Sūkta 30
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Babhru Ātreya
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles nicṛttriṣṭup (1-5, 9); triṣṭup (7, 11, 12); svarāṭpaṅkti (8, 14, 15); paṅktiḥ (6, 13); virāṭtrisṭup (10)
2nd set of styles triṣṭubh
-
Ṛk 1
क्व१॒॑ स्य वी॒रः को अ॑पश्य॒दिंद्रं॑ सु॒खर॑थ॒मीय॑मानं॒ हरि॑भ्यां ।
यो रा॒या व॒ज्री सु॒तसो॑ममि॒च्छंतदोको॒ गंता॑ पुरुहू॒त ऊ॒ती ॥क्व स्य वीरः को अपश्यद् इन्द्रं सुखरथम् ईयमानं हरिभ्याम् |
यो राया वज्री सुतसोमम् इच्छन् तद् ओको गन्ता पुरुहूत ऊती ||kvá syá vīráḥ kó apaśyadíndram sukhárathamī́yamānam háribhyām ǀ
yó rāyā́ vajrī́ sutásomamicchántádóko gántā puruhūtá ūtī́ ǁkva sya vīraḥ ko apaśyad indraṃ sukharatham īyamānaṃ haribhyām |
yo rāyā vajrī sutasomam icchan tad oko gantā puruhūta ūtī ||क्व॑ । स्यः । वी॒रः । कः । अ॒प॒श्य॒त् । इन्द्र॑म् । सु॒खऽर॑थम् । ईय॑मानम् । हरि॑ऽभ्याम् ।
यः । रा॒या । व॒ज्री । सु॒तऽसो॑मम् । इ॒च्छन् । तत् । ओकः॑ । गन्ता॑ । पु॒रु॒ऽहू॒तः । ऊ॒ती ॥क्व । स्यः । वीरः । कः । अपश्यत् । इन्द्रम् । सुखऽरथम् । ईयमानम् । हरिऽभ्याम् ।
यः । राया । वज्री । सुतऽसोमम् । इच्छन् । तत् । ओकः । गन्ता । पुरुऽहूतः । ऊती ॥kvá ǀ syáḥ ǀ vīráḥ ǀ káḥ ǀ apaśyat ǀ índram ǀ sukhá-ratham ǀ ī́yamānam ǀ hári-bhyām ǀ
yáḥ ǀ rāyā́ ǀ vajrī́ ǀ sutá-somam ǀ icchán ǀ tát ǀ ókaḥ ǀ gántā ǀ puru-hūtáḥ ǀ ūtī́ ǁkva ǀ syaḥ ǀ vīraḥ ǀ kaḥ ǀ apaśyat ǀ indram ǀ sukha-ratham ǀ īyamānam ǀ hari-bhyām ǀ
yaḥ ǀ rāyā ǀ vajrī ǀ suta-somam ǀ icchan ǀ tat ǀ okaḥ ǀ gantā ǀ puru-hūtaḥ ǀ ūtī ǁ5.30.1 Aṣṭaka 4.1.26.1Anuvāka 5.2.91
-
Ṛk 2
अवा॑चचक्षं प॒दम॑स्य स॒स्वरु॒ग्रं नि॑धा॒तुरन्वा॑यमि॒च्छन् ।
अपृ॑च्छम॒न्याँ उ॒त ते म॑ आहु॒रिंद्रं॒ नरो॑ बुबुधा॒ना अ॑शेम ॥अवाचचक्षम् पदम् अस्य सस्वर् उग्रं निधातुर् अन्व् आयम् इच्छन् |
अपृच्छम् अन्यां उत ते म आहुर् इन्द्रं नरो बुबुधाना अशेम ||ávācacakṣam padámasya sasvárugrám nidhātúránvāyamicchán ǀ
ápṛcchamanyā́m̐ utá té ma āhuríndram náro bubudhānā́ aśema ǁavācacakṣam padam asya sasvar ugraṃ nidhātur anv āyam icchan |
apṛccham anyāṃ uta te ma āhur indraṃ naro bubudhānā aśema ||अव॑ । अ॒च॒च॒क्ष॒म् । प॒दम् । अ॒स्य॒ । स॒स्वः । उ॒ग्रम् । नि॒ऽधा॒तुः । अनु॑ । आ॒य॒म् । इ॒च्छन् ।
अपृ॑च्छम् । अ॒न्यान् । उ॒त । ते । मे॒ । आ॒हुः॒ । इन्द्र॑म् । नरः॑ । बु॒बु॒धा॒नाः । अ॒शे॒म॒ ॥अव । अचचक्षम् । पदम् । अस्य । सस्वः । उग्रम् । निऽधातुः । अनु । आयम् । इच्छन् ।
