Ṛk 5.54.6
Saṃhitā
अभ्रा॑जि॒ शर्धो॑ मरुतो॒ यद॑र्ण॒सं मोष॑था वृ॒क्षं क॑प॒नेव॑ वेधसः ।
अध॑ स्मा नो अ॒रम॑तिं सजोषस॒श्चक्षु॑रिव॒ यंत॒मनु॑ नेषथा सु॒गं ॥
अभ्राजि शर्धो मरुतो यद् अर्णसम् मोषथा वृक्षं कपनेव वेधसः |
अध स्मा नो अरमतिं सजोषसश् चक्षुर् इव यन्तम् अनु नेषथा सुगम् ||
ábhrāji śárdho maruto yádarṇasám móṣathā vṛkṣám kapanéva vedhasaḥ ǀ
ádha smā no arámatim sajoṣasaścákṣuriva yántamánu neṣathā sugám ǁ
abhrāji śardho maruto yad arṇasam moṣathā vṛkṣaṃ kapaneva vedhasaḥ |
adha smā no aramatiṃ sajoṣasaś cakṣur iva yantam anu neṣathā sugam ||
Padapāṭha
अभ्रा॑जि । शर्धः॑ । म॒रु॒तः॒ । यत् । अ॒र्ण॒सम् । मोष॑थ । वृ॒क्षम् । क॒प॒नाऽइ॑व । वे॒ध॒सः॒ ।
अध॑ । स्म॒ । नः॒ । अ॒रम॑तिम् । स॒ऽजो॒ष॒सः॒ । चक्षुः॑ऽइव । यन्त॑म् । अनु॑ । ने॒ष॒थ॒ । सु॒ऽगम् ॥
अभ्राजि । शर्धः । मरुतः । यत् । अर्णसम् । मोषथ । वृक्षम् । कपनाऽइव । वेधसः ।
अध । स्म । नः । अरमतिम् । सऽजोषसः । चक्षुःऽइव । यन्तम् । अनु । नेषथ । सुऽगम् ॥
ábhrāji ǀ śárdhaḥ ǀ marutaḥ ǀ yát ǀ arṇasám ǀ móṣatha ǀ vṛkṣám ǀ kapanā́-iva ǀ vedhasaḥ ǀ
ádha ǀ sma ǀ naḥ ǀ arámatim ǀ sa-joṣasaḥ ǀ cákṣuḥ-iva ǀ yántam ǀ ánu ǀ neṣatha ǀ su-gám ǁ
abhrāji ǀ śardhaḥ ǀ marutaḥ ǀ yat ǀ arṇasam ǀ moṣatha ǀ vṛkṣam ǀ kapanā-iva ǀ vedhasaḥ ǀ
adha ǀ sma ǀ naḥ ǀ aramatim ǀ sa-joṣasaḥ ǀ cakṣuḥ-iva ǀ yantam ǀ anu ǀ neṣatha ǀ su-gam ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 05.054.06
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.3.15.01
- Maṇḍala · Anuvāka · Ṛk
- 05.04.095
- Devatā देवता
- Maruts
- Ṛṣi ऋषि
- Śyāvāśva Ātreya
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- गान्धारः
Text and interpretations from the Ṛgveda database of theveda.org.in.