Ṛgveda · Maṇḍala 5

Sūkta 52

Maruts · Śyāvāśva Ātreya · 17 ṛks

Link
Devatā देवता
Maruts
Ṛṣi ऋषि
Śyāvāśva Ātreya
Chandas छन्दस्
Anuṣṭubh, Paṅkti
Metres by ṛk

1st set of styles virāḍanuṣṭup (1, 4, 5, 15); nicṛdanuṣṭup (2, 7, 10); virāḍuṣnik (3, 9, 11); anuṣṭup (8, 12, 13); bṛhatī (14, 17); paṅktiḥ (6); nicṛdbṛhatī (16)

2nd set of styles anuṣṭubh (1-5, 7-15); paṅkti (6, 16, 17)

  1. Ṛk 1

    प्र श्या॑वाश्व धृष्णु॒यार्चा॑ म॒रुद्भि॒र्ऋक्व॑भिः ।
    ये अ॑द्रो॒घम॑नुष्व॒धं श्रवो॒ मदं॑ति य॒ज्ञियाः॑ ॥

    प्र श्यावाश्व धृष्णुयार्चा मरुद्भिर् ऋक्वभिः |
    ये अद्रोघम् अनुष्वधं श्रवो मदन्ति यज्ञियाः ||

    prá śyāvāśva dhṛṣṇuyā́rcā marúdbhirṛ́kvabhiḥ ǀ
    yé adroghámanuṣvadhám śrávo mádanti yajñíyāḥ ǁ

    pra śyāvāśva dhṛṣṇuyārcā marudbhir ṛkvabhiḥ |
    ye adrogham anuṣvadhaṃ śravo madanti yajñiyāḥ ||

    प्र । श्या॒व॒ऽअ॒श्व॒ । धृ॒ष्णु॒ऽया । अर्च॑ । म॒रुत्ऽभिः॑ । ऋक्व॑ऽभिः ।
    ये । अ॒द्रो॒घम् । अ॒नु॒ऽस्व॒धम् । श्रवः॑ । मद॑न्ति । य॒ज्ञियाः॑ ॥

    प्र । श्यावऽअश्व । धृष्णुऽया । अर्च । मरुत्ऽभिः । ऋक्वऽभिः ।
    ये । अद्रोघम् । अनुऽस्वधम् । श्रवः । मदन्ति । यज्ञियाः ॥

    prá ǀ śyāva-aśva ǀ dhṛṣṇu-yā́ ǀ árca ǀ marút-bhiḥ ǀ ṛ́kva-bhiḥ ǀ
    yé ǀ adroghám ǀ anu-svadhám ǀ śrávaḥ ǀ mádanti ǀ yajñíyāḥ ǁ

    pra ǀ śyāva-aśva ǀ dhṛṣṇu-yā ǀ arca ǀ marut-bhiḥ ǀ ṛkva-bhiḥ ǀ
    ye ǀ adrogham ǀ anu-svadham ǀ śravaḥ ǀ madanti ǀ yajñiyāḥ ǁ

    5.52.1 Aṣṭaka 4.3.8.1Anuvāka 5.4.57

  2. Ṛk 2

    ते हि स्थि॒रस्य॒ शव॑सः॒ सखा॑यः॒ संति॑ धृष्णु॒या ।
    ते याम॒न्ना धृ॑ष॒द्विन॒स्त्मना॑ पांति॒ शश्व॑तः ॥

    ते हि स्थिरस्य शवसः सखायः सन्ति धृष्णुया |
    ते यामन्न् आ धृषद्विनस् त्मना पान्ति शश्वतः ||

    té hí sthirásya śávasaḥ sákhāyaḥ sánti dhṛṣṇuyā́ ǀ
    té yā́mannā́ dhṛṣadvínastmánā pānti śáśvataḥ ǁ

    te hi sthirasya śavasaḥ sakhāyaḥ santi dhṛṣṇuyā |
    te yāmann ā dhṛṣadvinas tmanā pānti śaśvataḥ ||

    ते । हि । स्थि॒रस्य॑ । शव॑सः । सखा॑यः । सन्ति॑ । धृ॒ष्णु॒ऽया ।
    ते । याम॑न् । आ । धृ॒ष॒त्ऽविनः॑ । त्मना॑ । पा॒न्ति॒ । शश्व॑तः ॥

    ते । हि । स्थिरस्य । शवसः । सखायः । सन्ति । धृष्णुऽया ।
    ते । यामन् । आ । धृषत्ऽविनः । त्मना । पान्ति । शश्वतः ॥

    té ǀ hí ǀ sthirásya ǀ śávasaḥ ǀ sákhāyaḥ ǀ sánti ǀ dhṛṣṇu-yā́ ǀ
    té ǀ yā́man ǀ ā́ ǀ dhṛṣat-vínaḥ ǀ tmánā ǀ pānti ǀ śáśvataḥ ǁ

    te ǀ hi ǀ sthirasya ǀ śavasaḥ ǀ sakhāyaḥ ǀ santi ǀ dhṛṣṇu-yā ǀ
    te ǀ yāman ǀ ā ǀ dhṛṣat-vinaḥ ǀ tmanā ǀ pānti ǀ śaśvataḥ ǁ