अपृच्छम् । अन्यान् । उत । ते । मे । आहुः । इन्द्रम् । नरः । बुबुधानाः । अशेम ॥áva ǀ acacakṣam ǀ padám ǀ asya ǀ sasváḥ ǀ ugrám ǀ ni-dhātúḥ ǀ ánu ǀ āyam ǀ icchán ǀ
ápṛccham ǀ anyā́n ǀ utá ǀ té ǀ me ǀ āhuḥ ǀ índram ǀ náraḥ ǀ bubudhānā́ḥ ǀ aśema ǁava ǀ acacakṣam ǀ padam ǀ asya ǀ sasvaḥ ǀ ugram ǀ ni-dhātuḥ ǀ anu ǀ āyam ǀ icchan ǀ
apṛccham ǀ anyān ǀ uta ǀ te ǀ me ǀ āhuḥ ǀ indram ǀ naraḥ ǀ bubudhānāḥ ǀ aśema ǁ5.30.2 Aṣṭaka 4.1.26.2Anuvāka 5.2.92
-
Ṛk 3
प्र नु व॒यं सु॒ते या ते॑ कृ॒तानींद्र॒ ब्रवा॑म॒ यानि॑ नो॒ जुजो॑षः ।
वेद॒दवि॑द्वांछृ॒णव॑च्च वि॒द्वान्वह॑ते॒ऽयं म॒घवा॒ सर्व॑सेनः ॥प्र नु वयं सुते या ते कृतानीन्द्र ब्रवाम यानि नो जुजोषः |
वेदद् अविद्वाञ् छृणवच् च विद्वान् वहते ऽयम् मघवा सर्वसेनः ||prá nú vayám suté yā́ te kṛtā́nī́ndra brávāma yā́ni no jújoṣaḥ ǀ
védadávidvāñchṛṇávacca vidvā́nváhate’yám maghávā sárvasenaḥ ǁpra nu vayaṃ sute yā te kṛtānīndra bravāma yāni no jujoṣaḥ |
vedad avidvāñ chṛṇavac ca vidvān vahate 'yam maghavā sarvasenaḥ ||प्र । नु । व॒यम् । सु॒ते । या । ते॒ । कृ॒तानि॑ । इन्द्र॑ । ब्रवा॑म । यानि॑ । नः॒ । जुजो॑षः ।
वेद॑त् । अवि॑द्वान् । शृ॒णव॑त् । च॒ । वि॒द्वान् । वह॑ते । अ॒यम् । म॒घऽवा॑ । सर्व॑ऽसेनः ॥प्र । नु । वयम् । सुते । या । ते । कृतानि । इन्द्र । ब्रवाम । यानि । नः । जुजोषः ।
वेदत् । अविद्वान् । शृणवत् । च । विद्वान् । वहते । अयम् । मघऽवा । सर्वऽसेनः ॥prá ǀ nú ǀ vayám ǀ suté ǀ yā́ ǀ te ǀ kṛtā́ni ǀ índra ǀ brávāma ǀ yā́ni ǀ naḥ ǀ jújoṣaḥ ǀ
védat ǀ ávidvān ǀ śṛṇávat ǀ ca ǀ vidvā́n ǀ váhate ǀ ayám ǀ maghá-vā ǀ sárva-senaḥ ǁpra ǀ nu ǀ vayam ǀ sute ǀ yā ǀ te ǀ kṛtāni ǀ indra ǀ bravāma ǀ yāni ǀ naḥ ǀ jujoṣaḥ ǀ
vedat ǀ avidvān ǀ śṛṇavat ǀ ca ǀ vidvān ǀ vahate ǀ ayam ǀ magha-vā ǀ sarva-senaḥ ǁ5.30.3 Aṣṭaka 4.1.26.3Anuvāka 5.2.93
-
Ṛk 4
स्थि॒रं मन॑श्चकृषे जा॒त इं॑द्र॒ वेषीदेको॑ यु॒धये॒ भूय॑सश्चित् ।
अश्मा॑नं चि॒च्छव॑सा दिद्युतो॒ वि वि॒दो गवा॑मू॒र्वमु॒स्रिया॑णां ॥स्थिरम् मनश् चकृषे जात इन्द्र वेषीद् एको युधये भूयसश् चित् |
अश्मानं चिच् छवसा दिद्युतो वि विदो गवाम् ऊर्वम् उस्रियाणाम् ||sthirám mánaścakṛṣe jātá indra véṣī́déko yudháye bhū́yasaścit ǀ
áśmānam cicchávasā didyuto ví vidó gávāmūrvámusríyāṇām ǁsthiram manaś cakṛṣe jāta indra veṣīd eko yudhaye bhūyasaś cit |
aśmānaṃ cic chavasā didyuto vi vido gavām ūrvam usriyāṇām ||स्थि॒रम् । मनः॑ । च॒कृ॒षे॒ । जा॒तः । इ॒न्द्र॒ । वेषि॑ । इत् । एकः॑ । यु॒धये॑ । भूय॑सः । चि॒त् ।
अश्मा॑नम् । चि॒त् । शव॑सा । दि॒द्यु॒तः॒ । वि । वि॒दः । गवा॑म् । ऊ॒र्वम् । उ॒स्रिया॑णाम् ॥स्थिरम् । मनः । चकृषे । जातः । इन्द्र । वेषि । इत् । एकः । युधये । भूयसः । चित् ।
