Ṛk 5.54.12
Saṃhitā
तं नाक॑म॒र्यो अगृ॑भीतशोचिषं॒ रुश॒त्पिप्प॑लं मरुतो॒ वि धू॑नुथ ।
सम॑च्यंत वृ॒जनाति॑त्विषंत॒ यत्स्वरं॑ति॒ घोषं॒ वित॑तमृता॒यवः॑ ॥
तं नाकम् अर्यो अगृभीतशोचिषं रुशत् पिप्पलम् मरुतो वि धूनुथ |
सम् अच्यन्त वृजनातित्विषन्त यत् स्वरन्ति घोषं विततम् ऋतायवः ||
tám nā́kamaryó ágṛbhītaśociṣam rúśatpíppalam maruto ví dhūnutha ǀ
sámacyanta vṛjánā́titviṣanta yátsváranti ghóṣam vítatamṛtāyávaḥ ǁ
taṃ nākam aryo agṛbhītaśociṣaṃ ruśat pippalam maruto vi dhūnutha |
sam acyanta vṛjanātitviṣanta yat svaranti ghoṣaṃ vitatam ṛtāyavaḥ ||
Padapāṭha
तम् । नाक॑म् । अ॒र्यः । अगृ॑भीतऽशोचिषम् । रुश॑त् । पिप्प॑लम् । म॒रु॒तः॒ । वि । धू॒नु॒थ॒ ।
सम् । अ॒च्य॒न्त॒ । वृ॒जना॑ । अति॑त्विषन्त । यत् । स्वर॑न्ति । घोष॑म् । विऽत॑तम् । ऋ॒त॒ऽयवः॑ ॥
तम् । नाकम् । अर्यः । अगृभीतऽशोचिषम् । रुशत् । पिप्पलम् । मरुतः । वि । धूनुथ ।
सम् । अच्यन्त । वृजना । अतित्विषन्त । यत् । स्वरन्ति । घोषम् । विऽततम् । ऋतऽयवः ॥
tám ǀ nā́kam ǀ aryáḥ ǀ ágṛbhīta-śociṣam ǀ rúśat ǀ píppalam ǀ marutaḥ ǀ ví ǀ dhūnutha ǀ
sám ǀ acyanta ǀ vṛjánā ǀ átitviṣanta ǀ yát ǀ sváranti ǀ ghóṣam ǀ ví-tatam ǀ ṛta-yávaḥ ǁ
tam ǀ nākam ǀ aryaḥ ǀ agṛbhīta-śociṣam ǀ ruśat ǀ pippalam ǀ marutaḥ ǀ vi ǀ dhūnutha ǀ
sam ǀ acyanta ǀ vṛjanā ǀ atitviṣanta ǀ yat ǀ svaranti ǀ ghoṣam ǀ vi-tatam ǀ ṛta-yavaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 05.054.12
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.3.16.02
- Maṇḍala · Anuvāka · Ṛk
- 05.04.101
- Devatā देवता
- Maruts
- Ṛṣi ऋषि
- Śyāvāśva Ātreya
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- गान्धारः
Text and interpretations from the Ṛgveda database of theveda.org.in.