    5.52.2 Aṣṭaka 4.3.8.2Anuvāka 5.4.58

  3. Ṛk 3

    ते स्यं॒द्रासो॒ नोक्षणोऽति॑ ष्कंदंति॒ शर्व॑रीः ।
    म॒रुता॒मधा॒ महो॑ दि॒वि क्ष॒मा च॑ मन्महे ॥

    ते स्यन्द्रासो नोक्षणो ऽति ष्कन्दन्ति शर्वरीः |
    मरुताम् अधा महो दिवि क्षमा च मन्महे ||

    té syandrā́so nókṣáṇó’ti ṣkandanti śárvarīḥ ǀ
    marútāmádhā máho diví kṣamā́ ca manmahe ǁ

    te syandrāso nokṣaṇo 'ti ṣkandanti śarvarīḥ |
    marutām adhā maho divi kṣamā ca manmahe ||

    ते । स्य॒न्द्रासः॑ । न । उ॒क्षणः॑ । अति॑ । स्क॒न्द॒न्ति॒ । शर्व॑रीः ।
    म॒रुता॑म् । अध॑ । महः॑ । दि॒वि । क्ष॒मा । च॒ । म॒न्म॒हे॒ ॥

    ते । स्यन्द्रासः । न । उक्षणः । अति । स्कन्दन्ति । शर्वरीः ।
    मरुताम् । अध । महः । दिवि । क्षमा । च । मन्महे ॥

    té ǀ syandrā́saḥ ǀ ná ǀ ukṣáṇaḥ ǀ áti ǀ skandanti ǀ śárvarīḥ ǀ
    marútām ǀ ádha ǀ máhaḥ ǀ diví ǀ kṣamā́ ǀ ca ǀ manmahe ǁ

    te ǀ syandrāsaḥ ǀ na ǀ ukṣaṇaḥ ǀ ati ǀ skandanti ǀ śarvarīḥ ǀ
    marutām ǀ adha ǀ mahaḥ ǀ divi ǀ kṣamā ǀ ca ǀ manmahe ǁ

    5.52.3 Aṣṭaka 4.3.8.3Anuvāka 5.4.59

  4. Ṛk 4

    म॒रुत्सु॑ वो दधीमहि॒ स्तोमं॑ य॒ज्ञं च॑ धृष्णु॒या ।
    विश्वे॒ ये मानु॑षा यु॒गा पांति॒ मर्त्यं॑ रि॒षः ॥

    मरुत्सु वो दधीमहि स्तोमं यज्ञं च धृष्णुया |
    विश्वे ये मानुषा युगा पान्ति मर्त्यं रिषः ||

    marútsu vo dadhīmahi stómam yajñám ca dhṛṣṇuyā́ ǀ
    víśve yé mā́nuṣā yugā́ pā́nti mártyam riṣáḥ ǁ

    marutsu vo dadhīmahi stomaṃ yajñaṃ ca dhṛṣṇuyā |
    viśve ye mānuṣā yugā pānti martyaṃ riṣaḥ ||

    म॒रुत्ऽसु॑ । वः॒ । द॒धी॒म॒हि॒ । स्तोम॑म् । य॒ज्ञम् । च॒ । धृ॒ष्णु॒ऽया ।
    विश्वे॑ । ये । मानु॑षा । यु॒गा । पान्ति॑ । मर्त्य॑म् । रि॒षः ॥

    मरुत्ऽसु । वः । दधीमहि । स्तोमम् । यज्ञम् । च । धृष्णुऽया ।
    विश्वे । ये । मानुषा । युगा । पान्ति । मर्त्यम् । रिषः ॥

    marút-su ǀ vaḥ ǀ dadhīmahi ǀ stómam ǀ yajñám ǀ ca ǀ dhṛṣṇu-yā́ ǀ
    víśve ǀ yé ǀ mā́nuṣā ǀ yugā́ ǀ pā́nti ǀ mártyam ǀ riṣáḥ ǁ

    marut-su ǀ vaḥ ǀ dadhīmahi ǀ stomam ǀ yajñam ǀ ca ǀ dhṛṣṇu-yā ǀ
    viśve ǀ ye ǀ mānuṣā ǀ yugā ǀ pānti ǀ martyam ǀ riṣaḥ ǁ

    5.52.4 Aṣṭaka 4.3.8.4Anuvāka 5.4.60

  5. Ṛk 5

    अर्हं॑तो॒ ये सु॒दान॑वो॒ नरो॒ असा॑मिशवसः ।
    प्र य॒ज्ञं य॒ज्ञिये॑भ्यो दि॒वो अ॑र्चा म॒रुद्भ्यः॑ ॥

    अर्हन्तो ये सुदानवो नरो असामिशवसः |
    प्र यज्ञं यज्ञियेभ्यो दिवो अर्चा मरुद्भ्यः ||

    árhanto yé sudā́navo náro ásāmiśavasaḥ ǀ
    prá yajñám yajñíyebhyo divó arcā marúdbhyaḥ ǁ

    arhanto ye sudānavo naro asāmiśavasaḥ |
    pra yajñaṃ yajñiyebhyo divo arcā marudbhyaḥ ||