अश्मानम् । चित् । शवसा । दिद्युतः । वि । विदः । गवाम् । ऊर्वम् । उस्रियाणाम् ॥sthirám ǀ mánaḥ ǀ cakṛṣe ǀ jātáḥ ǀ indra ǀ véṣi ǀ ít ǀ ékaḥ ǀ yudháye ǀ bhū́yasaḥ ǀ cit ǀ
áśmānam ǀ cit ǀ śávasā ǀ didyutaḥ ǀ ví ǀ vidáḥ ǀ gávām ǀ ūrvám ǀ usríyāṇām ǁsthiram ǀ manaḥ ǀ cakṛṣe ǀ jātaḥ ǀ indra ǀ veṣi ǀ it ǀ ekaḥ ǀ yudhaye ǀ bhūyasaḥ ǀ cit ǀ
aśmānam ǀ cit ǀ śavasā ǀ didyutaḥ ǀ vi ǀ vidaḥ ǀ gavām ǀ ūrvam ǀ usriyāṇām ǁ5.30.4 Aṣṭaka 4.1.26.4Anuvāka 5.2.94
-
Ṛk 5
प॒रो यत्त्वं प॑र॒म आ॒जनि॑ष्ठाः परा॒वति॒ श्रुत्यं॒ नाम॒ बिभ्र॑त् ।
अत॑श्चि॒दिंद्रा॑दभयंत दे॒वा विश्वा॑ अ॒पो अ॑जयद्दा॒सप॑त्नीः ॥परो यत् त्वम् परम आजनिष्ठाः परावति श्रुत्यं नाम बिभ्रत् |
अतश् चिद् इन्द्राद् अभयन्त देवा विश्वा अपो अजयद् दासपत्नीः ||paró yáttvám paramá ājániṣṭhāḥ parāváti śrútyam nā́ma bíbhrat ǀ
átaścidíndrādabhayanta devā́ víśvā apó ajayaddāsápatnīḥ ǁparo yat tvam parama ājaniṣṭhāḥ parāvati śrutyaṃ nāma bibhrat |
ataś cid indrād abhayanta devā viśvā apo ajayad dāsapatnīḥ ||प॒रः । यत् । त्वम् । प॒र॒मः । आ॒ऽजनि॑ष्ठाः । प॒रा॒ऽवति॑ । श्रुत्य॑म् । नाम॑ । बिभ्र॑त् ।
अतः॑ । चि॒त् । इन्द्रा॑त् । अ॒भ॒य॒न्त॒ । दे॒वाः । विश्वाः॑ । अ॒पः । अ॒ज॒य॒त् । दा॒सऽप॑त्नीः ॥परः । यत् । त्वम् । परमः । आऽजनिष्ठाः । पराऽवति । श्रुत्यम् । नाम । बिभ्रत् ।
अतः । चित् । इन्द्रात् । अभयन्त । देवाः । विश्वाः । अपः । अजयत् । दासऽपत्नीः ॥paráḥ ǀ yát ǀ tvám ǀ paramáḥ ǀ ā-jániṣṭhāḥ ǀ parā-váti ǀ śrútyam ǀ nā́ma ǀ bíbhrat ǀ
átaḥ ǀ cit ǀ índrāt ǀ abhayanta ǀ devā́ḥ ǀ víśvāḥ ǀ apáḥ ǀ ajayat ǀ dāsá-patnīḥ ǁparaḥ ǀ yat ǀ tvam ǀ paramaḥ ǀ ā-janiṣṭhāḥ ǀ parā-vati ǀ śrutyam ǀ nāma ǀ bibhrat ǀ
ataḥ ǀ cit ǀ indrāt ǀ abhayanta ǀ devāḥ ǀ viśvāḥ ǀ apaḥ ǀ ajayat ǀ dāsa-patnīḥ ǁ5.30.5 Aṣṭaka 4.1.26.5Anuvāka 5.2.95
-
Ṛk 6
तुभ्येदे॒ते म॒रुतः॑ सु॒शेवा॒ अर्चं॑त्य॒र्कं सु॒न्वंत्यंधः॑ ।
अहि॑मोहा॒नम॒प आ॒शया॑नं॒ प्र मा॒याभि॑र्मा॒यिनं॑ सक्ष॒दिंद्रः॑ ॥तुभ्येद् एते मरुतः सुशेवा अर्चन्त्य् अर्कं सुन्वन्त्य् अन्धः |
अहिम् ओहानम् अप आशयानम् प्र मायाभिर् मायिनं सक्षद् इन्द्रः ||túbhyédeté marútaḥ suśévā árcantyarkám sunvántyándhaḥ ǀ
áhimohānámapá āśáyānam prá māyā́bhirmāyínam sakṣadíndraḥ ǁtubhyed ete marutaḥ suśevā arcanty arkaṃ sunvanty andhaḥ |
ahim ohānam apa āśayānam pra māyābhir māyinaṃ sakṣad indraḥ ||तुभ्य॑ । इत् । ए॒ते । म॒रुतः॑ । सु॒ऽशेवाः॑ । अर्च॑न्ति । अ॒र्कम् । सु॒न्वन्ति॑ । अन्धः॑ ।
