Sūkta 14
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Sutambhara Ātreya
- Chandas छन्दस्
- Gāyatrī
Metres by ṛk
1st set of styles nicṛdgāyatrī (1, 4-6); virāḍgāyatrī (2); gāyatrī (3)
2nd set of styles gāyatrī
-
Ṛk 1
अ॒ग्निं स्तोमे॑न बोधय समिधा॒नो अम॑र्त्यं ।
ह॒व्या दे॒वेषु॑ नो दधत् ॥अग्निं स्तोमेन बोधय समिधानो अमर्त्यम् |
हव्या देवेषु नो दधत् ||agním stómena bodhaya samidhānó ámartyam ǀ
havyā́ devéṣu no dadhat ǁagniṃ stomena bodhaya samidhāno amartyam |
havyā deveṣu no dadhat ||अ॒ग्निम् । स्तोमे॑न । बो॒ध॒य॒ । स॒म्ऽइ॒धा॒नः । अम॑र्त्यम् ।
ह॒व्या । दे॒वेषु॑ । नः॒ । द॒ध॒त् ॥अग्निम् । स्तोमेन । बोधय । सम्ऽइधानः । अमर्त्यम् ।
हव्या । देवेषु । नः । दधत् ॥agním ǀ stómena ǀ bodhaya ǀ sam-idhānáḥ ǀ ámartyam ǀ
havyā́ ǀ devéṣu ǀ naḥ ǀ dadhat ǁagnim ǀ stomena ǀ bodhaya ǀ sam-idhānaḥ ǀ amartyam ǀ
havyā ǀ deveṣu ǀ naḥ ǀ dadhat ǁ5.14.1 Aṣṭaka 4.1.6.1Anuvāka 5.1.118
-
Ṛk 2
तम॑ध्व॒रेष्वी॑ळते दे॒वं मर्ता॒ अम॑र्त्यं ।
यजि॑ष्ठं॒ मानु॑षे॒ जने॑ ॥तम् अध्वरेष्व् ईऌअते देवम् मर्ता अमर्त्यम् |
यजिष्ठम् मानुषे जने ||támadhvaréṣvīḷate devám mártā ámartyam ǀ
yájiṣṭham mā́nuṣe jáne ǁtam adhvareṣv īḷate devam martā amartyam |
yajiṣṭham mānuṣe jane ||तम् । अ॒ध्व॒रेषु॑ । ई॒ळ॒ते॒ । दे॒वम् । मर्ताः॑ । अम॑र्त्यम् ।
यजि॑ष्ठम् । मानु॑षे । जने॑ ॥तम् । अध्वरेषु । ईळते । देवम् । मर्ताः । अमर्त्यम् ।
यजिष्ठम् । मानुषे । जने ॥tám ǀ adhvaréṣu ǀ īḷate ǀ devám ǀ mártāḥ ǀ ámartyam ǀ
yájiṣṭham ǀ mā́nuṣe ǀ jáne ǁtam ǀ adhvareṣu ǀ īḷate ǀ devam ǀ martāḥ ǀ amartyam ǀ
yajiṣṭham ǀ mānuṣe ǀ jane ǁ5.14.2 Aṣṭaka 4.1.6.2Anuvāka 5.1.119
-
Ṛk 3
तं हि शश्वं॑त॒ ईळ॑ते स्रु॒चा दे॒वं घृ॑त॒श्चुता॑ ।
अ॒ग्निं ह॒व्याय॒ वोळ्ह॑वे ॥तं हि शश्वन्त ईऌअते स्रुचा देवं घृतश्चुता |
अग्निं हव्याय वोऌहवे ||tám hí śáśvanta ī́ḷate srucā́ devám ghṛtaścútā ǀ
agním havyā́ya vóḷhave ǁtaṃ hi śaśvanta īḷate srucā devaṃ ghṛtaścutā |
agniṃ havyāya voḷhave ||तम् । हि । शश्व॑न्तः । ईळ॑ते । स्रु॒चा । दे॒वम् । घृ॒त॒ऽश्चुता॑ ।
अ॒ग्निम् । ह॒व्याय॑ । वोळ्ह॑वे ॥तम् । हि । शश्वन्तः । ईळते । स्रुचा । देवम् । घृतऽश्चुता ।
अग्निम् । हव्याय । वोळ्हवे ॥tám ǀ hí ǀ śáśvantaḥ ǀ ī́ḷate ǀ srucā́ ǀ devám ǀ ghṛta-ścútā ǀ
agním ǀ havyā́ya ǀ vóḷhave ǁtam ǀ hi ǀ śaśvantaḥ ǀ īḷate ǀ srucā ǀ devam ǀ ghṛta-ścutā ǀ