    अर्ह॑न्तः । ये । सु॒ऽदान॑वः । नरः॑ । असा॑मिऽशवसः ।
    प्र । य॒ज्ञम् । य॒ज्ञिये॑भ्यः । दि॒वः । अ॒र्च॒ । म॒रुत्ऽभ्यः॑ ॥

    अर्हन्तः । ये । सुऽदानवः । नरः । असामिऽशवसः ।
    प्र । यज्ञम् । यज्ञियेभ्यः । दिवः । अर्च । मरुत्ऽभ्यः ॥

    árhantaḥ ǀ yé ǀ su-dā́navaḥ ǀ náraḥ ǀ ásāmi-śavasaḥ ǀ
    prá ǀ yajñám ǀ yajñíyebhyaḥ ǀ diváḥ ǀ arca ǀ marút-bhyaḥ ǁ

    arhantaḥ ǀ ye ǀ su-dānavaḥ ǀ naraḥ ǀ asāmi-śavasaḥ ǀ
    pra ǀ yajñam ǀ yajñiyebhyaḥ ǀ divaḥ ǀ arca ǀ marut-bhyaḥ ǁ

    5.52.5 Aṣṭaka 4.3.8.5Anuvāka 5.4.61

  6. Ṛk 6

    आ रु॒क्मैरा यु॒धा नर॑ ऋ॒ष्वा ऋ॒ष्टीर॑सृक्षत ।
    अन्वे॑नाँ॒ अह॑ वि॒द्युतो॑ म॒रुतो॒ जझ्झ॑तीरिव भा॒नुर॑र्त॒ त्मना॑ दि॒वः ॥

    आ रुक्मैर् आ युधा नर ऋष्वा ऋष्टीर् असृक्षत |
    अन्व् एनां अह विद्युतो मरुतो जज्झतीर् इव भानुर् अर्त त्मना दिवः ||

    ā́ rukmáirā́ yudhā́ nára ṛṣvā́ ṛṣṭī́rasṛkṣata ǀ
    ánvenām̐ áha vidyúto marúto jájhjhatīriva bhānúrarta tmánā diváḥ ǁ

    ā rukmair ā yudhā nara ṛṣvā ṛṣṭīr asṛkṣata |
    anv enāṃ aha vidyuto maruto jajjhatīr iva bhānur arta tmanā divaḥ ||

    आ । रु॒क्मैः । आ । यु॒धा । नरः॑ । ऋ॒ष्वाः । ऋ॒ष्टीः । अ॒सृ॒क्ष॒त॒ ।
    अनु॑ । ए॒ना॒न् । अह॑ । वि॒ऽद्युतः॑ । म॒रुतः॑ । जझ्झ॑तीःऽइव । भा॒नुः । अ॒र्त॒ । त्मना॑ । दि॒वः ॥

    आ । रुक्मैः । आ । युधा । नरः । ऋष्वाः । ऋष्टीः । असृक्षत ।
    अनु । एनान् । अह । विऽद्युतः । मरुतः । जझ्झतीःऽइव । भानुः । अर्त । त्मना । दिवः ॥

    ā́ ǀ rukmáiḥ ǀ ā́ ǀ yudhā́ ǀ náraḥ ǀ ṛṣvā́ḥ ǀ ṛṣṭī́ḥ ǀ asṛkṣata ǀ
    ánu ǀ enān ǀ áha ǀ vi-dyútaḥ ǀ marútaḥ ǀ jájhjhatīḥ-iva ǀ bhānúḥ ǀ arta ǀ tmánā ǀ diváḥ ǁ

    ā ǀ rukmaiḥ ǀ ā ǀ yudhā ǀ naraḥ ǀ ṛṣvāḥ ǀ ṛṣṭīḥ ǀ asṛkṣata ǀ
    anu ǀ enān ǀ aha ǀ vi-dyutaḥ ǀ marutaḥ ǀ jajhjhatīḥ-iva ǀ bhānuḥ ǀ arta ǀ tmanā ǀ divaḥ ǁ

    5.52.6 Aṣṭaka 4.3.9.1Anuvāka 5.4.62

  7. Ṛk 7

    ये वा॑वृ॒धंत॒ पार्थि॑वा॒ य उ॒रावं॒तरि॑क्ष॒ आ ।
    वृ॒जने॑ वा न॒दीनां॑ स॒धस्थे॑ वा म॒हो दि॒वः ॥

    ये वावृधन्त पार्थिवा य उराव् अन्तरिक्ष आ |
    वृजने वा नदीनां सधस्थे वा महो दिवः ||

    yé vāvṛdhánta pā́rthivā yá urā́vantárikṣa ā́ ǀ
    vṛjáne vā nadī́nām sadhásthe vā mahó diváḥ ǁ

    ye vāvṛdhanta pārthivā ya urāv antarikṣa ā |
    vṛjane vā nadīnāṃ sadhasthe vā maho divaḥ ||

    ये । व॒वृ॒धन्त॑ । पार्थि॑वाः । ये । उ॒रौ । अ॒न्तरि॑क्षे । आ ।
    वृ॒जने॑ । वा॒ । न॒दीना॑म् । स॒धऽस्थे॑ । वा॒ । म॒हः । दि॒वः ॥