अहि॑म् । ओ॒हा॒नम् । अ॒पः । आ॒ऽशया॑नम् । प्र । मा॒याभिः॑ । मा॒यिन॑म् । स॒क्ष॒त् । इन्द्रः॑ ॥तुभ्य । इत् । एते । मरुतः । सुऽशेवाः । अर्चन्ति । अर्कम् । सुन्वन्ति । अन्धः ।
अहिम् । ओहानम् । अपः । आऽशयानम् । प्र । मायाभिः । मायिनम् । सक्षत् । इन्द्रः ॥túbhya ǀ ít ǀ eté ǀ marútaḥ ǀ su-śévāḥ ǀ árcanti ǀ arkám ǀ sunvánti ǀ ándhaḥ ǀ
áhim ǀ ohānám ǀ apáḥ ǀ ā-śáyānam ǀ prá ǀ māyā́bhiḥ ǀ māyínam ǀ sakṣat ǀ índraḥ ǁtubhya ǀ it ǀ ete ǀ marutaḥ ǀ su-śevāḥ ǀ arcanti ǀ arkam ǀ sunvanti ǀ andhaḥ ǀ
ahim ǀ ohānam ǀ apaḥ ǀ ā-śayānam ǀ pra ǀ māyābhiḥ ǀ māyinam ǀ sakṣat ǀ indraḥ ǁ5.30.6 Aṣṭaka 4.1.27.1Anuvāka 5.2.96
-
Ṛk 7
वि षू मृधो॑ ज॒नुषा॒ दान॒मिन्व॒न्नह॒न्गवा॑ मघवन्त्संचका॒नः ।
अत्रा॑ दा॒सस्य॒ नमु॑चेः॒ शिरो॒ यदव॑र्तयो॒ मन॑वे गा॒तुमि॒च्छन् ॥वि षू मृधो जनुषा दानम् इन्वन्न् अहन् गवा मघवन् संचकानः |
अत्रा दासस्य नमुचेः शिरो यद् अवर्तयो मनवे गातुम् इच्छन् ||ví ṣū́ mṛ́dho janúṣā dā́namínvannáhangávā maghavantsaṃcakānáḥ ǀ
átrā dāsásya námuceḥ śíro yádávartayo mánave gātúmicchán ǁvi ṣū mṛdho januṣā dānam invann ahan gavā maghavan saṃcakānaḥ |
atrā dāsasya namuceḥ śiro yad avartayo manave gātum icchan ||वि । सु । मृधः॑ । ज॒नुषा॑ । दान॑म् । इन्व॑न् । अह॑न् । गवा॑ । म॒घ॒ऽव॒न् । स॒म्ऽच॒का॒नः ।
अत्र॑ । दा॒सस्य॑ । नमु॑चेः । शिरः॑ । यत् । अव॑र्तयः । मन॑वे । गा॒तुम् । इ॒च्छन् ॥वि । सु । मृधः । जनुषा । दानम् । इन्वन् । अहन् । गवा । मघऽवन् । सम्ऽचकानः ।
अत्र । दासस्य । नमुचेः । शिरः । यत् । अवर्तयः । मनवे । गातुम् । इच्छन् ॥ví ǀ sú ǀ mṛ́dhaḥ ǀ janúṣā ǀ dā́nam ǀ ínvan ǀ áhan ǀ gávā ǀ magha-van ǀ sam-cakānáḥ ǀ
átra ǀ dāsásya ǀ námuceḥ ǀ śíraḥ ǀ yát ǀ ávartayaḥ ǀ mánave ǀ gātúm ǀ icchán ǁvi ǀ su ǀ mṛdhaḥ ǀ januṣā ǀ dānam ǀ invan ǀ ahan ǀ gavā ǀ magha-van ǀ sam-cakānaḥ ǀ
atra ǀ dāsasya ǀ namuceḥ ǀ śiraḥ ǀ yat ǀ avartayaḥ ǀ manave ǀ gātum ǀ icchan ǁ5.30.7 Aṣṭaka 4.1.27.2Anuvāka 5.2.97
-
Ṛk 8
युजं॒ हि मामकृ॑था॒ आदिदिं॑द्र॒ शिरो॑ दा॒सस्य॒ नमु॑चेर्मथा॒यन् ।
अश्मा॑नं चित्स्व॒र्यं१॒॑ वर्त॑मानं॒ प्र च॒क्रिये॑व॒ रोद॑सी म॒रुद्भ्यः॑ ॥युजं हि माम् अकृथा आद् इद् इन्द्र शिरो दासस्य नमुचेर् मथायन् |
अश्मानं चित् स्वर्यं वर्तमानम् प्र चक्रियेव रोदसी मरुद्भ्यः ||yújam hí mā́mákṛthā ā́dídindra śíro dāsásya námucermathāyán ǀ
áśmānam citsvaryám vártamānam prá cakríyeva ródasī marúdbhyaḥ ǁyujaṃ hi mām akṛthā ād id indra śiro dāsasya namucer mathāyan |
aśmānaṃ cit svaryaṃ vartamānam pra cakriyeva rodasī marudbhyaḥ ||युज॑म् । हि । माम् । अकृ॑थाः । आत् । इत् । इ॒न्द्र॒ । शिरः॑ । दा॒सस्य॑ । नमु॑चेः । म॒था॒यन् ।
