Sūkta 54
- Devatā देवता
- Maruts
- Ṛṣi ऋषि
- Śyāvāśva Ātreya
- Chandas छन्दस्
- Jagatī, Triṣṭubh
Metres by ṛk
1st set of styles jagatī (1, 3, 7, 12); triṣṭup (5, 9, 13, 14); bhuriktriṣṭup (4, 8, 10); nicṛjjagatī (11, 15); virāḍjagatī (2); bhurigjagatī (6)
2nd set of styles jagatī (1-13, 15); triṣṭubh (14)
-
Ṛk 1
प्र शर्धा॑य॒ मारु॑ताय॒ स्वभा॑नव इ॒मां वाच॑मनजा पर्वत॒च्युते॑ ।
घ॒र्म॒स्तुभे॑ दि॒व आ पृ॑ष्ठ॒यज्व॑ने द्यु॒म्नश्र॑वसे॒ महि॑ नृ॒म्णम॑र्चत ॥प्र शर्धाय मारुताय स्वभानव इमां वाचम् अनजा पर्वतच्युते |
घर्मस्तुभे दिव आ पृष्ठयज्वने द्युम्नश्रवसे महि नृम्णम् अर्चत ||prá śárdhāya mā́rutāya svábhānava imā́m vā́camanajā parvatacyúte ǀ
gharmastúbhe divá ā́ pṛṣṭhayájvane dyumnáśravase máhi nṛmṇámarcata ǁpra śardhāya mārutāya svabhānava imāṃ vācam anajā parvatacyute |
gharmastubhe diva ā pṛṣṭhayajvane dyumnaśravase mahi nṛmṇam arcata ||प्र । शर्धा॑य । मारु॑ताय । स्वऽभा॑नवः । इ॒माम् । वाच॑म् । अ॒न॒ज॒ । प॒र्व॒त॒ऽच्युते॑ ।
घ॒र्म॒ऽस्तुभे॑ । दि॒वः । आ । पृ॒ष्ठ॒ऽयज्व॑ने । द्यु॒म्नऽश्र॑वसे । महि॑ । नृ॒म्णम् । अ॒र्च॒त॒ ॥प्र । शर्धाय । मारुताय । स्वऽभानवः । इमाम् । वाचम् । अनज । पर्वतऽच्युते ।
घर्मऽस्तुभे । दिवः । आ । पृष्ठऽयज्वने । द्युम्नऽश्रवसे । महि । नृम्णम् । अर्चत ॥prá ǀ śárdhāya ǀ mā́rutāya ǀ svá-bhānavaḥ ǀ imā́m ǀ vā́cam ǀ anaja ǀ parvata-cyúte ǀ
gharma-stúbhe ǀ diváḥ ǀ ā́ ǀ pṛṣṭha-yájvane ǀ dyumná-śravase ǀ máhi ǀ nṛmṇám ǀ arcata ǁpra ǀ śardhāya ǀ mārutāya ǀ sva-bhānavaḥ ǀ imām ǀ vācam ǀ anaja ǀ parvata-cyute ǀ
gharma-stubhe ǀ divaḥ ǀ ā ǀ pṛṣṭha-yajvane ǀ dyumna-śravase ǀ mahi ǀ nṛmṇam ǀ arcata ǁ5.54.1 Aṣṭaka 4.3.14.1Anuvāka 5.4.90
-
Ṛk 2
प्र वो॑ मरुतस्तवि॒षा उ॑द॒न्यवो॑ वयो॒वृधो॑ अश्व॒युजः॒ परि॑ज्रयः ।
सं वि॒द्युता॒ दध॑ति॒ वाश॑ति त्रि॒तः स्वरं॒त्यापो॒ऽवना॒ परि॑ज्रयः ॥प्र वो मरुतस् तविषा उदन्यवो वयोवृधो अश्वयुजः परिज्रयः |
सं विद्युता दधति वाशति त्रितः स्वरन्त्य् आपो ऽवना परिज्रयः ||prá vo marutastaviṣā́ udanyávo vayovṛ́dho aśvayújaḥ párijrayaḥ ǀ
sám vidyútā dádhati vā́śati tritáḥ svárantyā́po’vánā párijrayaḥ ǁpra vo marutas taviṣā udanyavo vayovṛdho aśvayujaḥ parijrayaḥ |
saṃ vidyutā dadhati vāśati tritaḥ svaranty āpo 'vanā parijrayaḥ ||प्र । वः॒ । म॒रु॒तः॒ । त॒वि॒षाः । उ॒द॒न्यवः॑ । व॒यः॒ऽवृधः॑ । अ॒श्व॒ऽयुजः॑ । परि॑ऽज्रयः ।
सम् । वि॒ऽद्युता॑ । दध॑ति । वाश॑ति । त्रि॒तः । स्वर॑न्ति । आपः॑ । अ॒वना॑ । परि॑ऽज्रयः ॥प्र । वः । मरुतः । तविषाः । उदन्यवः । वयःऽवृधः । अश्वऽयुजः । परिऽज्रयः ।
सम् । विऽद्युता । दधति । वाशति । त्रितः । स्वरन्ति । आपः । अवना । परिऽज्रयः ॥prá ǀ vaḥ ǀ marutaḥ ǀ taviṣā́ḥ ǀ udanyávaḥ ǀ vayaḥ-vṛ́dhaḥ ǀ aśva-yújaḥ ǀ pári-jrayaḥ ǀ