    ये । ववृधन्त । पार्थिवाः । ये । उरौ । अन्तरिक्षे । आ ।
    वृजने । वा । नदीनाम् । सधऽस्थे । वा । महः । दिवः ॥

    yé ǀ vavṛdhánta ǀ pā́rthivāḥ ǀ yé ǀ uráu ǀ antárikṣe ǀ ā́ ǀ
    vṛjáne ǀ vā ǀ nadī́nām ǀ sadhá-sthe ǀ vā ǀ maháḥ ǀ diváḥ ǁ

    ye ǀ vavṛdhanta ǀ pārthivāḥ ǀ ye ǀ urau ǀ antarikṣe ǀ ā ǀ
    vṛjane ǀ vā ǀ nadīnām ǀ sadha-sthe ǀ vā ǀ mahaḥ ǀ divaḥ ǁ

    5.52.7 Aṣṭaka 4.3.9.2Anuvāka 5.4.63

  8. Ṛk 8

    शर्धो॒ मारु॑त॒मुच्छं॑स स॒त्यश॑वस॒मृभ्व॑सं ।
    उ॒त स्म॒ ते शु॒भे नरः॒ प्र स्यं॒द्रा यु॑जत॒ त्मना॑ ॥

    शर्धो मारुतम् उच् छंस सत्यशवसम् ऋभ्वसम् |
    उत स्म ते शुभे नरः प्र स्यन्द्रा युजत त्मना ||

    śárdho mā́rutamúcchaṃsa satyáśavasamṛ́bhvasam ǀ
    utá sma té śubhé náraḥ prá syandrā́ yujata tmánā ǁ

    śardho mārutam uc chaṃsa satyaśavasam ṛbhvasam |
    uta sma te śubhe naraḥ pra syandrā yujata tmanā ||

    शर्धः॑ । मारु॑तम् । उत् । शं॒स॒ । स॒त्यऽश॑वसम् । ऋभ्व॑सम् ।
    उ॒त । स्म॒ । ते । शु॒भे । नरः॑ । प्र । स्य॒न्द्राः । यु॒ज॒त॒ । त्मना॑ ॥

    शर्धः । मारुतम् । उत् । शंस । सत्यऽशवसम् । ऋभ्वसम् ।
    उत । स्म । ते । शुभे । नरः । प्र । स्यन्द्राः । युजत । त्मना ॥

    śárdhaḥ ǀ mā́rutam ǀ út ǀ śaṃsa ǀ satyá-śavasam ǀ ṛ́bhvasam ǀ
    utá ǀ sma ǀ té ǀ śubhé ǀ náraḥ ǀ prá ǀ syandrā́ḥ ǀ yujata ǀ tmánā ǁ

    śardhaḥ ǀ mārutam ǀ ut ǀ śaṃsa ǀ satya-śavasam ǀ ṛbhvasam ǀ
    uta ǀ sma ǀ te ǀ śubhe ǀ naraḥ ǀ pra ǀ syandrāḥ ǀ yujata ǀ tmanā ǁ

    5.52.8 Aṣṭaka 4.3.9.3Anuvāka 5.4.64

  9. Ṛk 9

    उ॒त स्म॒ ते परु॑ष्ण्या॒मूर्णा॑ वसत शुं॒ध्यवः॑ ।
    उ॒त प॒व्या रथा॑ना॒मद्रिं॑ भिंदं॒त्योज॑सा ॥

    उत स्म ते परुष्ण्याम् ऊर्णा वसत शुन्ध्यवः |
    उत पव्या रथानाम् अद्रिम् भिन्दन्त्य् ओजसा ||

    utá sma té páruṣṇyāmū́rṇā vasata śundhyávaḥ ǀ
    utá pavyā́ ráthānāmádrim bhindantyójasā ǁ

    uta sma te paruṣṇyām ūrṇā vasata śundhyavaḥ |
    uta pavyā rathānām adrim bhindanty ojasā ||

    उ॒त । स्म॒ । ते । परु॑ष्ण्याम् । ऊर्णाः॑ । व॒स॒त॒ । शु॒न्ध्यवः॑ ।
    उ॒त । प॒व्या । रथा॑नाम् । अद्रि॑म् । भि॒न्द॒न्ति॒ । ओज॑सा ॥

    उत । स्म । ते । परुष्ण्याम् । ऊर्णाः । वसत । शुन्ध्यवः ।
    उत । पव्या । रथानाम् । अद्रिम् । भिन्दन्ति । ओजसा ॥

    utá ǀ sma ǀ té ǀ páruṣṇyām ǀ ū́rṇāḥ ǀ vasata ǀ śundhyávaḥ ǀ
    utá ǀ pavyā́ ǀ ráthānām ǀ ádrim ǀ bhindanti ǀ ójasā ǁ

    uta ǀ sma ǀ te ǀ paruṣṇyām ǀ ūrṇāḥ ǀ vasata ǀ śundhyavaḥ ǀ
    uta ǀ pavyā ǀ rathānām ǀ adrim ǀ bhindanti ǀ ojasā ǁ

    5.52.9 Aṣṭaka 4.3.9.4Anuvāka 5.4.65

  10. Ṛk 10

    आप॑थयो॒ विप॑थ॒योऽंत॑स्पथा॒ अनु॑पथाः ।
    ए॒तेभि॒र्मह्यं॒ नाम॑भिर्य॒ज्ञं वि॑ष्टा॒र ओ॑हते ॥