अश्मा॑नम् । चि॒त् । स्व॒र्य॑म् । वर्त॑मानम् । प्र । च॒क्रिया॑ऽइव । रोद॑सी॒ इति॑ । म॒रुत्ऽभ्यः॑ ॥युजम् । हि । माम् । अकृथाः । आत् । इत् । इन्द्र । शिरः । दासस्य । नमुचेः । मथायन् ।
अश्मानम् । चित् । स्वर्यम् । वर्तमानम् । प्र । चक्रियाऽइव । रोदसी इति । मरुत्ऽभ्यः ॥yújam ǀ hí ǀ mā́m ǀ ákṛthāḥ ǀ ā́t ǀ ít ǀ indra ǀ śíraḥ ǀ dāsásya ǀ námuceḥ ǀ mathāyán ǀ
áśmānam ǀ cit ǀ svaryám ǀ vártamānam ǀ prá ǀ cakríyā-iva ǀ ródasī íti ǀ marút-bhyaḥ ǁyujam ǀ hi ǀ mām ǀ akṛthāḥ ǀ āt ǀ it ǀ indra ǀ śiraḥ ǀ dāsasya ǀ namuceḥ ǀ mathāyan ǀ
aśmānam ǀ cit ǀ svaryam ǀ vartamānam ǀ pra ǀ cakriyā-iva ǀ rodasī iti ǀ marut-bhyaḥ ǁ5.30.8 Aṣṭaka 4.1.27.3Anuvāka 5.2.98
-
Ṛk 9
स्त्रियो॒ हि दा॒स आयु॑धानि च॒क्रे किं मा॑ करन्नब॒ला अ॑स्य॒ सेनाः॑ ।
अं॒तर्ह्यख्य॑दु॒भे अ॑स्य॒ धेने॒ अथोप॒ प्रैद्यु॒धये॒ दस्यु॒मिंद्रः॑ ॥स्त्रियो हि दास आयुधानि चक्रे किम् मा करन्न् अबला अस्य सेनाः |
अन्तर् ह्य् अख्यद् उभे अस्य धेने अथोप प्रैद् युधये दस्युम् इन्द्रः ||stríyo hí dāsá ā́yudhāni cakré kím mā karannabalā́ asya sénāḥ ǀ
antárhyákhyadubhé asya dhéne áthópa práidyudháye dásyumíndraḥ ǁstriyo hi dāsa āyudhāni cakre kim mā karann abalā asya senāḥ |
antar hy akhyad ubhe asya dhene athopa praid yudhaye dasyum indraḥ ||स्त्रियः॑ । हि । दा॒सः । आयु॑धानि । च॒क्रे । किम् । मा॒ । क॒र॒न् । अ॒ब॒लाः । अ॒स्य॒ । सेनाः॑ ।
अ॒न्तः । हि । अख्य॑त् । उ॒भे इति॑ । अ॒स्य॒ । धेने॒ इति॑ । अथ॑ । उप॑ । प्र । ऐ॒त् । यु॒धये॑ । दस्यु॑म् । इन्द्रः॑ ॥स्त्रियः । हि । दासः । आयुधानि । चक्रे । किम् । मा । करन् । अबलाः । अस्य । सेनाः ।
अन्तः । हि । अख्यत् । उभे इति । अस्य । धेने इति । अथ । उप । प्र । ऐत् । युधये । दस्युम् । इन्द्रः ॥stríyaḥ ǀ hí ǀ dāsáḥ ǀ ā́yudhāni ǀ cakré ǀ kím ǀ mā ǀ karan ǀ abalā́ḥ ǀ asya ǀ sénāḥ ǀ
antáḥ ǀ hí ǀ ákhyat ǀ ubhé íti ǀ asya ǀ dhéne íti ǀ átha ǀ úpa ǀ prá ǀ ait ǀ yudháye ǀ dásyum ǀ índraḥ ǁstriyaḥ ǀ hi ǀ dāsaḥ ǀ āyudhāni ǀ cakre ǀ kim ǀ mā ǀ karan ǀ abalāḥ ǀ asya ǀ senāḥ ǀ
antaḥ ǀ hi ǀ akhyat ǀ ubhe iti ǀ asya ǀ dhene iti ǀ atha ǀ upa ǀ pra ǀ ait ǀ yudhaye ǀ dasyum ǀ indraḥ ǁ5.30.9 Aṣṭaka 4.1.27.4Anuvāka 5.2.99
-
Ṛk 10
समत्र॒ गावो॒ऽभितो॑ऽनवंते॒हेह॑ व॒त्सैर्वियु॑ता॒ यदास॑न् ।
सं ता इंद्रो॑ असृजदस्य शा॒कैर्यदीं॒ सोमा॑सः॒ सुषु॑ता॒ अमं॑दन् ॥सम् अत्र गावो ऽभितो ऽनवन्तेहेह वत्सैर् वियुता यद् आसन् |
सं ता इन्द्रो असृजद् अस्य शाकैर् यद् ईं सोमासः सुषुता अमन्दन् ||sámátra gā́vo’bhíto’navantehéha vatsáirvíyutā yádā́san ǀ