sám ǀ vi-dyútā ǀ dádhati ǀ vā́śati ǀ tritáḥ ǀ sváranti ǀ ā́paḥ ǀ avánā ǀ pári-jrayaḥ ǁpra ǀ vaḥ ǀ marutaḥ ǀ taviṣāḥ ǀ udanyavaḥ ǀ vayaḥ-vṛdhaḥ ǀ aśva-yujaḥ ǀ pari-jrayaḥ ǀ
sam ǀ vi-dyutā ǀ dadhati ǀ vāśati ǀ tritaḥ ǀ svaranti ǀ āpaḥ ǀ avanā ǀ pari-jrayaḥ ǁ5.54.2 Aṣṭaka 4.3.14.2Anuvāka 5.4.91
-
Ṛk 3
वि॒द्युन्म॑हसो॒ नरो॒ अश्म॑दिद्यवो॒ वात॑त्विषो म॒रुतः॑ पर्वत॒च्युतः॑ ।
अ॒ब्द॒या चि॒न्मुहु॒रा ह्रा॑दुनी॒वृतः॑ स्त॒नय॑दमा रभ॒सा उदो॑जसः ॥विद्युन्महसो नरो अश्मदिद्यवो वातत्विषो मरुतः पर्वतच्युतः |
अब्दया चिन् मुहुर् आ ह्रादुनीवृत स्तनयदमा रभसा उदोजसः ||vidyúnmahaso náro áśmadidyavo vā́tatviṣo marútaḥ parvatacyútaḥ ǀ
abdayā́ cinmúhurā́ hrādunīvṛ́taḥ stanáyadamā rabhasā́ údojasaḥ ǁvidyunmahaso naro aśmadidyavo vātatviṣo marutaḥ parvatacyutaḥ |
abdayā cin muhur ā hrādunīvṛta stanayadamā rabhasā udojasaḥ ||वि॒द्युत्ऽम॑हसः । नरः॑ । अश्म॑ऽदिद्यवः । वात॑ऽत्विषः । म॒रुतः॑ । प॒र्व॒त॒ऽच्युतः॑ ।
अ॒ब्द॒ऽया । चि॒त् । मुहुः॑ । आ । ह्रा॒दु॒नि॒ऽवृतः॑ । स्त॒नय॑त्ऽअमाः । र॒भ॒साः । उत्ऽओ॑जसः ॥विद्युत्ऽमहसः । नरः । अश्मऽदिद्यवः । वातऽत्विषः । मरुतः । पर्वतऽच्युतः ।
अब्दऽया । चित् । मुहुः । आ । ह्रादुनिऽवृतः । स्तनयत्ऽअमाः । रभसाः । उत्ऽओजसः ॥vidyút-mahasaḥ ǀ náraḥ ǀ áśma-didyavaḥ ǀ vā́ta-tviṣaḥ ǀ marútaḥ ǀ parvata-cyútaḥ ǀ
abda-yā́ ǀ cit ǀ múhuḥ ǀ ā́ ǀ hrāduni-vṛ́taḥ ǀ stanáyat-amāḥ ǀ rabhasā́ḥ ǀ út-ojasaḥ ǁvidyut-mahasaḥ ǀ naraḥ ǀ aśma-didyavaḥ ǀ vāta-tviṣaḥ ǀ marutaḥ ǀ parvata-cyutaḥ ǀ
abda-yā ǀ cit ǀ muhuḥ ǀ ā ǀ hrāduni-vṛtaḥ ǀ stanayat-amāḥ ǀ rabhasāḥ ǀ ut-ojasaḥ ǁ5.54.3 Aṣṭaka 4.3.14.3Anuvāka 5.4.92
-
Ṛk 4
व्य१॒॑क्तून्रु॑द्रा॒ व्यहा॑नि शिक्वसो॒ व्यं१॒॑तरि॑क्षं॒ वि रजां॑सि धूतयः ।
वि यदज्राँ॒ अज॑थ॒ नाव॑ ईं यथा॒ वि दु॒र्गाणि॑ मरुतो॒ नाह॑ रिष्यथ ॥व्य् अक्तून् रुद्रा व्य् अहानि शिक्वसो व्य् अन्तरिक्षं वि रजांसि धूतयः |
वि यद् अज्रां अजथ नाव ईं यथा वि दुर्गाणि मरुतो नाह रिष्यथ ||vyáktū́nrudrā vyáhāni śikvaso vyántárikṣam ví rájāṃsi dhūtayaḥ ǀ
ví yádájrām̐ ájatha nā́va īm yathā ví durgā́ṇi maruto nā́ha riṣyatha ǁvy aktūn rudrā vy ahāni śikvaso vy antarikṣaṃ vi rajāṃsi dhūtayaḥ |
vi yad ajrāṃ ajatha nāva īṃ yathā vi durgāṇi maruto nāha riṣyatha ||वि । अ॒क्तून् । रु॒द्राः॒ । वि । अहा॑नि । शि॒क्व॒सः॒ । वि । अ॒न्तरि॑क्षम् । वि । रजां॑सि । धू॒त॒यः॒ ।
वि । यत् । अज्रा॑न् । अज॑थ । नावः॑ । ई॒म् । य॒था॒ । वि । दुः॒ऽगानि॑ । म॒रु॒तः॒ । न । अह॑ । रि॒ष्य॒थ॒ ॥वि । अक्तून् । रुद्राः । वि । अहानि । शिक्वसः । वि । अन्तरिक्षम् । वि । रजांसि । धूतयः ।