    आपथयो विपथयो ऽन्तस्पथा अनुपथाः |
    एतेभिर् मह्यं नामभिर् यज्ञं विष्टार ओहते ||

    ā́pathayo vípathayó’ntaspathā ánupathāḥ ǀ
    etébhirmáhyam nā́mabhiryajñám viṣṭārá ohate ǁ

    āpathayo vipathayo 'ntaspathā anupathāḥ |
    etebhir mahyaṃ nāmabhir yajñaṃ viṣṭāra ohate ||

    आप॑थयः । विऽप॑थयः । अन्तः॑ऽपथाः । अनु॑ऽपथाः ।
    ए॒तेभिः॑ । मह्य॑म् । नाम॑ऽभिः । य॒ज्ञम् । वि॒ऽस्ता॒रः । ओ॒ह॒ते॒ ॥

    आपथयः । विऽपथयः । अन्तःऽपथाः । अनुऽपथाः ।
    एतेभिः । मह्यम् । नामऽभिः । यज्ञम् । विऽस्तारः । ओहते ॥

    ā́pathayaḥ ǀ ví-pathayaḥ ǀ ántaḥ-pathāḥ ǀ ánu-pathāḥ ǀ
    etébhiḥ ǀ máhyam ǀ nā́ma-bhiḥ ǀ yajñám ǀ vi-stāráḥ ǀ ohate ǁ

    āpathayaḥ ǀ vi-pathayaḥ ǀ antaḥ-pathāḥ ǀ anu-pathāḥ ǀ
    etebhiḥ ǀ mahyam ǀ nāma-bhiḥ ǀ yajñam ǀ vi-stāraḥ ǀ ohate ǁ

    5.52.10 Aṣṭaka 4.3.9.5Anuvāka 5.4.66

  11. Ṛk 11

    अधा॒ नरो॒ न्यो॑ह॒तेऽधा॑ नि॒युत॑ ओहते ।
    अधा॒ पारा॑वता॒ इति॑ चि॒त्रा रू॒पाणि॒ दर्श्या॑ ॥

    अधा नरो न्य् ओहते ऽधा नियुत ओहते |
    अधा पारावता इति चित्रा रूपाणि दर्श्या ||

    ádhā náro nyóhaté’dhā niyúta ohate ǀ
    ádhā pā́rāvatā íti citrā́ rūpā́ṇi dárśyā ǁ

    adhā naro ny ohate 'dhā niyuta ohate |
    adhā pārāvatā iti citrā rūpāṇi darśyā ||

    अध॑ । नरः॑ । नि । ओ॒ह॒ते॒ । अध॑ । नि॒ऽयुतः॑ । ओ॒ह॒ते॒ ।
    अध॑ । पारा॑वताः । इति॑ । चि॒त्रा । रू॒पाणि॑ । दर्श्या॑ ॥

    अध । नरः । नि । ओहते । अध । निऽयुतः । ओहते ।
    अध । पारावताः । इति । चित्रा । रूपाणि । दर्श्या ॥

    ádha ǀ náraḥ ǀ ní ǀ ohate ǀ ádha ǀ ni-yútaḥ ǀ ohate ǀ
    ádha ǀ pā́rāvatāḥ ǀ íti ǀ citrā́ ǀ rūpā́ṇi ǀ dárśyā ǁ

    adha ǀ naraḥ ǀ ni ǀ ohate ǀ adha ǀ ni-yutaḥ ǀ ohate ǀ
    adha ǀ pārāvatāḥ ǀ iti ǀ citrā ǀ rūpāṇi ǀ darśyā ǁ

    5.52.11 Aṣṭaka 4.3.10.1Anuvāka 5.4.67

  12. Ṛk 12

    छं॒दः॒स्तुभः॑ कुभ॒न्यव॒ उत्स॒मा की॒रिणो॑ नृतुः ।
    ते मे॒ के चि॒न्न ता॒यव॒ ऊमा॑ आसंदृ॒शि त्वि॒षे ॥

    छन्दस्तुभः कुभन्यव उत्सम् आ कीरिणो नृतुः |
    ते मे के चिन् न तायव ऊमा आसन् दृशि त्विषे ||

    chandaḥstúbhaḥ kubhanyáva útsamā́ kīríṇo nṛtuḥ ǀ
    té me ké cinná tāyáva ū́mā āsandṛśí tviṣé ǁ

    chandastubhaḥ kubhanyava utsam ā kīriṇo nṛtuḥ |
    te me ke cin na tāyava ūmā āsan dṛśi tviṣe ||

    छ॒न्दः॒ऽस्तुभः॑ । कु॒भ॒न्यवः॑ । उत्स॑म् । आ । की॒रिणः॑ । नृ॒तुः॒ ।
    ते । मे॒ । के । चि॒त् । न । ता॒यवः॑ । ऊमाः॑ । आ॒स॒न् । दृ॒शि । त्वि॒षे ॥

