Sūkta 64
- Devatā देवता
- Mitra, Varuṇa
- Ṛṣi ऋषि
- Arcanānas Ātreya
- Chandas छन्दस्
- Anuṣṭubh, Paṅkti
Metres by ṛk
1st set of styles virāḍanuṣṭup (1, 2); bhuriguṣṇik (3, 5); uṣṇik (4); nicrṛdanuṣṭup (6); nicṛtpaṅkti (7)
2nd set of styles anuṣṭubh (1-6); paṅkti (7)
-
Ṛk 1
वरु॑णं वो रि॒शाद॑समृ॒चा मि॒त्रं ह॑वामहे ।
परि॑ व्र॒जेव॑ बा॒ह्वोर्ज॑ग॒न्वांसा॒ स्व॑र्णरं ॥वरुणं वो रिशादसम् ऋचा मित्रं हवामहे |
परि व्रजेव बाह्वोर् जगन्वांसा स्वर्णरम् ||váruṇam vo riśā́dasamṛcā́ mitrám havāmahe ǀ
pári vrajéva bāhvórjaganvā́ṃsā svárṇaram ǁvaruṇaṃ vo riśādasam ṛcā mitraṃ havāmahe |
pari vrajeva bāhvor jaganvāṃsā svarṇaram ||वरु॑णम् । वः॒ । रि॒शाद॑सम् । ऋ॒चा । मि॒त्रम् । ह॒वा॒म॒हे॒ ।
परि॑ । व्र॒जाऽइ॑व । बा॒ह्वोः । ज॒ग॒न्वांसा॑ । स्वः॑ऽनरम् ॥वरुणम् । वः । रिशादसम् । ऋचा । मित्रम् । हवामहे ।
परि । व्रजाऽइव । बाह्वोः । जगन्वांसा । स्वःऽनरम् ॥váruṇam ǀ vaḥ ǀ riśā́dasam ǀ ṛcā́ ǀ mitrám ǀ havāmahe ǀ
pári ǀ vrajā́-iva ǀ bāhvóḥ ǀ jaganvā́ṃsā ǀ sváḥ-naram ǁvaruṇam ǀ vaḥ ǀ riśādasam ǀ ṛcā ǀ mitram ǀ havāmahe ǀ
pari ǀ vrajā-iva ǀ bāhvoḥ ǀ jaganvāṃsā ǀ svaḥ-naram ǁ5.64.1 Aṣṭaka 4.4.2.1Anuvāka 5.5.68
-
Ṛk 2
ता बा॒हवा॑ सुचे॒तुना॒ प्र यं॑तमस्मा॒ अर्च॑ते ।
शेवं॒ हि जा॒र्यं॑ वां॒ विश्वा॑सु॒ क्षासु॒ जोगु॑वे ॥ता बाहवा सुचेतुना प्र यन्तम् अस्मा अर्चते |
शेवं हि जार्यं वां विश्वासु क्षासु जोगुवे ||tā́ bāhávā sucetúnā prá yantamasmā árcate ǀ
śévam hí jāryám vām víśvāsu kṣā́su jóguve ǁtā bāhavā sucetunā pra yantam asmā arcate |
śevaṃ hi jāryaṃ vāṃ viśvāsu kṣāsu joguve ||ता । बा॒हवा॑ । सु॒ऽचे॒तुना॑ । प्र । य॒न्त॒म् । अ॒स्मै॒ । अर्च॑ते ।
शेव॑म् । हि । जा॒र्य॑म् । वा॒म् । विश्वा॑सु । क्षासु॑ । जोगु॑वे ॥ता । बाहवा । सुऽचेतुना । प्र । यन्तम् । अस्मै । अर्चते ।
शेवम् । हि । जार्यम् । वाम् । विश्वासु । क्षासु । जोगुवे ॥tā́ ǀ bāhávā ǀ su-cetúnā ǀ prá ǀ yantam ǀ asmai ǀ árcate ǀ
śévam ǀ hí ǀ jāryám ǀ vām ǀ víśvāsu ǀ kṣā́su ǀ jóguve ǁtā ǀ bāhavā ǀ su-cetunā ǀ pra ǀ yantam ǀ asmai ǀ arcate ǀ
śevam ǀ hi ǀ jāryam ǀ vām ǀ viśvāsu ǀ kṣāsu ǀ joguve ǁ5.64.2 Aṣṭaka 4.4.2.2Anuvāka 5.5.69
-
Ṛk 3
यन्नू॒नम॒श्यां गतिं॑ मि॒त्रस्य॑ यायां प॒था ।
अस्य॑ प्रि॒यस्य॒ शर्म॒ण्यहिं॑सानस्य सश्चिरे ॥यन् नूनम् अश्यां गतिम् मित्रस्य यायाम् पथा |
अस्य प्रियस्य शर्मण्य् अहिंसानस्य सश्चिरे ||yánnūnámaśyā́m gátim mitrásya yāyām pathā́ ǀ