वि । यत् । अज्रान् । अजथ । नावः । ईम् । यथा । वि । दुःऽगानि । मरुतः । न । अह । रिष्यथ ॥ví ǀ aktū́n ǀ rudrāḥ ǀ ví ǀ áhāni ǀ śikvasaḥ ǀ ví ǀ antárikṣam ǀ ví ǀ rájāṃsi ǀ dhūtayaḥ ǀ
ví ǀ yát ǀ ájrān ǀ ájatha ǀ nā́vaḥ ǀ īm ǀ yathā ǀ ví ǀ duḥ-gā́ni ǀ marutaḥ ǀ ná ǀ áha ǀ riṣyatha ǁvi ǀ aktūn ǀ rudrāḥ ǀ vi ǀ ahāni ǀ śikvasaḥ ǀ vi ǀ antarikṣam ǀ vi ǀ rajāṃsi ǀ dhūtayaḥ ǀ
vi ǀ yat ǀ ajrān ǀ ajatha ǀ nāvaḥ ǀ īm ǀ yathā ǀ vi ǀ duḥ-gāni ǀ marutaḥ ǀ na ǀ aha ǀ riṣyatha ǁ5.54.4 Aṣṭaka 4.3.14.4Anuvāka 5.4.93
-
Ṛk 5
तद्वी॒र्यं॑ वो मरुतो महित्व॒नं दी॒र्घं त॑तान॒ सूर्यो॒ न योज॑नं ।
एता॒ न यामे॒ अगृ॑भीतशोचि॒षोऽन॑श्वदां॒ यन्न्यया॑तना गि॒रिं ॥तद् वीर्यं वो मरुतो महित्वनं दीर्घं ततान सूर्यो न योजनम् |
एता न यामे अगृभीतशोचिषो ऽनश्वदां यन् न्य् अयातना गिरिम् ||tádvīryám vo maruto mahitvanám dīrghám tatāna sū́ryo ná yójanam ǀ
étā ná yā́me ágṛbhītaśociṣó’naśvadām yánnyáyātanā girím ǁtad vīryaṃ vo maruto mahitvanaṃ dīrghaṃ tatāna sūryo na yojanam |
etā na yāme agṛbhītaśociṣo 'naśvadāṃ yan ny ayātanā girim ||तत् । वी॒र्य॑म् । वः॒ । म॒रु॒तः॒ । म॒हि॒ऽत्व॒नम् । दी॒र्घम् । त॒ता॒न॒ । सूर्यः॑ । न । योज॑नम् ।
एताः॑ । न । यामे॑ । अगृ॑भीतऽशोचिषः । अन॑श्वऽदाम् । यत् । नि । अया॑तन । गि॒रिम् ॥तत् । वीर्यम् । वः । मरुतः । महिऽत्वनम् । दीर्घम् । ततान । सूर्यः । न । योजनम् ।
एताः । न । यामे । अगृभीतऽशोचिषः । अनश्वऽदाम् । यत् । नि । अयातन । गिरिम् ॥tát ǀ vīryám ǀ vaḥ ǀ marutaḥ ǀ mahi-tvanám ǀ dīrghám ǀ tatāna ǀ sū́ryaḥ ǀ ná ǀ yójanam ǀ
étāḥ ǀ ná ǀ yā́me ǀ ágṛbhīta-śociṣaḥ ǀ ánaśva-dām ǀ yát ǀ ní ǀ áyātana ǀ girím ǁtat ǀ vīryam ǀ vaḥ ǀ marutaḥ ǀ mahi-tvanam ǀ dīrgham ǀ tatāna ǀ sūryaḥ ǀ na ǀ yojanam ǀ
etāḥ ǀ na ǀ yāme ǀ agṛbhīta-śociṣaḥ ǀ anaśva-dām ǀ yat ǀ ni ǀ ayātana ǀ girim ǁ5.54.5 Aṣṭaka 4.3.14.5Anuvāka 5.4.94
-
Ṛk 6
अभ्रा॑जि॒ शर्धो॑ मरुतो॒ यद॑र्ण॒सं मोष॑था वृ॒क्षं क॑प॒नेव॑ वेधसः ।
अध॑ स्मा नो अ॒रम॑तिं सजोषस॒श्चक्षु॑रिव॒ यंत॒मनु॑ नेषथा सु॒गं ॥अभ्राजि शर्धो मरुतो यद् अर्णसम् मोषथा वृक्षं कपनेव वेधसः |
अध स्मा नो अरमतिं सजोषसश् चक्षुर् इव यन्तम् अनु नेषथा सुगम् ||ábhrāji śárdho maruto yádarṇasám móṣathā vṛkṣám kapanéva vedhasaḥ ǀ
ádha smā no arámatim sajoṣasaścákṣuriva yántamánu neṣathā sugám ǁabhrāji śardho maruto yad arṇasam moṣathā vṛkṣaṃ kapaneva vedhasaḥ |
adha smā no aramatiṃ sajoṣasaś cakṣur iva yantam anu neṣathā sugam ||अभ्रा॑जि । शर्धः॑ । म॒रु॒तः॒ । यत् । अ॒र्ण॒सम् । मोष॑थ । वृ॒क्षम् । क॒प॒नाऽइ॑व । वे॒ध॒सः॒ ।