agnim ǀ havyāya ǀ voḷhave ǁ5.14.3 Aṣṭaka 4.1.6.3Anuvāka 5.1.120
-
Ṛk 4
अ॒ग्निर्जा॒तो अ॑रोचत॒ घ्नंदस्यूं॒ज्योति॑षा॒ तमः॑ ।
अविं॑द॒द्गा अ॒पः स्वः॑ ॥अग्निर् जातो अरोचत घ्नन् दस्यूञ् ज्योतिषा तमः |
अविन्दद् गा अपः स्वः ||agnírjātó arocata ghnándásyūñjyótiṣā támaḥ ǀ
ávindadgā́ apáḥ sváḥ ǁagnir jāto arocata ghnan dasyūñ jyotiṣā tamaḥ |
avindad gā apaḥ svaḥ ||अ॒ग्निः । जा॒तः । अ॒रो॒च॒त॒ । घ्नन् । दस्यू॑न् । ज्योति॑षा । तमः॑ ।
अवि॑न्दत् । गाः । अ॒पः । स्वः॑ ॥अग्निः । जातः । अरोचत । घ्नन् । दस्यून् । ज्योतिषा । तमः ।
अविन्दत् । गाः । अपः । स्वः ॥agníḥ ǀ jātáḥ ǀ arocata ǀ ghnán ǀ dásyūn ǀ jyótiṣā ǀ támaḥ ǀ
ávindat ǀ gā́ḥ ǀ apáḥ ǀ sváḥ ǁagniḥ ǀ jātaḥ ǀ arocata ǀ ghnan ǀ dasyūn ǀ jyotiṣā ǀ tamaḥ ǀ
avindat ǀ gāḥ ǀ apaḥ ǀ svaḥ ǁ5.14.4 Aṣṭaka 4.1.6.4Anuvāka 5.1.121
-
Ṛk 5
अ॒ग्निमी॒ळेन्यं॑ क॒विं घृ॒तपृ॑ष्ठं सपर्यत ।
वेतु॑ मे शृ॒णव॒द्धवं॑ ॥अग्निम् ईळेन्यं कविं घृतपृष्ठं सपर्यत |
वेतु मे शृणवद् धवम् ||agnímīḷényam kavím ghṛtápṛṣṭham saparyata ǀ
vétu me śṛṇávaddhávam ǁagnim īḷenyaṃ kaviṃ ghṛtapṛṣṭhaṃ saparyata |
vetu me śṛṇavad dhavam ||अ॒ग्निम् । ई॒ळेन्य॑म् । क॒विम् । घृ॒तऽपृ॑ष्ठम् । स॒प॒र्य॒त॒ ।
वेतु॑ । मे॒ । शृ॒णव॑त् । हव॑म् ॥अग्निम् । ईळेन्यम् । कविम् । घृतऽपृष्ठम् । सपर्यत ।
वेतु । मे । शृणवत् । हवम् ॥agním ǀ īḷényam ǀ kavím ǀ ghṛtá-pṛṣṭham ǀ saparyata ǀ
vétu ǀ me ǀ śṛṇávat ǀ hávam ǁagnim ǀ īḷenyam ǀ kavim ǀ ghṛta-pṛṣṭham ǀ saparyata ǀ
vetu ǀ me ǀ śṛṇavat ǀ havam ǁ5.14.5 Aṣṭaka 4.1.6.5Anuvāka 5.1.122
-
Ṛk 6
अ॒ग्निं घृ॒तेन॑ वावृधुः॒ स्तोमे॑भिर्वि॒श्वच॑र्षणिं ।
स्वा॒धीभि॑र्वच॒स्युभिः॑ ॥अग्निं घृतेन वावृधु स्तोमेभिर् विश्वचर्षणिम् |
स्वाधीभिर् वचस्युभिः ||agním ghṛténa vāvṛdhuḥ stómebhirviśvácarṣaṇim ǀ
svādhī́bhirvacasyúbhiḥ ǁagniṃ ghṛtena vāvṛdhu stomebhir viśvacarṣaṇim |
svādhībhir vacasyubhiḥ ||अ॒ग्निम् । घृ॒तेन॑ । व॒वृ॒धुः॒ । स्तोमे॑भिः । वि॒श्वऽच॑र्षणिम् ।
सु॒ऽआ॒धीभिः॑ । व॒च॒स्युऽभिः॑ ॥अग्निम् । घृतेन । ववृधुः । स्तोमेभिः । विश्वऽचर्षणिम् ।
सुऽआधीभिः । वचस्युऽभिः ॥agním ǀ ghṛténa ǀ vavṛdhuḥ ǀ stómebhiḥ ǀ viśvá-carṣaṇim ǀ
su-ādhī́bhiḥ ǀ vacasyú-bhiḥ ǁagnim ǀ ghṛtena ǀ vavṛdhuḥ ǀ stomebhiḥ ǀ viśva-carṣaṇim ǀ
su-ādhībhiḥ ǀ vacasyu-bhiḥ ǁ5.14.6 Aṣṭaka 4.1.6.6Anuvāka 5.1.123
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.