ásya priyásya śármaṇyáhiṃsānasya saścire ǁyan nūnam aśyāṃ gatim mitrasya yāyām pathā |
asya priyasya śarmaṇy ahiṃsānasya saścire ||यत् । नू॒नम् । अ॒श्याम् । गति॑म् । मि॒त्रस्य॑ । या॒या॒म् । प॒था ।
अस्य॑ । प्रि॒यस्य॑ । शर्म॑णि । अहिं॑सानस्य । स॒श्चि॒रे॒ ॥यत् । नूनम् । अश्याम् । गतिम् । मित्रस्य । यायाम् । पथा ।
अस्य । प्रियस्य । शर्मणि । अहिंसानस्य । सश्चिरे ॥yát ǀ nūnám ǀ aśyā́m ǀ gátim ǀ mitrásya ǀ yāyām ǀ pathā́ ǀ
ásya ǀ priyásya ǀ śármaṇi ǀ áhiṃsānasya ǀ saścire ǁyat ǀ nūnam ǀ aśyām ǀ gatim ǀ mitrasya ǀ yāyām ǀ pathā ǀ
asya ǀ priyasya ǀ śarmaṇi ǀ ahiṃsānasya ǀ saścire ǁ5.64.3 Aṣṭaka 4.4.2.3Anuvāka 5.5.70
-
Ṛk 4
यु॒वाभ्यां॑ मित्रावरुणोप॒मं धे॑यामृ॒चा ।
यद्ध॒ क्षये॑ म॒घोनां॑ स्तोतॄ॒णां च॑ स्पू॒र्धसे॑ ॥युवाभ्याम् मित्रावरुणोपमं धेयाम् ऋचा |
यद् ध क्षये मघोनां स्तोतॄणां च स्पूर्धसे ||yuvā́bhyām mitrāvaruṇopamám dheyāmṛcā́ ǀ
yáddha kṣáye maghónām stotṝṇā́m ca spūrdháse ǁyuvābhyām mitrāvaruṇopamaṃ dheyām ṛcā |
yad dha kṣaye maghonāṃ stotṝṇāṃ ca spūrdhase ||यु॒वाभ्या॑म् । मि॒त्रा॒व॒रु॒णा॒ । उ॒प॒ऽमम् । धे॒या॒म् । ऋ॒चा ।
यत् । ह॒ । क्षये॑ । म॒घोना॑म् । स्तो॒तॄ॒णाम् । च॒ । स्पू॒र्धसे॑ ॥युवाभ्याम् । मित्रावरुणा । उपऽमम् । धेयाम् । ऋचा ।
यत् । ह । क्षये । मघोनाम् । स्तोतॄणाम् । च । स्पूर्धसे ॥yuvā́bhyām ǀ mitrāvaruṇā ǀ upa-mám ǀ dheyām ǀ ṛcā́ ǀ
yát ǀ ha ǀ kṣáye ǀ maghónām ǀ stotṝṇā́m ǀ ca ǀ spūrdháse ǁyuvābhyām ǀ mitrāvaruṇā ǀ upa-mam ǀ dheyām ǀ ṛcā ǀ
yat ǀ ha ǀ kṣaye ǀ maghonām ǀ stotṝṇām ǀ ca ǀ spūrdhase ǁ5.64.4 Aṣṭaka 4.4.2.4Anuvāka 5.5.71
-
Ṛk 5
आ नो॑ मित्र सुदी॒तिभि॒र्वरु॑णश्च स॒धस्थ॒ आ ।
स्वे क्षये॑ म॒घोनां॒ सखी॑नां च वृ॒धसे॑ ॥आ नो मित्र सुदीतिभिर् वरुणश् च सधस्थ आ |
स्वे क्षये मघोनां सखीनां च वृधसे ||ā́ no mitra sudītíbhirváruṇaśca sadhástha ā́ ǀ
své kṣáye maghónām sákhīnām ca vṛdháse ǁā no mitra sudītibhir varuṇaś ca sadhastha ā |
sve kṣaye maghonāṃ sakhīnāṃ ca vṛdhase ||आ । नः॒ । मि॒त्र॒ । सु॒दी॒तिऽभिः॑ । वरु॑णः । च॒ । स॒धऽस्थे॑ । आ ।
स्वे । क्षये॑ । म॒घोना॑म् । सखी॑नाम् । च॒ । वृ॒धसे॑ ॥आ । नः । मित्र । सुदीतिऽभिः । वरुणः । च । सधऽस्थे । आ ।
स्वे । क्षये । मघोनाम् । सखीनाम् । च । वृधसे ॥ā́ ǀ naḥ ǀ mitra ǀ sudītí-bhiḥ ǀ váruṇaḥ ǀ ca ǀ sadhá-sthe ǀ ā́ ǀ
