Ṛk 5.52.3
Saṃhitā
ते स्यं॒द्रासो॒ नोक्षणोऽति॑ ष्कंदंति॒ शर्व॑रीः ।
म॒रुता॒मधा॒ महो॑ दि॒वि क्ष॒मा च॑ मन्महे ॥
ते स्यन्द्रासो नोक्षणो ऽति ष्कन्दन्ति शर्वरीः |
मरुताम् अधा महो दिवि क्षमा च मन्महे ||
té syandrā́so nókṣáṇó’ti ṣkandanti śárvarīḥ ǀ
marútāmádhā máho diví kṣamā́ ca manmahe ǁ
te syandrāso nokṣaṇo 'ti ṣkandanti śarvarīḥ |
marutām adhā maho divi kṣamā ca manmahe ||
Padapāṭha
ते । स्य॒न्द्रासः॑ । न । उ॒क्षणः॑ । अति॑ । स्क॒न्द॒न्ति॒ । शर्व॑रीः ।
म॒रुता॑म् । अध॑ । महः॑ । दि॒वि । क्ष॒मा । च॒ । म॒न्म॒हे॒ ॥
ते । स्यन्द्रासः । न । उक्षणः । अति । स्कन्दन्ति । शर्वरीः ।
मरुताम् । अध । महः । दिवि । क्षमा । च । मन्महे ॥
té ǀ syandrā́saḥ ǀ ná ǀ ukṣáṇaḥ ǀ áti ǀ skandanti ǀ śárvarīḥ ǀ
marútām ǀ ádha ǀ máhaḥ ǀ diví ǀ kṣamā́ ǀ ca ǀ manmahe ǁ
te ǀ syandrāsaḥ ǀ na ǀ ukṣaṇaḥ ǀ ati ǀ skandanti ǀ śarvarīḥ ǀ
marutām ǀ adha ǀ mahaḥ ǀ divi ǀ kṣamā ǀ ca ǀ manmahe ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 05.052.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.3.08.03
- Maṇḍala · Anuvāka · Ṛk
- 05.04.059
- Devatā देवता
- Maruts
- Ṛṣi ऋषि
- Śyāvāśva Ātreya
- Chandas छन्दस्
- Anuṣṭubh, Paṅkti
- Svara स्वरः
- गान्धारः
Text and interpretations from the Ṛgveda database of theveda.org.in.