Ṛk 5.30.6
Saṃhitā
तुभ्येदे॒ते म॒रुतः॑ सु॒शेवा॒ अर्चं॑त्य॒र्कं सु॒न्वंत्यंधः॑ ।
अहि॑मोहा॒नम॒प आ॒शया॑नं॒ प्र मा॒याभि॑र्मा॒यिनं॑ सक्ष॒दिंद्रः॑ ॥
तुभ्येद् एते मरुतः सुशेवा अर्चन्त्य् अर्कं सुन्वन्त्य् अन्धः |
अहिम् ओहानम् अप आशयानम् प्र मायाभिर् मायिनं सक्षद् इन्द्रः ||
túbhyédeté marútaḥ suśévā árcantyarkám sunvántyándhaḥ ǀ
áhimohānámapá āśáyānam prá māyā́bhirmāyínam sakṣadíndraḥ ǁ
tubhyed ete marutaḥ suśevā arcanty arkaṃ sunvanty andhaḥ |
ahim ohānam apa āśayānam pra māyābhir māyinaṃ sakṣad indraḥ ||
Padapāṭha
तुभ्य॑ । इत् । ए॒ते । म॒रुतः॑ । सु॒ऽशेवाः॑ । अर्च॑न्ति । अ॒र्कम् । सु॒न्वन्ति॑ । अन्धः॑ ।
अहि॑म् । ओ॒हा॒नम् । अ॒पः । आ॒ऽशया॑नम् । प्र । मा॒याभिः॑ । मा॒यिन॑म् । स॒क्ष॒त् । इन्द्रः॑ ॥
तुभ्य । इत् । एते । मरुतः । सुऽशेवाः । अर्चन्ति । अर्कम् । सुन्वन्ति । अन्धः ।
अहिम् । ओहानम् । अपः । आऽशयानम् । प्र । मायाभिः । मायिनम् । सक्षत् । इन्द्रः ॥
túbhya ǀ ít ǀ eté ǀ marútaḥ ǀ su-śévāḥ ǀ árcanti ǀ arkám ǀ sunvánti ǀ ándhaḥ ǀ
áhim ǀ ohānám ǀ apáḥ ǀ ā-śáyānam ǀ prá ǀ māyā́bhiḥ ǀ māyínam ǀ sakṣat ǀ índraḥ ǁ
tubhya ǀ it ǀ ete ǀ marutaḥ ǀ su-śevāḥ ǀ arcanti ǀ arkam ǀ sunvanti ǀ andhaḥ ǀ
ahim ǀ ohānam ǀ apaḥ ǀ ā-śayānam ǀ pra ǀ māyābhiḥ ǀ māyinam ǀ sakṣat ǀ indraḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 05.030.06
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.1.27.01
- Maṇḍala · Anuvāka · Ṛk
- 05.02.096
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Babhru Ātreya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.