Ṛk 5.17.4
Saṃhitā
अ॒स्य क्रत्वा॒ विचे॑तसो द॒स्मस्य॒ वसु॒ रथ॒ आ ।
अधा॒ विश्वा॑सु॒ हव्यो॒ऽग्निर्वि॒क्षु प्र श॑स्यते ॥
अस्य क्रत्वा विचेतसो दस्मस्य वसु रथ आ |
अधा विश्वासु हव्यो ऽग्निर् विक्षु प्र शस्यते ||
asyá krátvā vícetaso dasmásya vásu rátha ā́ ǀ
ádhā víśvāsu hávyo’gnírvikṣú prá śasyate ǁ
asya kratvā vicetaso dasmasya vasu ratha ā |
adhā viśvāsu havyo 'gnir vikṣu pra śasyate ||
Padapāṭha
अ॒स्य । क्रत्वा॑ । विऽचे॑तसः । द॒स्मस्य॑ । वसु॑ । रथे॑ । आ ।
अध॑ । विश्वा॑सु । हव्यः॑ । अ॒ग्निः । वि॒क्षु । प्र । श॒स्य॒ते॒ ॥
अस्य । क्रत्वा । विऽचेतसः । दस्मस्य । वसु । रथे । आ ।
अध । विश्वासु । हव्यः । अग्निः । विक्षु । प्र । शस्यते ॥
asyá ǀ krátvā ǀ ví-cetasaḥ ǀ dasmásya ǀ vásu ǀ ráthe ǀ ā́ ǀ
ádha ǀ víśvāsu ǀ hávyaḥ ǀ agníḥ ǀ vikṣú ǀ prá ǀ śasyate ǁ
asya ǀ kratvā ǀ vi-cetasaḥ ǀ dasmasya ǀ vasu ǀ rathe ǀ ā ǀ
adha ǀ viśvāsu ǀ havyaḥ ǀ agniḥ ǀ vikṣu ǀ pra ǀ śasyate ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 05.017.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.1.09.04
- Maṇḍala · Anuvāka · Ṛk
- 05.02.014
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Pūru Ātreya
- Chandas छन्दस्
- Anuṣṭubh, Paṅkti
- Svara स्वरः
- गान्धारः
Text and interpretations from the Ṛgveda database of theveda.org.in.