अध॑ । स्म॒ । नः॒ । अ॒रम॑तिम् । स॒ऽजो॒ष॒सः॒ । चक्षुः॑ऽइव । यन्त॑म् । अनु॑ । ने॒ष॒थ॒ । सु॒ऽगम् ॥अभ्राजि । शर्धः । मरुतः । यत् । अर्णसम् । मोषथ । वृक्षम् । कपनाऽइव । वेधसः ।
अध । स्म । नः । अरमतिम् । सऽजोषसः । चक्षुःऽइव । यन्तम् । अनु । नेषथ । सुऽगम् ॥ábhrāji ǀ śárdhaḥ ǀ marutaḥ ǀ yát ǀ arṇasám ǀ móṣatha ǀ vṛkṣám ǀ kapanā́-iva ǀ vedhasaḥ ǀ
ádha ǀ sma ǀ naḥ ǀ arámatim ǀ sa-joṣasaḥ ǀ cákṣuḥ-iva ǀ yántam ǀ ánu ǀ neṣatha ǀ su-gám ǁabhrāji ǀ śardhaḥ ǀ marutaḥ ǀ yat ǀ arṇasam ǀ moṣatha ǀ vṛkṣam ǀ kapanā-iva ǀ vedhasaḥ ǀ
adha ǀ sma ǀ naḥ ǀ aramatim ǀ sa-joṣasaḥ ǀ cakṣuḥ-iva ǀ yantam ǀ anu ǀ neṣatha ǀ su-gam ǁ5.54.6 Aṣṭaka 4.3.15.1Anuvāka 5.4.95
-
Ṛk 7
न स जी॑यते मरुतो॒ न ह॑न्यते॒ न स्रे॑धति॒ न व्य॑थते॒ न रि॑ष्यति ।
नास्य॒ राय॒ उप॑ दस्यंति॒ नोतय॒ ऋषिं॑ वा॒ यं राजा॑नं वा॒ सुषू॑दथ ॥न स जीयते मरुतो न हन्यते न स्रेधति न व्यथते न रिष्यति |
नास्य राय उप दस्यन्ति नोतय ऋषिं वा यं राजानं वा सुषूदथ ||ná sá jīyate maruto ná hanyate ná sredhati ná vyathate ná riṣyati ǀ
nā́sya rā́ya úpa dasyanti nótáya ṛ́ṣim vā yám rā́jānam vā súṣūdatha ǁna sa jīyate maruto na hanyate na sredhati na vyathate na riṣyati |
nāsya rāya upa dasyanti notaya ṛṣiṃ vā yaṃ rājānaṃ vā suṣūdatha ||न । सः । जी॒य॒ते॒ । म॒रु॒तः॒ । न । ह॒न्य॒ते॒ । न । स्रे॒ध॒ति॒ । न । व्य॒थ॒ते॒ । न । रि॒ष्य॒ति॒ ।
न । अ॒स्य॒ । रायः॑ । उप॑ । द॒स्य॒न्ति॒ । न । ऊ॒तयः॑ । ऋषि॑म् । वा॒ । यम् । राजा॑नम् । वा॒ । सुसू॑दथ ॥न । सः । जीयते । मरुतः । न । हन्यते । न । स्रेधति । न । व्यथते । न । रिष्यति ।
न । अस्य । रायः । उप । दस्यन्ति । न । ऊतयः । ऋषिम् । वा । यम् । राजानम् । वा । सुसूदथ ॥ná ǀ sáḥ ǀ jīyate ǀ marutaḥ ǀ ná ǀ hanyate ǀ ná ǀ sredhati ǀ ná ǀ vyathate ǀ ná ǀ riṣyati ǀ
ná ǀ asya ǀ rā́yaḥ ǀ úpa ǀ dasyanti ǀ ná ǀ ūtáyaḥ ǀ ṛ́ṣim ǀ vā ǀ yám ǀ rā́jānam ǀ vā ǀ súsūdatha ǁna ǀ saḥ ǀ jīyate ǀ marutaḥ ǀ na ǀ hanyate ǀ na ǀ sredhati ǀ na ǀ vyathate ǀ na ǀ riṣyati ǀ
na ǀ asya ǀ rāyaḥ ǀ upa ǀ dasyanti ǀ na ǀ ūtayaḥ ǀ ṛṣim ǀ vā ǀ yam ǀ rājānam ǀ vā ǀ susūdatha ǁ5.54.7 Aṣṭaka 4.3.15.2Anuvāka 5.4.96
-
Ṛk 8
नि॒युत्वं॑तो ग्राम॒जितो॒ यथा॒ नरो॑ऽर्य॒मणो॒ न म॒रुतः॑ कबं॒धिनः॑ ।
पिन्वं॒त्युत्सं॒ यदि॒नासो॒ अस्व॑र॒न्व्युं॑दंति पृथि॒वीं मध्वो॒ अंध॑सा ॥नियुत्वन्तो ग्रामजितो यथा नरो ऽर्यमणो न मरुतः कबन्धिनः |
पिन्वन्त्य् उत्सं यद् इनासो अस्वरन् व्य् उन्दन्ति पृथिवीम् मध्वो अन्धसा ||niyútvanto grāmajíto yáthā náro’ryamáṇo ná marútaḥ kabandhínaḥ ǀ
pínvantyútsam yádinā́so ásvaranvyúndanti pṛthivī́m mádhvo ándhasā ǁniyutvanto grāmajito yathā naro 'ryamaṇo na marutaḥ kabandhinaḥ |