    छन्दःऽस्तुभः । कुभन्यवः । उत्सम् । आ । कीरिणः । नृतुः ।
    ते । मे । के । चित् । न । तायवः । ऊमाः । आसन् । दृशि । त्विषे ॥

    chandaḥ-stúbhaḥ ǀ kubhanyávaḥ ǀ útsam ǀ ā́ ǀ kīríṇaḥ ǀ nṛtuḥ ǀ
    té ǀ me ǀ ké ǀ cit ǀ ná ǀ tāyávaḥ ǀ ū́māḥ ǀ āsan ǀ dṛśí ǀ tviṣé ǁ

    chandaḥ-stubhaḥ ǀ kubhanyavaḥ ǀ utsam ǀ ā ǀ kīriṇaḥ ǀ nṛtuḥ ǀ
    te ǀ me ǀ ke ǀ cit ǀ na ǀ tāyavaḥ ǀ ūmāḥ ǀ āsan ǀ dṛśi ǀ tviṣe ǁ

    5.52.12 Aṣṭaka 4.3.10.2Anuvāka 5.4.68

  13. Ṛk 13

    य ऋ॒ष्वा ऋ॒ष्टिवि॑द्युतः क॒वयः॒ संति॑ वे॒धसः॑ ।
    तमृ॑षे॒ मारु॑तं ग॒णं न॑म॒स्या र॒मया॑ गि॒रा ॥

    य ऋष्वा ऋष्टिविद्युतः कवयः सन्ति वेधसः |
    तम् ऋषे मारुतं गणं नमस्या रमया गिरा ||

    yá ṛṣvā́ ṛṣṭívidyutaḥ kaváyaḥ sánti vedhásaḥ ǀ
    támṛṣe mā́rutam gaṇám namasyā́ ramáyā girā́ ǁ

    ya ṛṣvā ṛṣṭividyutaḥ kavayaḥ santi vedhasaḥ |
    tam ṛṣe mārutaṃ gaṇaṃ namasyā ramayā girā ||

    यः । ऋ॒ष्वाः । ऋ॒ष्टिऽवि॑द्युतः । क॒वयः॑ । सन्ति॑ । वे॒धसः॑ ।
    तम् । ऋ॒षे॒ । मारु॑तम् । ग॒णम् । न॒म॒स्य । र॒मय॑ । गि॒रा ॥

    यः । ऋष्वाः । ऋष्टिऽविद्युतः । कवयः । सन्ति । वेधसः ।
    तम् । ऋषे । मारुतम् । गणम् । नमस्य । रमय । गिरा ॥

    yáḥ ǀ ṛṣvā́ḥ ǀ ṛṣṭí-vidyutaḥ ǀ kaváyaḥ ǀ sánti ǀ vedhásaḥ ǀ
    tám ǀ ṛṣe ǀ mā́rutam ǀ gaṇám ǀ namasyá ǀ ramáya ǀ girā́ ǁ

    yaḥ ǀ ṛṣvāḥ ǀ ṛṣṭi-vidyutaḥ ǀ kavayaḥ ǀ santi ǀ vedhasaḥ ǀ
    tam ǀ ṛṣe ǀ mārutam ǀ gaṇam ǀ namasya ǀ ramaya ǀ girā ǁ

    5.52.13 Aṣṭaka 4.3.10.3Anuvāka 5.4.69

  14. Ṛk 14

    अच्छ॑ ऋषे॒ मारु॑तं ग॒णं दा॒ना मि॒त्रं न यो॒षणा॑ ।
    दि॒वो वा॑ धृष्णव॒ ओज॑सा स्तु॒ता धी॒भिरि॑षण्यत ॥

    अच्छ ऋषे मारुतं गणं दाना मित्रं न योषणा |
    दिवो वा धृष्णव ओजसा स्तुता धीभिर् इषण्यत ||

    áccha ṛṣe mā́rutam gaṇám dānā́ mitrám ná yoṣáṇā ǀ
    divó vā dhṛṣṇava ójasā stutā́ dhībhíriṣaṇyata ǁ

    accha ṛṣe mārutaṃ gaṇaṃ dānā mitraṃ na yoṣaṇā |
    divo vā dhṛṣṇava ojasā stutā dhībhir iṣaṇyata ||

    अच्छ॑ । ऋ॒षे॒ । मारु॑तम् । ग॒णम् । दा॒ना । मि॒त्रम् । न । यो॒षणा॑ ।
    दि॒वः । वा॒ । धृ॒ष्ण॒वः॒ । ओज॑सा । स्तु॒ताः । धी॒भिः । इ॒ष॒ण्य॒त॒ ॥

    अच्छ । ऋषे । मारुतम् । गणम् । दाना । मित्रम् । न । योषणा ।
    दिवः । वा । धृष्णवः । ओजसा । स्तुताः । धीभिः । इषण्यत ॥

    áccha ǀ ṛṣe ǀ mā́rutam ǀ gaṇám ǀ dānā́ ǀ mitrám ǀ ná ǀ yoṣáṇā ǀ
    diváḥ ǀ vā ǀ dhṛṣṇavaḥ ǀ ójasā ǀ stutā́ḥ ǀ dhībhíḥ ǀ iṣaṇyata ǁ

    accha ǀ ṛṣe ǀ mārutam ǀ gaṇam ǀ dānā ǀ mitram ǀ na ǀ yoṣaṇā ǀ
    divaḥ ǀ vā ǀ dhṛṣṇavaḥ ǀ ojasā ǀ stutāḥ ǀ dhībhiḥ ǀ iṣaṇyata ǁ

