Ṛk 5.52.12
Saṃhitā
छं॒दः॒स्तुभः॑ कुभ॒न्यव॒ उत्स॒मा की॒रिणो॑ नृतुः ।
ते मे॒ के चि॒न्न ता॒यव॒ ऊमा॑ आसंदृ॒शि त्वि॒षे ॥
छन्दस्तुभः कुभन्यव उत्सम् आ कीरिणो नृतुः |
ते मे के चिन् न तायव ऊमा आसन् दृशि त्विषे ||
chandaḥstúbhaḥ kubhanyáva útsamā́ kīríṇo nṛtuḥ ǀ
té me ké cinná tāyáva ū́mā āsandṛśí tviṣé ǁ
chandastubhaḥ kubhanyava utsam ā kīriṇo nṛtuḥ |
te me ke cin na tāyava ūmā āsan dṛśi tviṣe ||
Padapāṭha
छ॒न्दः॒ऽस्तुभः॑ । कु॒भ॒न्यवः॑ । उत्स॑म् । आ । की॒रिणः॑ । नृ॒तुः॒ ।
ते । मे॒ । के । चि॒त् । न । ता॒यवः॑ । ऊमाः॑ । आ॒स॒न् । दृ॒शि । त्वि॒षे ॥
छन्दःऽस्तुभः । कुभन्यवः । उत्सम् । आ । कीरिणः । नृतुः ।
ते । मे । के । चित् । न । तायवः । ऊमाः । आसन् । दृशि । त्विषे ॥
chandaḥ-stúbhaḥ ǀ kubhanyávaḥ ǀ útsam ǀ ā́ ǀ kīríṇaḥ ǀ nṛtuḥ ǀ
té ǀ me ǀ ké ǀ cit ǀ ná ǀ tāyávaḥ ǀ ū́māḥ ǀ āsan ǀ dṛśí ǀ tviṣé ǁ
chandaḥ-stubhaḥ ǀ kubhanyavaḥ ǀ utsam ǀ ā ǀ kīriṇaḥ ǀ nṛtuḥ ǀ
te ǀ me ǀ ke ǀ cit ǀ na ǀ tāyavaḥ ǀ ūmāḥ ǀ āsan ǀ dṛśi ǀ tviṣe ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 05.052.12
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.3.10.02
- Maṇḍala · Anuvāka · Ṛk
- 05.04.068
- Devatā देवता
- Maruts
- Ṛṣi ऋषि
- Śyāvāśva Ātreya
- Chandas छन्दस्
- Anuṣṭubh, Paṅkti
- Svara स्वरः
- गान्धारः
Text and interpretations from the Ṛgveda database of theveda.org.in.