pinvanty utsaṃ yad ināso asvaran vy undanti pṛthivīm madhvo andhasā ||नि॒युत्व॑न्तः । ग्रा॒म॒ऽजितः॑ । यथा॑ । नरः॑ । अ॒र्य॒मणः॑ । न । म॒रुतः॑ । क॒ब॒न्धिनः॑ ।
पिन्व॑न्ति । उत्स॑म् । यत् । इ॒नासः॑ । अस्व॑रन् । वि । उ॒न्द॒न्ति॒ । पृ॒थि॒वीम् । मध्वः॑ । अन्ध॑सा ॥नियुत्वन्तः । ग्रामऽजितः । यथा । नरः । अर्यमणः । न । मरुतः । कबन्धिनः ।
पिन्वन्ति । उत्सम् । यत् । इनासः । अस्वरन् । वि । उन्दन्ति । पृथिवीम् । मध्वः । अन्धसा ॥niyútvantaḥ ǀ grāma-jítaḥ ǀ yáthā ǀ náraḥ ǀ aryamáṇaḥ ǀ ná ǀ marútaḥ ǀ kabandhínaḥ ǀ
pínvanti ǀ útsam ǀ yát ǀ inā́saḥ ǀ ásvaran ǀ ví ǀ undanti ǀ pṛthivī́m ǀ mádhvaḥ ǀ ándhasā ǁniyutvantaḥ ǀ grāma-jitaḥ ǀ yathā ǀ naraḥ ǀ aryamaṇaḥ ǀ na ǀ marutaḥ ǀ kabandhinaḥ ǀ
pinvanti ǀ utsam ǀ yat ǀ ināsaḥ ǀ asvaran ǀ vi ǀ undanti ǀ pṛthivīm ǀ madhvaḥ ǀ andhasā ǁ5.54.8 Aṣṭaka 4.3.15.3Anuvāka 5.4.97
-
Ṛk 9
प्र॒वत्व॑ती॒यं पृ॑थि॒वी म॒रुद्भ्यः॑ प्र॒वत्व॑ती॒ द्यौर्भ॑वति प्र॒यद्भ्यः॑ ।
प्र॒वत्व॑तीः प॒थ्या॑ अं॒तरि॑क्ष्याः प्र॒वत्वं॑तः॒ पर्व॑ता जी॒रदा॑नवः ॥प्रवत्वतीयम् पृथिवी मरुद्भ्यः प्रवत्वती द्यौर् भवति प्रयद्भ्यः |
प्रवत्वतीः पथ्या अन्तरिक्ष्याः प्रवत्वन्तः पर्वता जीरदानवः ||pravátvatīyám pṛthivī́ marúdbhyaḥ pravátvatī dyáurbhavati prayádbhyaḥ ǀ
pravátvatīḥ pathyā́ antárikṣyāḥ pravátvantaḥ párvatā jīrádānavaḥ ǁpravatvatīyam pṛthivī marudbhyaḥ pravatvatī dyaur bhavati prayadbhyaḥ |
pravatvatīḥ pathyā antarikṣyāḥ pravatvantaḥ parvatā jīradānavaḥ ||प्र॒वत्व॑ती । इ॒यम् । पृ॒थि॒वी । म॒रुत्ऽभ्यः॑ । प्र॒वत्व॑ती । द्यौः । भ॒व॒ति॒ । प्र॒यत्ऽभ्यः॑ ।
प्र॒वत्व॑तीः । प॒थ्याः॑ । अ॒न्तरि॑क्ष्याः । प्र॒वत्व॑न्तः । पर्व॑ताः । जी॒रऽदा॑नवः ॥प्रवत्वती । इयम् । पृथिवी । मरुत्ऽभ्यः । प्रवत्वती । द्यौः । भवति । प्रयत्ऽभ्यः ।
प्रवत्वतीः । पथ्याः । अन्तरिक्ष्याः । प्रवत्वन्तः । पर्वताः । जीरऽदानवः ॥pravátvatī ǀ iyám ǀ pṛthivī́ ǀ marút-bhyaḥ ǀ pravátvatī ǀ dyáuḥ ǀ bhavati ǀ prayát-bhyaḥ ǀ
pravátvatīḥ ǀ pathyā́ḥ ǀ antárikṣyāḥ ǀ pravátvantaḥ ǀ párvatāḥ ǀ jīrá-dānavaḥ ǁpravatvatī ǀ iyam ǀ pṛthivī ǀ marut-bhyaḥ ǀ pravatvatī ǀ dyauḥ ǀ bhavati ǀ prayat-bhyaḥ ǀ
pravatvatīḥ ǀ pathyāḥ ǀ antarikṣyāḥ ǀ pravatvantaḥ ǀ parvatāḥ ǀ jīra-dānavaḥ ǁ5.54.9 Aṣṭaka 4.3.15.4Anuvāka 5.4.98
-
Ṛk 10
यन्म॑रुतः सभरसः स्वर्णरः॒ सूर्य॒ उदि॑ते॒ मद॑था दिवो नरः ।
न वोऽश्वाः॑ श्रथयं॒ताह॒ सिस्र॑तः स॒द्यो अ॒स्याध्व॑नः पा॒रम॑श्नुथ ॥यन् मरुतः सभरसः स्वर्णरः सूर्य उदिते मदथा दिवो नरः |
न वो ऽश्वाः श्रथयन्ताह सिस्रतः सद्यो अस्याध्वनः पारम् अश्नुथ ||yánmarutaḥ sabharasaḥ svarṇaraḥ sū́rya údite mádathā divo naraḥ ǀ
