Ṛk 5.30.11
Saṃhitā
यदीं॒ सोमा॑ ब॒भ्रुधू॑ता॒ अमं॑द॒न्नरो॑रवीद्वृष॒भः साद॑नेषु ।
पु॒रं॒द॒रः प॑पि॒वाँ इंद्रो॑ अस्य॒ पुन॒र्गवा॑मददादु॒स्रिया॑णां ॥
यद् ईं सोमा बभ्रुधूता अमन्दन्न् अरोरवीद् वृषभः सादनेषु |
पुरन्दरः पपिवां इन्द्रो अस्य पुनर् गवाम् अददाद् उस्रियाणाम् ||
yádīm sómā babhrúdhūtā ámandannároravīdvṛṣabháḥ sā́daneṣu ǀ
puraṃdaráḥ papivā́m̐ índro asya púnargávāmadadādusríyāṇām ǁ
yad īṃ somā babhrudhūtā amandann aroravīd vṛṣabhaḥ sādaneṣu |
purandaraḥ papivāṃ indro asya punar gavām adadād usriyāṇām ||
Padapāṭha
यत् । ई॒म् । सोमाः॑ । ब॒भ्रुऽधू॑ताः । अम॑न्दन् । अरो॑रवीत् । वृ॒ष॒भः । सद॑नेषु ।
पु॒र॒म्ऽद॒रः । प॒पि॒ऽवान् । इन्द्रः॑ । अ॒स्य॒ । पुनः॑ । गवा॑म् । अ॒द॒दा॒त् । उ॒स्रिया॑णाम् ॥
यत् । ईम् । सोमाः । बभ्रुऽधूताः । अमन्दन् । अरोरवीत् । वृषभः । सदनेषु ।
पुरम्ऽदरः । पपिऽवान् । इन्द्रः । अस्य । पुनः । गवाम् । अददात् । उस्रियाणाम् ॥
yát ǀ īm ǀ sómāḥ ǀ babhrú-dhūtāḥ ǀ ámandan ǀ ároravīt ǀ vṛṣabháḥ ǀ sádaneṣu ǀ
puram-daráḥ ǀ papi-vā́n ǀ índraḥ ǀ asya ǀ púnaḥ ǀ gávām ǀ adadāt ǀ usríyāṇām ǁ
yat ǀ īm ǀ somāḥ ǀ babhru-dhūtāḥ ǀ amandan ǀ aroravīt ǀ vṛṣabhaḥ ǀ sadaneṣu ǀ
puram-daraḥ ǀ papi-vān ǀ indraḥ ǀ asya ǀ punaḥ ǀ gavām ǀ adadāt ǀ usriyāṇām ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 05.030.11
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.1.28.01
- Maṇḍala · Anuvāka · Ṛk
- 05.02.101
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Babhru Ātreya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.