Ṛk 5.30.7
Saṃhitā
वि षू मृधो॑ ज॒नुषा॒ दान॒मिन्व॒न्नह॒न्गवा॑ मघवन्त्संचका॒नः ।
अत्रा॑ दा॒सस्य॒ नमु॑चेः॒ शिरो॒ यदव॑र्तयो॒ मन॑वे गा॒तुमि॒च्छन् ॥
वि षू मृधो जनुषा दानम् इन्वन्न् अहन् गवा मघवन् संचकानः |
अत्रा दासस्य नमुचेः शिरो यद् अवर्तयो मनवे गातुम् इच्छन् ||
ví ṣū́ mṛ́dho janúṣā dā́namínvannáhangávā maghavantsaṃcakānáḥ ǀ
átrā dāsásya námuceḥ śíro yádávartayo mánave gātúmicchán ǁ
vi ṣū mṛdho januṣā dānam invann ahan gavā maghavan saṃcakānaḥ |
atrā dāsasya namuceḥ śiro yad avartayo manave gātum icchan ||
Padapāṭha
वि । सु । मृधः॑ । ज॒नुषा॑ । दान॑म् । इन्व॑न् । अह॑न् । गवा॑ । म॒घ॒ऽव॒न् । स॒म्ऽच॒का॒नः ।
अत्र॑ । दा॒सस्य॑ । नमु॑चेः । शिरः॑ । यत् । अव॑र्तयः । मन॑वे । गा॒तुम् । इ॒च्छन् ॥
वि । सु । मृधः । जनुषा । दानम् । इन्वन् । अहन् । गवा । मघऽवन् । सम्ऽचकानः ।
अत्र । दासस्य । नमुचेः । शिरः । यत् । अवर्तयः । मनवे । गातुम् । इच्छन् ॥
ví ǀ sú ǀ mṛ́dhaḥ ǀ janúṣā ǀ dā́nam ǀ ínvan ǀ áhan ǀ gávā ǀ magha-van ǀ sam-cakānáḥ ǀ
átra ǀ dāsásya ǀ námuceḥ ǀ śíraḥ ǀ yát ǀ ávartayaḥ ǀ mánave ǀ gātúm ǀ icchán ǁ
vi ǀ su ǀ mṛdhaḥ ǀ januṣā ǀ dānam ǀ invan ǀ ahan ǀ gavā ǀ magha-van ǀ sam-cakānaḥ ǀ
atra ǀ dāsasya ǀ namuceḥ ǀ śiraḥ ǀ yat ǀ avartayaḥ ǀ manave ǀ gātum ǀ icchan ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 05.030.07
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.1.27.02
- Maṇḍala · Anuvāka · Ṛk
- 05.02.097
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Babhru Ātreya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.