Ṛk 5.54.5
Saṃhitā
तद्वी॒र्यं॑ वो मरुतो महित्व॒नं दी॒र्घं त॑तान॒ सूर्यो॒ न योज॑नं ।
एता॒ न यामे॒ अगृ॑भीतशोचि॒षोऽन॑श्वदां॒ यन्न्यया॑तना गि॒रिं ॥
तद् वीर्यं वो मरुतो महित्वनं दीर्घं ततान सूर्यो न योजनम् |
एता न यामे अगृभीतशोचिषो ऽनश्वदां यन् न्य् अयातना गिरिम् ||
tádvīryám vo maruto mahitvanám dīrghám tatāna sū́ryo ná yójanam ǀ
étā ná yā́me ágṛbhītaśociṣó’naśvadām yánnyáyātanā girím ǁ
tad vīryaṃ vo maruto mahitvanaṃ dīrghaṃ tatāna sūryo na yojanam |
etā na yāme agṛbhītaśociṣo 'naśvadāṃ yan ny ayātanā girim ||
Padapāṭha
तत् । वी॒र्य॑म् । वः॒ । म॒रु॒तः॒ । म॒हि॒ऽत्व॒नम् । दी॒र्घम् । त॒ता॒न॒ । सूर्यः॑ । न । योज॑नम् ।
एताः॑ । न । यामे॑ । अगृ॑भीतऽशोचिषः । अन॑श्वऽदाम् । यत् । नि । अया॑तन । गि॒रिम् ॥
तत् । वीर्यम् । वः । मरुतः । महिऽत्वनम् । दीर्घम् । ततान । सूर्यः । न । योजनम् ।
एताः । न । यामे । अगृभीतऽशोचिषः । अनश्वऽदाम् । यत् । नि । अयातन । गिरिम् ॥
tát ǀ vīryám ǀ vaḥ ǀ marutaḥ ǀ mahi-tvanám ǀ dīrghám ǀ tatāna ǀ sū́ryaḥ ǀ ná ǀ yójanam ǀ
étāḥ ǀ ná ǀ yā́me ǀ ágṛbhīta-śociṣaḥ ǀ ánaśva-dām ǀ yát ǀ ní ǀ áyātana ǀ girím ǁ
tat ǀ vīryam ǀ vaḥ ǀ marutaḥ ǀ mahi-tvanam ǀ dīrgham ǀ tatāna ǀ sūryaḥ ǀ na ǀ yojanam ǀ
etāḥ ǀ na ǀ yāme ǀ agṛbhīta-śociṣaḥ ǀ anaśva-dām ǀ yat ǀ ni ǀ ayātana ǀ girim ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 05.054.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.3.14.05
- Maṇḍala · Anuvāka · Ṛk
- 05.04.094
- Devatā देवता
- Maruts
- Ṛṣi ऋषि
- Śyāvāśva Ātreya
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.