své ǀ kṣáye ǀ maghónām ǀ sákhīnām ǀ ca ǀ vṛdháse ǁā ǀ naḥ ǀ mitra ǀ sudīti-bhiḥ ǀ varuṇaḥ ǀ ca ǀ sadha-sthe ǀ ā ǀ
sve ǀ kṣaye ǀ maghonām ǀ sakhīnām ǀ ca ǀ vṛdhase ǁ5.64.5 Aṣṭaka 4.4.2.5Anuvāka 5.5.72
-
Ṛk 6
यु॒वं नो॒ येषु॑ वरुण क्ष॒त्रं बृ॒हच्च॑ बिभृ॒थः ।
उ॒रु णो॒ वाज॑सातये कृ॒तं रा॒ये स्व॒स्तये॑ ॥युवं नो येषु वरुण क्षत्रम् बृहच् च बिभृथः |
उरु णो वाजसातये कृतं राये स्वस्तये ||yuvám no yéṣu varuṇa kṣatrám bṛhácca bibhṛtháḥ ǀ
urú ṇo vā́jasātaye kṛtám rāyé svastáye ǁyuvaṃ no yeṣu varuṇa kṣatram bṛhac ca bibhṛthaḥ |
uru ṇo vājasātaye kṛtaṃ rāye svastaye ||यु॒वम् । नः॒ । येषु॑ । व॒रु॒णा॒ । क्ष॒त्रम् । बृ॒हत् । च॒ । बि॒भृ॒थः ।
उ॒रु । नः॒ । वाज॑ऽसातये । कृ॒तम् । रा॒ये । स्व॒स्तये॑ ॥युवम् । नः । येषु । वरुणा । क्षत्रम् । बृहत् । च । बिभृथः ।
उरु । नः । वाजऽसातये । कृतम् । राये । स्वस्तये ॥yuvám ǀ naḥ ǀ yéṣu ǀ varuṇā ǀ kṣatrám ǀ bṛhát ǀ ca ǀ bibhṛtháḥ ǀ
urú ǀ naḥ ǀ vā́ja-sātaye ǀ kṛtám ǀ rāyé ǀ svastáye ǁyuvam ǀ naḥ ǀ yeṣu ǀ varuṇā ǀ kṣatram ǀ bṛhat ǀ ca ǀ bibhṛthaḥ ǀ
uru ǀ naḥ ǀ vāja-sātaye ǀ kṛtam ǀ rāye ǀ svastaye ǁ5.64.6 Aṣṭaka 4.4.2.6Anuvāka 5.5.73
-
Ṛk 7
उ॒च्छंत्यां॑ मे यज॒ता दे॒वक्ष॑त्रे॒ रुश॑द्गवि ।
सु॒तं सोमं॒ न ह॒स्तिभि॒रा प॒ड्भिर्धा॑वतं नरा॒ बिभ्र॑तावर्च॒नान॑सं ॥उच्छन्त्याम् मे यजता देवक्षत्रे रुशद्गवि |
सुतं सोमं न हस्तिभिर् आ पड्भिर् धावतं नरा बिभ्रताव् अर्चनानसम् ||ucchántyām me yajatā́ devákṣatre rúśadgavi ǀ
sutám sómam ná hastíbhirā́ paḍbhírdhāvatam narā bíbhratāvarcanā́nasam ǁucchantyām me yajatā devakṣatre ruśadgavi |
sutaṃ somaṃ na hastibhir ā paḍbhir dhāvataṃ narā bibhratāv arcanānasam ||उ॒च्छन्त्या॑म् । मे॒ । य॒ज॒ता । दे॒वऽक्ष॑त्रे । रुश॑त्ऽगवि ।
सु॒तम् । सोम॑म् । न । ह॒स्तिऽभिः॑ । आ । प॒ट्ऽभिः । धा॒व॒त॒म् । न॒रा॒ । बिभ्र॑तौ । अ॒र्च॒नान॑सम् ॥उच्छन्त्याम् । मे । यजता । देवऽक्षत्रे । रुशत्ऽगवि ।
सुतम् । सोमम् । न । हस्तिऽभिः । आ । पट्ऽभिः । धावतम् । नरा । बिभ्रतौ । अर्चनानसम् ॥ucchántyām ǀ me ǀ yajatā́ ǀ devá-kṣatre ǀ rúśat-gavi ǀ
sutám ǀ sómam ǀ ná ǀ hastí-bhiḥ ǀ ā́ ǀ paṭ-bhíḥ ǀ dhāvatam ǀ narā ǀ bíbhratau ǀ arcanā́nasam ǁucchantyām ǀ me ǀ yajatā ǀ deva-kṣatre ǀ ruśat-gavi ǀ
sutam ǀ somam ǀ na ǀ hasti-bhiḥ ǀ ā ǀ paṭ-bhiḥ ǀ dhāvatam ǀ narā ǀ bibhratau ǀ arcanānasam ǁ5.64.7 Aṣṭaka 4.4.2.7Anuvāka 5.5.74
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.