sám tā́ índro asṛjadasya śākáiryádīm sómāsaḥ súṣutā ámandan ǁsam atra gāvo 'bhito 'navanteheha vatsair viyutā yad āsan |
saṃ tā indro asṛjad asya śākair yad īṃ somāsaḥ suṣutā amandan ||सम् । अत्र॑ । गावः॑ । अ॒भितः॑ । अ॒न॒व॒न्त॒ । इ॒हऽइ॑ह । व॒त्सैः । विऽयु॑ताः । यत् । आस॑न् ।
सम् । ताः । इन्द्रः॑ । अ॒सृ॒ज॒त् । अ॒स्य॒ । शा॒कैः । यत् । ई॒म् । सोमा॑सः । सुऽसु॑ताः । अम॑न्दन् ॥सम् । अत्र । गावः । अभितः । अनवन्त । इहऽइह । वत्सैः । विऽयुताः । यत् । आसन् ।
सम् । ताः । इन्द्रः । असृजत् । अस्य । शाकैः । यत् । ईम् । सोमासः । सुऽसुताः । अमन्दन् ॥sám ǀ átra ǀ gā́vaḥ ǀ abhítaḥ ǀ anavanta ǀ ihá-iha ǀ vatsáiḥ ǀ ví-yutāḥ ǀ yát ǀ ā́san ǀ
sám ǀ tā́ḥ ǀ índraḥ ǀ asṛjat ǀ asya ǀ śākáiḥ ǀ yát ǀ īm ǀ sómāsaḥ ǀ sú-sutāḥ ǀ ámandan ǁsam ǀ atra ǀ gāvaḥ ǀ abhitaḥ ǀ anavanta ǀ iha-iha ǀ vatsaiḥ ǀ vi-yutāḥ ǀ yat ǀ āsan ǀ
sam ǀ tāḥ ǀ indraḥ ǀ asṛjat ǀ asya ǀ śākaiḥ ǀ yat ǀ īm ǀ somāsaḥ ǀ su-sutāḥ ǀ amandan ǁ5.30.10 Aṣṭaka 4.1.27.5Anuvāka 5.2.100
-
Ṛk 11
यदीं॒ सोमा॑ ब॒भ्रुधू॑ता॒ अमं॑द॒न्नरो॑रवीद्वृष॒भः साद॑नेषु ।
पु॒रं॒द॒रः प॑पि॒वाँ इंद्रो॑ अस्य॒ पुन॒र्गवा॑मददादु॒स्रिया॑णां ॥यद् ईं सोमा बभ्रुधूता अमन्दन्न् अरोरवीद् वृषभः सादनेषु |
पुरन्दरः पपिवां इन्द्रो अस्य पुनर् गवाम् अददाद् उस्रियाणाम् ||yádīm sómā babhrúdhūtā ámandannároravīdvṛṣabháḥ sā́daneṣu ǀ
puraṃdaráḥ papivā́m̐ índro asya púnargávāmadadādusríyāṇām ǁyad īṃ somā babhrudhūtā amandann aroravīd vṛṣabhaḥ sādaneṣu |
purandaraḥ papivāṃ indro asya punar gavām adadād usriyāṇām ||यत् । ई॒म् । सोमाः॑ । ब॒भ्रुऽधू॑ताः । अम॑न्दन् । अरो॑रवीत् । वृ॒ष॒भः । सद॑नेषु ।
पु॒र॒म्ऽद॒रः । प॒पि॒ऽवान् । इन्द्रः॑ । अ॒स्य॒ । पुनः॑ । गवा॑म् । अ॒द॒दा॒त् । उ॒स्रिया॑णाम् ॥यत् । ईम् । सोमाः । बभ्रुऽधूताः । अमन्दन् । अरोरवीत् । वृषभः । सदनेषु ।
पुरम्ऽदरः । पपिऽवान् । इन्द्रः । अस्य । पुनः । गवाम् । अददात् । उस्रियाणाम् ॥yát ǀ īm ǀ sómāḥ ǀ babhrú-dhūtāḥ ǀ ámandan ǀ ároravīt ǀ vṛṣabháḥ ǀ sádaneṣu ǀ
puram-daráḥ ǀ papi-vā́n ǀ índraḥ ǀ asya ǀ púnaḥ ǀ gávām ǀ adadāt ǀ usríyāṇām ǁyat ǀ īm ǀ somāḥ ǀ babhru-dhūtāḥ ǀ amandan ǀ aroravīt ǀ vṛṣabhaḥ ǀ sadaneṣu ǀ
puram-daraḥ ǀ papi-vān ǀ indraḥ ǀ asya ǀ punaḥ ǀ gavām ǀ adadāt ǀ usriyāṇām ǁ5.30.11 Aṣṭaka 4.1.28.1Anuvāka 5.2.101
-
Ṛk 12
भ॒द्रमि॒दं रु॒शमा॑ अग्ने अक्र॒न्गवां॑ च॒त्वारि॒ दद॑तः स॒हस्रा॑ ।
ऋ॒णं॒च॒यस्य॒ प्रय॑ता म॒घानि॒ प्रत्य॑ग्रभीष्म॒ नृत॑मस्य नृ॒णां ॥भद्रम् इदं रुशमा अग्ने अक्रन् गवां चत्वारि ददतः सहस्रा |