ná vó’śvāḥ śrathayantā́ha sísrataḥ sadyó asyā́dhvanaḥ pārámaśnutha ǁyan marutaḥ sabharasaḥ svarṇaraḥ sūrya udite madathā divo naraḥ |
na vo 'śvāḥ śrathayantāha sisrataḥ sadyo asyādhvanaḥ pāram aśnutha ||यत् । म॒रु॒तः॒ । स॒ऽभ॒र॒सः॒ । स्वः॒ऽन॒रः॒ । सूर्ये॑ । उत्ऽइ॑ते । मद॑थ । दि॒वः॒ । न॒रः॒ ।
न । वः॒ । अश्वाः॑ । श्र॒थ॒य॒न्त॒ । अह॑ । सिस्र॑तः । स॒द्यः । अ॒स्य । अध्व॑नः । पा॒रम् । अ॒श्नु॒थ॒ ॥यत् । मरुतः । सऽभरसः । स्वःऽनरः । सूर्ये । उत्ऽइते । मदथ । दिवः । नरः ।
न । वः । अश्वाः । श्रथयन्त । अह । सिस्रतः । सद्यः । अस्य । अध्वनः । पारम् । अश्नुथ ॥yát ǀ marutaḥ ǀ sa-bharasaḥ ǀ svaḥ-naraḥ ǀ sū́rye ǀ út-ite ǀ mádatha ǀ divaḥ ǀ naraḥ ǀ
ná ǀ vaḥ ǀ áśvāḥ ǀ śrathayanta ǀ áha ǀ sísrataḥ ǀ sadyáḥ ǀ asyá ǀ ádhvanaḥ ǀ pārám ǀ aśnutha ǁyat ǀ marutaḥ ǀ sa-bharasaḥ ǀ svaḥ-naraḥ ǀ sūrye ǀ ut-ite ǀ madatha ǀ divaḥ ǀ naraḥ ǀ
na ǀ vaḥ ǀ aśvāḥ ǀ śrathayanta ǀ aha ǀ sisrataḥ ǀ sadyaḥ ǀ asya ǀ adhvanaḥ ǀ pāram ǀ aśnutha ǁ5.54.10 Aṣṭaka 4.3.15.5Anuvāka 5.4.99
-
Ṛk 11
अंसे॑षु व ऋ॒ष्टयः॑ प॒त्सु खा॒दयो॒ वक्षः॑सु रु॒क्मा म॑रुतो॒ रथे॒ शुभः॑ ।
अ॒ग्निभ्रा॑जसो वि॒द्युतो॒ गभ॑स्त्योः॒ शिप्राः॑ शी॒र्षसु॒ वित॑ता हिर॒ण्ययीः॑ ॥अंसेषु व ऋष्टयः पत्सु खादयो वक्षस्सु रुक्मा मरुतो रथे शुभः |
अग्निभ्राजसो विद्युतो गभस्त्योः शिप्राः शीर्षसु वितता हिरण्ययीः ||áṃseṣu va ṛṣṭáyaḥ patsú khādáyo vákṣaḥsu rukmā́ maruto ráthe śúbhaḥ ǀ
agníbhrājaso vidyúto gábhastyoḥ śíprāḥ śīrṣásu vítatā hiraṇyáyīḥ ǁaṃseṣu va ṛṣṭayaḥ patsu khādayo vakṣassu rukmā maruto rathe śubhaḥ |
agnibhrājaso vidyuto gabhastyoḥ śiprāḥ śīrṣasu vitatā hiraṇyayīḥ ||अंसे॑षु । वः॒ । ऋ॒ष्टयः॑ । प॒त्ऽसु । खा॒दयः॑ । वक्षः॑ऽसु । रु॒क्माः । म॒रु॒तः॒ । रथे॑ । शुभः॑ ।
अ॒ग्निऽभ्रा॑जसः । वि॒ऽद्युतः॑ । गभ॑स्त्योः । शिप्राः॑ । शी॒र्षऽसु॑ । विऽत॑ताः । हि॒र॒ण्ययीः॑ ॥अंसेषु । वः । ऋष्टयः । पत्ऽसु । खादयः । वक्षःऽसु । रुक्माः । मरुतः । रथे । शुभः ।
अग्निऽभ्राजसः । विऽद्युतः । गभस्त्योः । शिप्राः । शीर्षऽसु । विऽतताः । हिरण्ययीः ॥áṃseṣu ǀ vaḥ ǀ ṛṣṭáyaḥ ǀ pat-sú ǀ khādáyaḥ ǀ vákṣaḥ-su ǀ rukmā́ḥ ǀ marutaḥ ǀ ráthe ǀ śúbhaḥ ǀ
agní-bhrājasaḥ ǀ vi-dyútaḥ ǀ gábhastyoḥ ǀ śíprāḥ ǀ śīrṣá-su ǀ ví-tatāḥ ǀ hiraṇyáyīḥ ǁaṃseṣu ǀ vaḥ ǀ ṛṣṭayaḥ ǀ pat-su ǀ khādayaḥ ǀ vakṣaḥ-su ǀ rukmāḥ ǀ marutaḥ ǀ rathe ǀ śubhaḥ ǀ
agni-bhrājasaḥ ǀ vi-dyutaḥ ǀ gabhastyoḥ ǀ śiprāḥ ǀ śīrṣa-su ǀ vi-tatāḥ ǀ hiraṇyayīḥ ǁ5.54.11 Aṣṭaka 4.3.16.1Anuvāka 5.4.100
-
Ṛk 12
तं नाक॑म॒र्यो अगृ॑भीतशोचिषं॒ रुश॒त्पिप्प॑लं मरुतो॒ वि धू॑नुथ ।
सम॑च्यंत वृ॒जनाति॑त्विषंत॒ यत्स्वरं॑ति॒ घोषं॒ वित॑तमृता॒यवः॑ ॥तं नाकम् अर्यो अगृभीतशोचिषं रुशत् पिप्पलम् मरुतो वि धूनुथ |
