Sūkta 17
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Pūru Ātreya
- Chandas छन्दस्
- Anuṣṭubh, Paṅkti
Metres by ṛk
1st set of styles bhuriguṣṇik (1); anuṣṭup (2); nicṛdanuṣṭup (3); virāḍanuṣṭup (4); bhurigbṛhatī (5)
2nd set of styles anuṣṭubh (1-4); paṅkti (5)
-
Ṛk 1
आ य॒ज्ञैर्दे॑व॒ मर्त्य॑ इ॒त्था तव्यां॑समू॒तये॑ ।
अ॒ग्निं कृ॒ते स्व॑ध्व॒रे पू॒रुरी॑ळी॒ताव॑से ॥आ यज्ञैर् देव मर्त्य इत्था तव्यांसम् ऊतये |
अग्निं कृते स्वध्वरे पूरुर् ईऌईतावसे ||ā́ yajñáirdeva mártya itthā́ távyāṃsamūtáye ǀ
agním kṛté svadhvaré pūrúrīḷītā́vase ǁā yajñair deva martya itthā tavyāṃsam ūtaye |
agniṃ kṛte svadhvare pūrur īḷītāvase ||आ । य॒ज्ञैः । दे॒व॒ । मर्त्यः॑ । इ॒त्था । तव्यां॑सम् । ऊ॒तये॑ ।
अ॒ग्निम् । कृ॒ते । सु॒ऽअ॒ध्व॒रे । पू॒रुः । ई॒ळी॒त॒ । अव॑से ॥आ । यज्ञैः । देव । मर्त्यः । इत्था । तव्यांसम् । ऊतये ।
अग्निम् । कृते । सुऽअध्वरे । पूरुः । ईळीत । अवसे ॥ā́ ǀ yajñáiḥ ǀ deva ǀ mártyaḥ ǀ itthā́ ǀ távyāṃsam ǀ ūtáye ǀ
agním ǀ kṛté ǀ su-adhvaré ǀ pūrúḥ ǀ īḷīta ǀ ávase ǁā ǀ yajñaiḥ ǀ deva ǀ martyaḥ ǀ itthā ǀ tavyāṃsam ǀ ūtaye ǀ
agnim ǀ kṛte ǀ su-adhvare ǀ pūruḥ ǀ īḷīta ǀ avase ǁ5.17.1 Aṣṭaka 4.1.9.1Anuvāka 5.2.11
-
Ṛk 2
अस्य॒ हि स्वय॑शस्तर आ॒सा वि॑धर्म॒न्मन्य॑से ।
तं नाकं॑ चि॒त्रशो॑चिषं मं॒द्रं प॒रो म॑नी॒षया॑ ॥अस्य हि स्वयशस्तर आसा विधर्मन् मन्यसे |
तं नाकं चित्रशोचिषम् मन्द्रम् परो मनीषया ||ásya hí sváyaśastara āsā́ vidharmanmányase ǀ
tám nā́kam citráśociṣam mandrám paró manīṣáyā ǁasya hi svayaśastara āsā vidharman manyase |
taṃ nākaṃ citraśociṣam mandram paro manīṣayā ||अस्य॑ । हि । स्वय॑शःऽतरः । आ॒सा । वि॒ऽध॒र्म॒न् । मन्य॑से ।
तम् । नाक॑म् । चि॒त्रऽशो॑चिषम् । म॒न्द्रम् । प॒रः । म॒नी॒षया॑ ॥अस्य । हि । स्वयशःऽतरः । आसा । विऽधर्मन् । मन्यसे ।
तम् । नाकम् । चित्रऽशोचिषम् । मन्द्रम् । परः । मनीषया ॥ásya ǀ hí ǀ sváyaśaḥ-taraḥ ǀ āsā́ ǀ vi-dharman ǀ mányase ǀ
tám ǀ nā́kam ǀ citrá-śociṣam ǀ mandrám ǀ paráḥ ǀ manīṣáyā ǁasya ǀ hi ǀ svayaśaḥ-taraḥ ǀ āsā ǀ vi-dharman ǀ manyase ǀ
tam ǀ nākam ǀ citra-śociṣam ǀ mandram ǀ paraḥ ǀ manīṣayā ǁ5.17.2 Aṣṭaka 4.1.9.2Anuvāka 5.2.12
-
Ṛk 3
अ॒स्य वासा उ॑ अ॒र्चिषा॒ य आयु॑क्त तु॒जा गि॒रा ।
दि॒वो न यस्य॒ रेत॑सा बृ॒हच्छोचं॑त्य॒र्चयः॑ ॥अस्य वासा उ अर्चिषा य आयुक्त तुजा गिरा |
दिवो न यस्य रेतसा बृहच् छोचन्त्य् अर्चयः ||asyá vā́sā́ u arcíṣā yá ā́yukta tujā́ girā́ ǀ
divó ná yásya rétasā bṛhácchócantyarcáyaḥ ǁasya vāsā u arciṣā ya āyukta tujā girā |
divo na yasya retasā bṛhac chocanty arcayaḥ ||अ॒स्य । वै । अ॒सौ । ऊं॒ इति॑ । अ॒र्चिषा॑ । यः । अयु॑क्त । तु॒जा । गि॒रा ।
