Ṛk 5.30.1
Saṃhitā
क्व१॒॑ स्य वी॒रः को अ॑पश्य॒दिंद्रं॑ सु॒खर॑थ॒मीय॑मानं॒ हरि॑भ्यां ।
यो रा॒या व॒ज्री सु॒तसो॑ममि॒च्छंतदोको॒ गंता॑ पुरुहू॒त ऊ॒ती ॥
क्व स्य वीरः को अपश्यद् इन्द्रं सुखरथम् ईयमानं हरिभ्याम् |
यो राया वज्री सुतसोमम् इच्छन् तद् ओको गन्ता पुरुहूत ऊती ||
kvá syá vīráḥ kó apaśyadíndram sukhárathamī́yamānam háribhyām ǀ
yó rāyā́ vajrī́ sutásomamicchántádóko gántā puruhūtá ūtī́ ǁ
kva sya vīraḥ ko apaśyad indraṃ sukharatham īyamānaṃ haribhyām |
yo rāyā vajrī sutasomam icchan tad oko gantā puruhūta ūtī ||
Padapāṭha
क्व॑ । स्यः । वी॒रः । कः । अ॒प॒श्य॒त् । इन्द्र॑म् । सु॒खऽर॑थम् । ईय॑मानम् । हरि॑ऽभ्याम् ।
यः । रा॒या । व॒ज्री । सु॒तऽसो॑मम् । इ॒च्छन् । तत् । ओकः॑ । गन्ता॑ । पु॒रु॒ऽहू॒तः । ऊ॒ती ॥
क्व । स्यः । वीरः । कः । अपश्यत् । इन्द्रम् । सुखऽरथम् । ईयमानम् । हरिऽभ्याम् ।
यः । राया । वज्री । सुतऽसोमम् । इच्छन् । तत् । ओकः । गन्ता । पुरुऽहूतः । ऊती ॥
kvá ǀ syáḥ ǀ vīráḥ ǀ káḥ ǀ apaśyat ǀ índram ǀ sukhá-ratham ǀ ī́yamānam ǀ hári-bhyām ǀ
yáḥ ǀ rāyā́ ǀ vajrī́ ǀ sutá-somam ǀ icchán ǀ tát ǀ ókaḥ ǀ gántā ǀ puru-hūtáḥ ǀ ūtī́ ǁ
kva ǀ syaḥ ǀ vīraḥ ǀ kaḥ ǀ apaśyat ǀ indram ǀ sukha-ratham ǀ īyamānam ǀ hari-bhyām ǀ
yaḥ ǀ rāyā ǀ vajrī ǀ suta-somam ǀ icchan ǀ tat ǀ okaḥ ǀ gantā ǀ puru-hūtaḥ ǀ ūtī ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 05.030.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.1.26.01
- Maṇḍala · Anuvāka · Ṛk
- 05.02.091
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Babhru Ātreya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.