    5.52.14 Aṣṭaka 4.3.10.4Anuvāka 5.4.70

  15. Ṛk 15

    नू म॑न्वा॒न ए॑षां दे॒वाँ अच्छा॒ न व॒क्षणा॑ ।
    दा॒ना स॑चेत सू॒रिभि॒र्याम॑श्रुतेभिरं॒जिभिः॑ ॥

    नू मन्वान एषां देवां अच्छा न वक्षणा |
    दाना सचेत सूरिभिर् यामश्रुतेभिर् अञ्जिभिः ||

    nū́ manvāná eṣām devā́m̐ ácchā ná vakṣáṇā ǀ
    dānā́ saceta sūríbhiryā́maśrutebhirañjíbhiḥ ǁ

    nū manvāna eṣāṃ devāṃ acchā na vakṣaṇā |
    dānā saceta sūribhir yāmaśrutebhir añjibhiḥ ||

    नु । म॒न्वा॒नः । ए॒षा॒म् । दे॒वान् । अच्छ॑ । न । व॒क्षणा॑ ।
    दा॒ना । स॒चे॒त॒ । सू॒रिऽभिः॑ । याम॑ऽश्रुतेभिः । अ॒ञ्जिऽभिः॑ ॥

    नु । मन्वानः । एषाम् । देवान् । अच्छ । न । वक्षणा ।
    दाना । सचेत । सूरिऽभिः । यामऽश्रुतेभिः । अञ्जिऽभिः ॥

    nú ǀ manvānáḥ ǀ eṣām ǀ devā́n ǀ áccha ǀ ná ǀ vakṣáṇā ǀ
    dānā́ ǀ saceta ǀ sūrí-bhiḥ ǀ yā́ma-śrutebhiḥ ǀ añjí-bhiḥ ǁ

    nu ǀ manvānaḥ ǀ eṣām ǀ devān ǀ accha ǀ na ǀ vakṣaṇā ǀ
    dānā ǀ saceta ǀ sūri-bhiḥ ǀ yāma-śrutebhiḥ ǀ añji-bhiḥ ǁ

    5.52.15 Aṣṭaka 4.3.10.5Anuvāka 5.4.71

  16. Ṛk 16

    प्र ये मे॑ बंध्वे॒षे गां वोचं॑त सू॒रयः॒ पृश्निं॑ वोचंत मा॒तरं॑ ।
    अधा॑ पि॒तर॑मि॒ष्मिणं॑ रु॒द्रं वो॑चंत॒ शिक्व॑सः ॥

    प्र ये मे बन्ध्वेषे गां वोचन्त सूरयः पृश्निं वोचन्त मातरम् |
    अधा पितरम् इष्मिणं रुद्रं वोचन्त शिक्वसः ||

    prá yé me bandhveṣé gā́m vócanta sūráyaḥ pṛ́śnim vocanta mātáram ǀ
    ádhā pitáramiṣmíṇam rudrám vocanta śíkvasaḥ ǁ

    pra ye me bandhveṣe gāṃ vocanta sūrayaḥ pṛśniṃ vocanta mātaram |
    adhā pitaram iṣmiṇaṃ rudraṃ vocanta śikvasaḥ ||

    प्र । ये । मे॒ । ब॒न्धु॒ऽए॒षे । गाम् । वोच॑न्त । सू॒रयः॑ । पृश्नि॑म् । वो॒च॒न्त॒ । मा॒तर॑म् ।
    अध॑ । पि॒तर॑म् । इ॒ष्मिण॑म् । रु॒द्रम् । वो॒च॒न्त॒ । शिक्व॑सः ॥

    प्र । ये । मे । बन्धुऽएषे । गाम् । वोचन्त । सूरयः । पृश्निम् । वोचन्त । मातरम् ।
    अध । पितरम् । इष्मिणम् । रुद्रम् । वोचन्त । शिक्वसः ॥

    prá ǀ yé ǀ me ǀ bandhu-eṣé ǀ gā́m ǀ vócanta ǀ sūráyaḥ ǀ pṛ́śnim ǀ vocanta ǀ mātáram ǀ
    ádha ǀ pitáram ǀ iṣmíṇam ǀ rudrám ǀ vocanta ǀ śíkvasaḥ ǁ

    pra ǀ ye ǀ me ǀ bandhu-eṣe ǀ gām ǀ vocanta ǀ sūrayaḥ ǀ pṛśnim ǀ vocanta ǀ mātaram ǀ
    adha ǀ pitaram ǀ iṣmiṇam ǀ rudram ǀ vocanta ǀ śikvasaḥ ǁ

    5.52.16 Aṣṭaka 4.3.10.6Anuvāka 5.4.72

  17. Ṛk 17

    स॒प्त मे॑ स॒प्त शा॒किन॒ एक॑मेका श॒ता द॑दुः ।
    य॒मुना॑या॒मधि॑ श्रु॒तमुद्राधो॒ गव्यं॑ मृजे॒ नि राधो॒ अश्व्यं॑ मृजे ॥