दि॒वः । न । यस्य॑ । रेत॑सा । बृ॒हत् । शोच॑न्ति । अ॒र्चयः॑ ॥अस्य । वै । असौ । ऊं इति । अर्चिषा । यः । अयुक्त । तुजा । गिरा ।
दिवः । न । यस्य । रेतसा । बृहत् । शोचन्ति । अर्चयः ॥asyá ǀ vái ǀ asáu ǀ ūṃ íti ǀ arcíṣā ǀ yáḥ ǀ áyukta ǀ tujā́ ǀ girā́ ǀ
diváḥ ǀ ná ǀ yásya ǀ rétasā ǀ bṛhát ǀ śócanti ǀ arcáyaḥ ǁasya ǀ vai ǀ asau ǀ ūṃ iti ǀ arciṣā ǀ yaḥ ǀ ayukta ǀ tujā ǀ girā ǀ
divaḥ ǀ na ǀ yasya ǀ retasā ǀ bṛhat ǀ śocanti ǀ arcayaḥ ǁ5.17.3 Aṣṭaka 4.1.9.3Anuvāka 5.2.13
-
Ṛk 4
अ॒स्य क्रत्वा॒ विचे॑तसो द॒स्मस्य॒ वसु॒ रथ॒ आ ।
अधा॒ विश्वा॑सु॒ हव्यो॒ऽग्निर्वि॒क्षु प्र श॑स्यते ॥अस्य क्रत्वा विचेतसो दस्मस्य वसु रथ आ |
अधा विश्वासु हव्यो ऽग्निर् विक्षु प्र शस्यते ||asyá krátvā vícetaso dasmásya vásu rátha ā́ ǀ
ádhā víśvāsu hávyo’gnírvikṣú prá śasyate ǁasya kratvā vicetaso dasmasya vasu ratha ā |
adhā viśvāsu havyo 'gnir vikṣu pra śasyate ||अ॒स्य । क्रत्वा॑ । विऽचे॑तसः । द॒स्मस्य॑ । वसु॑ । रथे॑ । आ ।
अध॑ । विश्वा॑सु । हव्यः॑ । अ॒ग्निः । वि॒क्षु । प्र । श॒स्य॒ते॒ ॥अस्य । क्रत्वा । विऽचेतसः । दस्मस्य । वसु । रथे । आ ।
अध । विश्वासु । हव्यः । अग्निः । विक्षु । प्र । शस्यते ॥asyá ǀ krátvā ǀ ví-cetasaḥ ǀ dasmásya ǀ vásu ǀ ráthe ǀ ā́ ǀ
ádha ǀ víśvāsu ǀ hávyaḥ ǀ agníḥ ǀ vikṣú ǀ prá ǀ śasyate ǁasya ǀ kratvā ǀ vi-cetasaḥ ǀ dasmasya ǀ vasu ǀ rathe ǀ ā ǀ
adha ǀ viśvāsu ǀ havyaḥ ǀ agniḥ ǀ vikṣu ǀ pra ǀ śasyate ǁ5.17.4 Aṣṭaka 4.1.9.4Anuvāka 5.2.14
-
Ṛk 5
नू न॒ इद्धि वार्य॑मा॒सा स॑चंत सू॒रयः॑ ।
ऊर्जो॑ नपाद॒भिष्ट॑ये पा॒हि श॒ग्धि स्व॒स्तय॑ उ॒तैधि॑ पृ॒त्सु नो॑ वृ॒धे ॥नू न इद् धि वार्यम् आसा सचन्त सूरयः |
ऊर्जो नपाद् अभिष्टये पाहि शग्धि स्वस्तय उतैधि पृत्सु नो वृधे ||nū́ na íddhí vā́ryamāsā́ sacanta sūráyaḥ ǀ
ū́rjo napādabhíṣṭaye pāhí śagdhí svastáya utáidhi pṛtsú no vṛdhé ǁnū na id dhi vāryam āsā sacanta sūrayaḥ |
ūrjo napād abhiṣṭaye pāhi śagdhi svastaya utaidhi pṛtsu no vṛdhe ||नु । नः॒ । इत् । हि । वार्य॑म् । आ॒सा । स॒च॒न्त॒ । सू॒रयः॑ ।
ऊर्जः॑ । न॒पा॒त् । अ॒भिष्ट॑ये । पा॒हि । श॒ग्धि । स्व॒स्तये॑ । उ॒त । ए॒धि॒ । पृ॒त्ऽसु । नः॒ । वृ॒धे ॥नु । नः । इत् । हि । वार्यम् । आसा । सचन्त । सूरयः ।
ऊर्जः । नपात् । अभिष्टये । पाहि । शग्धि । स्वस्तये । उत । एधि । पृत्ऽसु । नः । वृधे ॥nú ǀ naḥ ǀ ít ǀ hí ǀ vā́ryam ǀ āsā́ ǀ sacanta ǀ sūráyaḥ ǀ
ū́rjaḥ ǀ napāt ǀ abhíṣṭaye ǀ pāhí ǀ śagdhí ǀ svastáye ǀ utá ǀ edhi ǀ pṛt-sú ǀ naḥ ǀ vṛdhé ǁnu ǀ naḥ ǀ it ǀ hi ǀ vāryam ǀ āsā ǀ sacanta ǀ sūrayaḥ ǀ
ūrjaḥ ǀ napāt ǀ abhiṣṭaye ǀ pāhi ǀ śagdhi ǀ svastaye ǀ uta ǀ edhi ǀ pṛt-su ǀ naḥ ǀ vṛdhe ǁ5.17.5 Aṣṭaka 4.1.9.5Anuvāka 5.2.15
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.