सम् अच्यन्त वृजनातित्विषन्त यत् स्वरन्ति घोषं विततम् ऋतायवः ||tám nā́kamaryó ágṛbhītaśociṣam rúśatpíppalam maruto ví dhūnutha ǀ
sámacyanta vṛjánā́titviṣanta yátsváranti ghóṣam vítatamṛtāyávaḥ ǁtaṃ nākam aryo agṛbhītaśociṣaṃ ruśat pippalam maruto vi dhūnutha |
sam acyanta vṛjanātitviṣanta yat svaranti ghoṣaṃ vitatam ṛtāyavaḥ ||तम् । नाक॑म् । अ॒र्यः । अगृ॑भीतऽशोचिषम् । रुश॑त् । पिप्प॑लम् । म॒रु॒तः॒ । वि । धू॒नु॒थ॒ ।
सम् । अ॒च्य॒न्त॒ । वृ॒जना॑ । अति॑त्विषन्त । यत् । स्वर॑न्ति । घोष॑म् । विऽत॑तम् । ऋ॒त॒ऽयवः॑ ॥तम् । नाकम् । अर्यः । अगृभीतऽशोचिषम् । रुशत् । पिप्पलम् । मरुतः । वि । धूनुथ ।
सम् । अच्यन्त । वृजना । अतित्विषन्त । यत् । स्वरन्ति । घोषम् । विऽततम् । ऋतऽयवः ॥tám ǀ nā́kam ǀ aryáḥ ǀ ágṛbhīta-śociṣam ǀ rúśat ǀ píppalam ǀ marutaḥ ǀ ví ǀ dhūnutha ǀ
sám ǀ acyanta ǀ vṛjánā ǀ átitviṣanta ǀ yát ǀ sváranti ǀ ghóṣam ǀ ví-tatam ǀ ṛta-yávaḥ ǁtam ǀ nākam ǀ aryaḥ ǀ agṛbhīta-śociṣam ǀ ruśat ǀ pippalam ǀ marutaḥ ǀ vi ǀ dhūnutha ǀ
sam ǀ acyanta ǀ vṛjanā ǀ atitviṣanta ǀ yat ǀ svaranti ǀ ghoṣam ǀ vi-tatam ǀ ṛta-yavaḥ ǁ5.54.12 Aṣṭaka 4.3.16.2Anuvāka 5.4.101
-
Ṛk 13
यु॒ष्माद॑त्तस्य मरुतो विचेतसो रा॒यः स्या॑म र॒थ्यो॒३॒॑ वय॑स्वतः ।
न यो युच्छ॑ति ति॒ष्यो॒३॒॑ यथा॑ दि॒वो॒३॒॑ऽस्मे रा॑रंत मरुतः सह॒स्रिणं॑ ॥युष्मादत्तस्य मरुतो विचेतसो रायः स्याम रथ्यो वयस्वतः |
न यो युच्छति तिष्यो यथा दिवो ऽस्मे रारन्त मरुतः सहस्रिणम् ||yuṣmā́dattasya maruto vicetaso rāyáḥ syāma rathyó váyasvataḥ ǀ
ná yó yúcchati tiṣyó yáthā divó’smé rāranta marutaḥ sahasríṇam ǁyuṣmādattasya maruto vicetaso rāyaḥ syāma rathyo vayasvataḥ |
na yo yucchati tiṣyo yathā divo 'sme rāranta marutaḥ sahasriṇam ||यु॒ष्माऽद॑त्तस्य । म॒रु॒तः॒ । वि॒ऽचे॒त॒सः॒ । रा॒यः । स्या॒म॒ । र॒थ्यः॑ । वय॑स्वतः ।
न । यः । युच्छ॑ति । ति॒ष्यः॑ । यथा॑ । दि॒वः । अ॒स्मे इति॑ । र॒र॒न्त॒ । म॒रु॒तः॒ । स॒ह॒स्रिण॑म् ॥युष्माऽदत्तस्य । मरुतः । विऽचेतसः । रायः । स्याम । रथ्यः । वयस्वतः ।
न । यः । युच्छति । तिष्यः । यथा । दिवः । अस्मे इति । ररन्त । मरुतः । सहस्रिणम् ॥yuṣmā́-dattasya ǀ marutaḥ ǀ vi-cetasaḥ ǀ rāyáḥ ǀ syāma ǀ rathyáḥ ǀ váyasvataḥ ǀ
ná ǀ yáḥ ǀ yúcchati ǀ tiṣyáḥ ǀ yáthā ǀ diváḥ ǀ asmé íti ǀ raranta ǀ marutaḥ ǀ sahasríṇam ǁyuṣmā-dattasya ǀ marutaḥ ǀ vi-cetasaḥ ǀ rāyaḥ ǀ syāma ǀ rathyaḥ ǀ vayasvataḥ ǀ
na ǀ yaḥ ǀ yucchati ǀ tiṣyaḥ ǀ yathā ǀ divaḥ ǀ asme iti ǀ raranta ǀ marutaḥ ǀ sahasriṇam ǁ5.54.13 Aṣṭaka 4.3.16.3Anuvāka 5.4.102
-
Ṛk 14
यू॒यं र॒यिं म॑रुतः स्पा॒र्हवी॑रं यू॒यमृषि॑मवथ॒ साम॑विप्रं ।
