Ṛk 5.30.5
Saṃhitā
प॒रो यत्त्वं प॑र॒म आ॒जनि॑ष्ठाः परा॒वति॒ श्रुत्यं॒ नाम॒ बिभ्र॑त् ।
अत॑श्चि॒दिंद्रा॑दभयंत दे॒वा विश्वा॑ अ॒पो अ॑जयद्दा॒सप॑त्नीः ॥
परो यत् त्वम् परम आजनिष्ठाः परावति श्रुत्यं नाम बिभ्रत् |
अतश् चिद् इन्द्राद् अभयन्त देवा विश्वा अपो अजयद् दासपत्नीः ||
paró yáttvám paramá ājániṣṭhāḥ parāváti śrútyam nā́ma bíbhrat ǀ
átaścidíndrādabhayanta devā́ víśvā apó ajayaddāsápatnīḥ ǁ
paro yat tvam parama ājaniṣṭhāḥ parāvati śrutyaṃ nāma bibhrat |
ataś cid indrād abhayanta devā viśvā apo ajayad dāsapatnīḥ ||
Padapāṭha
प॒रः । यत् । त्वम् । प॒र॒मः । आ॒ऽजनि॑ष्ठाः । प॒रा॒ऽवति॑ । श्रुत्य॑म् । नाम॑ । बिभ्र॑त् ।
अतः॑ । चि॒त् । इन्द्रा॑त् । अ॒भ॒य॒न्त॒ । दे॒वाः । विश्वाः॑ । अ॒पः । अ॒ज॒य॒त् । दा॒सऽप॑त्नीः ॥
परः । यत् । त्वम् । परमः । आऽजनिष्ठाः । पराऽवति । श्रुत्यम् । नाम । बिभ्रत् ।
अतः । चित् । इन्द्रात् । अभयन्त । देवाः । विश्वाः । अपः । अजयत् । दासऽपत्नीः ॥
paráḥ ǀ yát ǀ tvám ǀ paramáḥ ǀ ā-jániṣṭhāḥ ǀ parā-váti ǀ śrútyam ǀ nā́ma ǀ bíbhrat ǀ
átaḥ ǀ cit ǀ índrāt ǀ abhayanta ǀ devā́ḥ ǀ víśvāḥ ǀ apáḥ ǀ ajayat ǀ dāsá-patnīḥ ǁ
paraḥ ǀ yat ǀ tvam ǀ paramaḥ ǀ ā-janiṣṭhāḥ ǀ parā-vati ǀ śrutyam ǀ nāma ǀ bibhrat ǀ
ataḥ ǀ cit ǀ indrāt ǀ abhayanta ǀ devāḥ ǀ viśvāḥ ǀ apaḥ ǀ ajayat ǀ dāsa-patnīḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 05.030.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.1.26.05
- Maṇḍala · Anuvāka · Ṛk
- 05.02.095
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Babhru Ātreya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.