैः । स्या॒म॒ । स॒ध॒ऽमादः॑ ॥इत्था । यथा । ते । ऊतये । सहसाऽवन् । दिवेऽदिवे ।
राये । ऋताय । सुक्रतो इति सुऽक्रतो । गोभिः । स्याम । सधऽमादः । वीरैः । स्याम । सधऽमादः ॥itthā́ ǀ yáthā ǀ te ǀ ūtáye ǀ sáhasā-van ǀ divé-dive ǀ
rāyé ǀ ṛtā́ya ǀ sukrato íti su-krato ǀ góbhiḥ ǀ syāma ǀ sadha-mā́daḥ ǀ vīráiḥ ǀ syāma ǀ sadha-mā́daḥ ǁitthā ǀ yathā ǀ te ǀ ūtaye ǀ sahasā-van ǀ dive-dive ǀ
rāye ǀ ṛtāya ǀ sukrato iti su-krato ǀ gobhiḥ ǀ syāma ǀ sadha-mādaḥ ǀ vīraiḥ ǀ syāma ǀ sadha-mādaḥ ǁ5.20.4 Aṣṭaka 4.1.12.4Anuvāka 5.2.29
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.