Ṛk 5.14.4
Saṃhitā
अ॒ग्निर्जा॒तो अ॑रोचत॒ घ्नंदस्यूं॒ज्योति॑षा॒ तमः॑ ।
अविं॑द॒द्गा अ॒पः स्वः॑ ॥
अग्निर् जातो अरोचत घ्नन् दस्यूञ् ज्योतिषा तमः |
अविन्दद् गा अपः स्वः ||
agnírjātó arocata ghnándásyūñjyótiṣā támaḥ ǀ
ávindadgā́ apáḥ sváḥ ǁ
agnir jāto arocata ghnan dasyūñ jyotiṣā tamaḥ |
avindad gā apaḥ svaḥ ||
Padapāṭha
अ॒ग्निः । जा॒तः । अ॒रो॒च॒त॒ । घ्नन् । दस्यू॑न् । ज्योति॑षा । तमः॑ ।
अवि॑न्दत् । गाः । अ॒पः । स्वः॑ ॥
अग्निः । जातः । अरोचत । घ्नन् । दस्यून् । ज्योतिषा । तमः ।
अविन्दत् । गाः । अपः । स्वः ॥
agníḥ ǀ jātáḥ ǀ arocata ǀ ghnán ǀ dásyūn ǀ jyótiṣā ǀ támaḥ ǀ
ávindat ǀ gā́ḥ ǀ apáḥ ǀ sváḥ ǁ
agniḥ ǀ jātaḥ ǀ arocata ǀ ghnan ǀ dasyūn ǀ jyotiṣā ǀ tamaḥ ǀ
avindat ǀ gāḥ ǀ apaḥ ǀ svaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 05.014.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.1.06.04
- Maṇḍala · Anuvāka · Ṛk
- 05.01.121
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Sutambhara Ātreya
- Chandas छन्दस्
- Gāyatrī
- Svara स्वरः
- षड्जः
Text and interpretations from the Ṛgveda database of theveda.org.in.