ऋणञ्चयस्य प्रयता मघानि प्रत्य् अग्रभीष्म नृतमस्य नृणाम् ||bhadrámidám ruśámā agne akrangávām catvā́ri dádataḥ sahásrā ǀ
ṛṇaṃcayásya práyatā maghā́ni prátyagrabhīṣma nṛ́tamasya nṛṇā́m ǁbhadram idaṃ ruśamā agne akran gavāṃ catvāri dadataḥ sahasrā |
ṛṇañcayasya prayatā maghāni praty agrabhīṣma nṛtamasya nṛṇām ||भ॒द्रम् । इ॒दम् । रु॒शमाः॑ । अ॒ग्ने॒ । अ॒क्र॒न् । गवा॑म् । च॒त्वारि॑ । दद॑तः । स॒हस्रा॑ ।
ऋ॒ण॒म्ऽच॒यस्य॑ । प्रऽय॑ता । म॒घानि॑ । प्रति॑ । अ॒ग्र॒भी॒ष्म॒ । नृऽत॑मस्य । नृ॒णाम् ॥भद्रम् । इदम् । रुशमाः । अग्ने । अक्रन् । गवाम् । चत्वारि । ददतः । सहस्रा ।
ऋणम्ऽचयस्य । प्रऽयता । मघानि । प्रति । अग्रभीष्म । नृऽतमस्य । नृणाम् ॥bhadrám ǀ idám ǀ ruśámāḥ ǀ agne ǀ akran ǀ gávām ǀ catvā́ri ǀ dádataḥ ǀ sahásrā ǀ
ṛṇam-cayásya ǀ prá-yatā ǀ maghā́ni ǀ práti ǀ agrabhīṣma ǀ nṛ́-tamasya ǀ nṛṇā́m ǁbhadram ǀ idam ǀ ruśamāḥ ǀ agne ǀ akran ǀ gavām ǀ catvāri ǀ dadataḥ ǀ sahasrā ǀ
ṛṇam-cayasya ǀ pra-yatā ǀ maghāni ǀ prati ǀ agrabhīṣma ǀ nṛ-tamasya ǀ nṛṇām ǁ5.30.12 Aṣṭaka 4.1.28.2Anuvāka 5.2.102
-
Ṛk 13
सु॒पेश॑सं॒ माव॑ सृजं॒त्यस्तं॒ गवां॑ स॒हस्रै॑ रु॒शमा॑सो अग्ने ।
ती॒व्रा इंद्र॑मममंदुः सु॒तासो॒ऽक्तोर्व्यु॑ष्टौ॒ परि॑तक्म्यायाः ॥सुपेशसम् माव सृजन्त्य् अस्तं गवां सहस्रै रुशमासो अग्ने |
तीव्रा इन्द्रम् अममन्दुः सुतासो ऽक्तोर् व्युष्टौ परितक्म्यायाः ||supéśasam mā́va sṛjantyástam gávām sahásrai ruśámāso agne ǀ
tīvrā́ índramamamanduḥ sutā́so’którvyúṣṭau páritakmyāyāḥ ǁsupeśasam māva sṛjanty astaṃ gavāṃ sahasrai ruśamāso agne |
tīvrā indram amamanduḥ sutāso 'ktor vyuṣṭau paritakmyāyāḥ ||सु॒ऽपेश॑सम् । मा॒ । अव॑ । सृ॒ज॒न्ति॒ । अस्त॑म् । गवा॑म् । स॒हस्रैः॑ । रु॒शमा॑सः । अ॒ग्ने॒ ।
ती॒व्राः । इन्द्र॑म् । अ॒म॒म॒न्दुः॒ । सु॒तासः॑ । अ॒क्तोः । विऽउ॑ष्टौ । परि॑ऽतक्म्यायाः ॥सुऽपेशसम् । मा । अव । सृजन्ति । अस्तम् । गवाम् । सहस्रैः । रुशमासः । अग्ने ।
तीव्राः । इन्द्रम् । अममन्दुः । सुतासः । अक्तोः । विऽउष्टौ । परिऽतक्म्यायाः ॥su-péśasam ǀ mā ǀ áva ǀ sṛjanti ǀ ástam ǀ gávām ǀ sahásraiḥ ǀ ruśámāsaḥ ǀ agne ǀ
tīvrā́ḥ ǀ índram ǀ amamanduḥ ǀ sutā́saḥ ǀ aktóḥ ǀ ví-uṣṭau ǀ pári-takmyāyāḥ ǁsu-peśasam ǀ mā ǀ ava ǀ sṛjanti ǀ astam ǀ gavām ǀ sahasraiḥ ǀ ruśamāsaḥ ǀ agne ǀ
tīvrāḥ ǀ indram ǀ amamanduḥ ǀ sutāsaḥ ǀ aktoḥ ǀ vi-uṣṭau ǀ pari-takmyāyāḥ ǁ5.30.13 Aṣṭaka 4.1.28.3Anuvāka 5.2.103
-
Ṛk 14
औच्छ॒त्सा रात्री॒ परि॑तक्म्या॒ याँ ऋ॑णंच॒ये राज॑नि रु॒शमा॑नां ।
अत्यो॒ न वा॒जी र॒घुर॒ज्यमा॑नो ब॒भ्रुश्च॒त्वार्य॑सनत्स॒हस्रा॑ ॥औच्छत् सा रात्री परितक्म्या यां ऋणञ्चये राजनि रुशमानाम् |
