Ṛk 5.54.8
Saṃhitā
नि॒युत्वं॑तो ग्राम॒जितो॒ यथा॒ नरो॑ऽर्य॒मणो॒ न म॒रुतः॑ कबं॒धिनः॑ ।
पिन्वं॒त्युत्सं॒ यदि॒नासो॒ अस्व॑र॒न्व्युं॑दंति पृथि॒वीं मध्वो॒ अंध॑सा ॥
नियुत्वन्तो ग्रामजितो यथा नरो ऽर्यमणो न मरुतः कबन्धिनः |
पिन्वन्त्य् उत्सं यद् इनासो अस्वरन् व्य् उन्दन्ति पृथिवीम् मध्वो अन्धसा ||
niyútvanto grāmajíto yáthā náro’ryamáṇo ná marútaḥ kabandhínaḥ ǀ
pínvantyútsam yádinā́so ásvaranvyúndanti pṛthivī́m mádhvo ándhasā ǁ
niyutvanto grāmajito yathā naro 'ryamaṇo na marutaḥ kabandhinaḥ |
pinvanty utsaṃ yad ināso asvaran vy undanti pṛthivīm madhvo andhasā ||
Padapāṭha
नि॒युत्व॑न्तः । ग्रा॒म॒ऽजितः॑ । यथा॑ । नरः॑ । अ॒र्य॒मणः॑ । न । म॒रुतः॑ । क॒ब॒न्धिनः॑ ।
पिन्व॑न्ति । उत्स॑म् । यत् । इ॒नासः॑ । अस्व॑रन् । वि । उ॒न्द॒न्ति॒ । पृ॒थि॒वीम् । मध्वः॑ । अन्ध॑सा ॥
नियुत्वन्तः । ग्रामऽजितः । यथा । नरः । अर्यमणः । न । मरुतः । कबन्धिनः ।
पिन्वन्ति । उत्सम् । यत् । इनासः । अस्वरन् । वि । उन्दन्ति । पृथिवीम् । मध्वः । अन्धसा ॥
niyútvantaḥ ǀ grāma-jítaḥ ǀ yáthā ǀ náraḥ ǀ aryamáṇaḥ ǀ ná ǀ marútaḥ ǀ kabandhínaḥ ǀ
pínvanti ǀ útsam ǀ yát ǀ inā́saḥ ǀ ásvaran ǀ ví ǀ undanti ǀ pṛthivī́m ǀ mádhvaḥ ǀ ándhasā ǁ
niyutvantaḥ ǀ grāma-jitaḥ ǀ yathā ǀ naraḥ ǀ aryamaṇaḥ ǀ na ǀ marutaḥ ǀ kabandhinaḥ ǀ
pinvanti ǀ utsam ǀ yat ǀ ināsaḥ ǀ asvaran ǀ vi ǀ undanti ǀ pṛthivīm ǀ madhvaḥ ǀ andhasā ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 05.054.08
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.3.15.03
- Maṇḍala · Anuvāka · Ṛk
- 05.04.097
- Devatā देवता
- Maruts
- Ṛṣi ऋषि
- Śyāvāśva Ātreya
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.