    सप्त मे सप्त शाकिन एकम्-एका शता ददुः |
    यमुनायाम् अधि श्रुतम् उद् राधो गव्यम् मृजे नि राधो अश्व्यम् मृजे ||

    saptá me saptá śākína ékamekā śatā́ daduḥ ǀ
    yamúnāyāmádhi śrutámúdrā́dho gávyam mṛje ní rā́dho áśvyam mṛje ǁ

    sapta me sapta śākina ekam-ekā śatā daduḥ |
    yamunāyām adhi śrutam ud rādho gavyam mṛje ni rādho aśvyam mṛje ||

    स॒प्त । मे॒ । स॒प्त । शा॒किनः॑ । एक॑म्ऽएका । श॒ता । द॒दुः॒ ।
    य॒मुना॑याम् । अधि॑ । श्रु॒तम् । उत् । राधः॑ । गव्य॑म् । मृ॒जे॒ । नि । राधः॑ । अश्व्य॑म् । मृ॒जे॒ ॥

    सप्त । मे । सप्त । शाकिनः । एकम्ऽएका । शता । ददुः ।
    यमुनायाम् । अधि । श्रुतम् । उत् । राधः । गव्यम् । मृजे । नि । राधः । अश्व्यम् । मृजे ॥

    saptá ǀ me ǀ saptá ǀ śākínaḥ ǀ ékam-ekā ǀ śatā́ ǀ daduḥ ǀ
    yamúnāyām ǀ ádhi ǀ śrutám ǀ út ǀ rā́dhaḥ ǀ gávyam ǀ mṛje ǀ ní ǀ rā́dhaḥ ǀ áśvyam ǀ mṛje ǁ

    sapta ǀ me ǀ sapta ǀ śākinaḥ ǀ ekam-ekā ǀ śatā ǀ daduḥ ǀ
    yamunāyām ǀ adhi ǀ śrutam ǀ ut ǀ rādhaḥ ǀ gavyam ǀ mṛje ǀ ni ǀ rādhaḥ ǀ aśvyam ǀ mṛje ǁ

    5.52.17 Aṣṭaka 4.3.10.7Anuvāka 5.4.73

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 5.52 · Maruts

Interpretations

Sri Aurobindo

Ṛk 1

Forward! Shyavasva, violently on with thy illumined thought by the Thought-powers that sing to thee their sentences of light, gods of the sacrifice who have rapture of an inspiration that betrays them not, for it follows Nature’s self-forming force.

Ṛk 2

Violent are they, yet comrades of a firm gleaming Strength; full of boldness in their driving, but linked each to each they protect by their self-truth thy march.

Ṛk 3

Swift-charging bulls of the diffusion, they leap beyond our Nights; then in their heaven as on our containing earth we mentalise the vast expansion of the Thought-gods.

Ṛk 4

In the Thought-gods we establish by their bold violence affirmation and sacrifice and they protect throughout our human epochs our mortality from the Enemy’s harms.

Ṛk 5

They are soul-strengths that become adept in us for the conquest, perfect in force of achievement, no half-strengths of the light; forward through heaven illumine the sacrifice with thy verse for the thought-powers, gods of the sacrifice.

Ṛk 6

By their golden gleamings, by their battling these soul strengths move towards knowledge and cast out their searching spears; yea, the lightnings leap at the will of the Thought-gods,—then of itself the Light of the Sun arises in our heaven.

Ṛk 7

They increase the mights of our clay in the wide intervening spaces and in the energy of the rivers of Truth and in their place in the vast heaven.

Ṛk 8

Express upward the force of the thought-gods who have the luminous power of the truth and skill to shape it; then of themselves these strengths of the soul are self-yoked and they charge in our forward march towards the light and bliss.

Ṛk 9

Both in the streams of its wide-flowing flood they purify themselves and garb themselves with its densities and here with the wheel of their chariots they break open the material hill.

Ṛk 10

With paths that come home to us and paths that radiate out wide from us and paths within us and paths that follow our movement and by all these their Names extended they come galloping to my sacrifice.

Ṛk 11

With paths that come home to us and paths that radiate out wide from us and paths within us and paths that follow our movement and by all these their Names extended they come galloping to my sacrifice.

Ṛk 12

They maintain the rhythms, they thirst for the waters and, victorious in the work, they dance about the source. They are unseen extenders of my being, my increasers who were with me for a blazing force in the vision.

Ṛk 13

They are finders of knowledge and their lightnings are as spears that search; they are seers, they are creators of harmony; O sage, bow down to the banded Thought-gods and give them delight by thy speech.

Ṛk 14

O sage, approach the banded Thought-gods as one comes to a friend with the goddess who discerns and disparts as with the bride of thy love; then shall they in thy heavens, affirmed, aggressive in their energy, rush forward with thy thoughts.

Ṛk 15

If a man mentalises these, towards the godheads by the Thought that bears, then by the Thought that discerns and disparts he shall be joined to them in their light of knowledge, in their inspiration of movement, in their gleamingsout.

Ṛk 16

That I might seek the divine Friend, they illumined, declared to me first their many-hued Mother,1 yea, they declared the bright Mother of the herds; then their Father who gives us his impulsions they declared, the Terrible One2 (they who are his mights).

Ṛk 17

Seven by seven in their power, each seven his complete hundred gave to me; in the waters of Yamuna I cleanse my wealth and inspiration of her shining herds, I purify my glad wealth of his steeds.