अत्यो न वाजी रघुर् अज्यमानो बभ्रुश् चत्वार्य् असनत् सहस्रा ||áucchatsā́ rā́trī páritakmyā yā́m̐ ṛṇaṃcayé rā́jani ruśámānām ǀ
átyo ná vājī́ raghúrajyámāno babhrúścatvā́ryasanatsahásrā ǁaucchat sā rātrī paritakmyā yāṃ ṛṇañcaye rājani ruśamānām |
atyo na vājī raghur ajyamāno babhruś catvāry asanat sahasrā ||औच्छ॑त् । सा । रात्री॑ । परि॑ऽतक्म्या । या । ऋ॒ण॒म्ऽच॒ये । राज॑नि । रु॒शमा॑नाम् ।
अत्यः॑ । न । वा॒जी । र॒घुः । अ॒ज्यमा॑नः । ब॒भ्रुः । च॒त्वारि॑ । अ॒स॒न॒त् । स॒हस्रा॑ ॥औच्छत् । सा । रात्री । परिऽतक्म्या । या । ऋणम्ऽचये । राजनि । रुशमानाम् ।
अत्यः । न । वाजी । रघुः । अज्यमानः । बभ्रुः । चत्वारि । असनत् । सहस्रा ॥áucchat ǀ sā́ ǀ rā́trī ǀ pári-takmyā ǀ yā́ ǀ ṛṇam-cayé ǀ rā́jani ǀ ruśámānām ǀ
átyaḥ ǀ ná ǀ vājī́ ǀ raghúḥ ǀ ajyámānaḥ ǀ babhrúḥ ǀ catvā́ri ǀ asanat ǀ sahásrā ǁaucchat ǀ sā ǀ rātrī ǀ pari-takmyā ǀ yā ǀ ṛṇam-caye ǀ rājani ǀ ruśamānām ǀ
atyaḥ ǀ na ǀ vājī ǀ raghuḥ ǀ ajyamānaḥ ǀ babhruḥ ǀ catvāri ǀ asanat ǀ sahasrā ǁ5.30.14 Aṣṭaka 4.1.28.4Anuvāka 5.2.104
-
Ṛk 15
चतुः॑सहस्रं॒ गव्य॑स्य प॒श्वः प्रत्य॑ग्रभीष्म रु॒शमे॑ष्वग्ने ।
घ॒र्मश्चि॑त्त॒प्तः प्र॒वृजे॒ य आसी॑दय॒स्मय॒स्तम्वादा॑म॒ विप्राः॑ ॥चतुःसहस्रं गव्यस्य पश्वः प्रत्य् अग्रभीष्म रुशमेष्व् अग्ने |
घर्मश् चित् तप्तः प्रवृजे य आसीद् अयस्मयस् तम् व् आदाम विप्राः ||cátuḥsahasram gávyasya paśváḥ prátyagrabhīṣma ruśámeṣvagne ǀ
gharmáścittaptáḥ pravṛ́je yá ā́sīdayasmáyastámvā́dāma víprāḥ ǁcatuḥsahasraṃ gavyasya paśvaḥ praty agrabhīṣma ruśameṣv agne |
gharmaś cit taptaḥ pravṛje ya āsīd ayasmayas tam v ādāma viprāḥ ||चतुः॑ऽसहस्रम् । गव्य॑स्य । प॒श्वः । प्रति॑ । अ॒ग्र॒भी॒ष्म॒ । रु॒शमे॑षु । अ॒ग्ने॒ ।
घ॒र्मः । चि॒त् । त॒प्तः । प्र॒ऽवृजे॑ । यः । आसी॑त् । अ॒य॒स्मयः॑ । तम् । ऊं॒ इति॑ । आदा॑म । विप्राः॑ ॥चतुःऽसहस्रम् । गव्यस्य । पश्वः । प्रति । अग्रभीष्म । रुशमेषु । अग्ने ।
घर्मः । चित् । तप्तः । प्रऽवृजे । यः । आसीत् । अयस्मयः । तम् । ऊं इति । आदाम । विप्राः ॥cátuḥ-sahasram ǀ gávyasya ǀ paśváḥ ǀ práti ǀ agrabhīṣma ǀ ruśámeṣu ǀ agne ǀ
gharmáḥ ǀ cit ǀ taptáḥ ǀ pra-vṛ́je ǀ yáḥ ǀ ā́sīt ǀ ayasmáyaḥ ǀ tám ǀ ūṃ íti ǀ ā́dāma ǀ víprāḥ ǁcatuḥ-sahasram ǀ gavyasya ǀ paśvaḥ ǀ prati ǀ agrabhīṣma ǀ ruśameṣu ǀ agne ǀ
gharmaḥ ǀ cit ǀ taptaḥ ǀ pra-vṛje ǀ yaḥ ǀ āsīt ǀ ayasmayaḥ ǀ tam ǀ ūṃ iti ǀ ādāma ǀ viprāḥ ǁ5.30.15 Aṣṭaka 4.1.28.5Anuvāka 5.2.105
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.