यू॒यमर्वं॑तं भर॒ताय॒ वाजं॑ यू॒यं ध॑त्थ॒ राजा॑नं श्रुष्टि॒मंतं॑ ॥यूयं रयिम् मरुत स्पार्हवीरं यूयम् ऋषिम् अवथ सामविप्रम् |
यूयम् अर्वन्तम् भरताय वाजं यूयं धत्थ राजानं श्रुष्टिमन्तम् ||yūyám rayím marutaḥ spārhávīram yūyámṛ́ṣimavatha sā́mavipram ǀ
yūyámárvantam bharatā́ya vā́jam yūyám dhattha rā́jānam śruṣṭimántam ǁyūyaṃ rayim maruta spārhavīraṃ yūyam ṛṣim avatha sāmavipram |
yūyam arvantam bharatāya vājaṃ yūyaṃ dhattha rājānaṃ śruṣṭimantam ||यू॒यम् । र॒यिम् । म॒रु॒तः॒ । स्पा॒र्हऽवी॑रम् । यू॒यम् । ऋषि॑म् । अ॒व॒थ॒ । साम॑ऽविप्रम् ।
यू॒यम् । अर्व॑न्तम् । भ॒र॒ताय॑ । वाज॑म् । यू॒यम् । ध॒त्थ॒ । राजा॑नम् । श्रु॒ष्टि॒ऽमन्त॑म् ॥यूयम् । रयिम् । मरुतः । स्पार्हऽवीरम् । यूयम् । ऋषिम् । अवथ । सामऽविप्रम् ।
यूयम् । अर्वन्तम् । भरताय । वाजम् । यूयम् । धत्थ । राजानम् । श्रुष्टिऽमन्तम् ॥yūyám ǀ rayím ǀ marutaḥ ǀ spārhá-vīram ǀ yūyám ǀ ṛ́ṣim ǀ avatha ǀ sā́ma-vipram ǀ
yūyám ǀ árvantam ǀ bharatā́ya ǀ vā́jam ǀ yūyám ǀ dhattha ǀ rā́jānam ǀ śruṣṭi-mántam ǁyūyam ǀ rayim ǀ marutaḥ ǀ spārha-vīram ǀ yūyam ǀ ṛṣim ǀ avatha ǀ sāma-vipram ǀ
yūyam ǀ arvantam ǀ bharatāya ǀ vājam ǀ yūyam ǀ dhattha ǀ rājānam ǀ śruṣṭi-mantam ǁ5.54.14 Aṣṭaka 4.3.16.4Anuvāka 5.4.103
-
Ṛk 15
तद्वो॑ यामि॒ द्रवि॑णं सद्यऊतयो॒ येना॒ स्व१॒॑र्ण त॒तना॑म॒ नॄँर॒भि ।
इ॒दं सु मे॑ मरुतो हर्यता॒ वचो॒ यस्य॒ तरे॑म॒ तर॑सा श॒तं हिमाः॑ ॥तद् वो यामि द्रविणं सद्यऊतयो येना स्वर् ण ततनाम नॄंर् अभि |
इदं सु मे मरुतो हर्यता वचो यस्य तरेम तरसा शतं हिमाः ||tádvo yāmi dráviṇam sadyaūtayo yénā svárṇá tatánāma nṝ́m̐rabhí ǀ
idám sú me maruto haryatā váco yásya tárema tárasā śatám hímāḥ ǁtad vo yāmi draviṇaṃ sadyaūtayo yenā svar ṇa tatanāma nṝṃr abhi |
idaṃ su me maruto haryatā vaco yasya tarema tarasā śataṃ himāḥ ||तत् । वः॒ । या॒मि॒ । द्रवि॑णम् । स॒द्यः॒ऽऊ॒त॒यः॒ । येन॑ । स्वः॑ । न । त॒तना॑म । नॄन् । अ॒भि ।
इ॒दम् । सु । मे॒ । म॒रु॒तः॒ । ह॒र्य॒त॒ । वचः॑ । यस्य॑ । तरे॑म । तर॑सा । श॒तम् । हिमाः॑ ॥तत् । वः । यामि । द्रविणम् । सद्यःऽऊतयः । येन । स्वः । न । ततनाम । नॄन् । अभि ।
इदम् । सु । मे । मरुतः । हर्यत । वचः । यस्य । तरेम । तरसा । शतम् । हिमाः ॥tát ǀ vaḥ ǀ yāmi ǀ dráviṇam ǀ sadyaḥ-ūtayaḥ ǀ yéna ǀ sváḥ ǀ ná ǀ tatánāma ǀ nṝ́n ǀ abhí ǀ
idám ǀ sú ǀ me ǀ marutaḥ ǀ haryata ǀ vácaḥ ǀ yásya ǀ tárema ǀ tárasā ǀ śatám ǀ hímāḥ ǁtat ǀ vaḥ ǀ yāmi ǀ draviṇam ǀ sadyaḥ-ūtayaḥ ǀ yena ǀ svaḥ ǀ na ǀ tatanāma ǀ nṝn ǀ abhi ǀ
idam ǀ su ǀ me ǀ marutaḥ ǀ haryata ǀ vacaḥ ǀ yasya ǀ tarema ǀ tarasā ǀ śatam ǀ himāḥ ǁ5.54.15 Aṣṭaka 4.3.16.5Anuvāka 5.4.104
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.