Ṛk 5.30.14
Saṃhitā
औच्छ॒त्सा रात्री॒ परि॑तक्म्या॒ याँ ऋ॑णंच॒ये राज॑नि रु॒शमा॑नां ।
अत्यो॒ न वा॒जी र॒घुर॒ज्यमा॑नो ब॒भ्रुश्च॒त्वार्य॑सनत्स॒हस्रा॑ ॥
औच्छत् सा रात्री परितक्म्या यां ऋणञ्चये राजनि रुशमानाम् |
अत्यो न वाजी रघुर् अज्यमानो बभ्रुश् चत्वार्य् असनत् सहस्रा ||
áucchatsā́ rā́trī páritakmyā yā́m̐ ṛṇaṃcayé rā́jani ruśámānām ǀ
átyo ná vājī́ raghúrajyámāno babhrúścatvā́ryasanatsahásrā ǁ
aucchat sā rātrī paritakmyā yāṃ ṛṇañcaye rājani ruśamānām |
atyo na vājī raghur ajyamāno babhruś catvāry asanat sahasrā ||
Padapāṭha
औच्छ॑त् । सा । रात्री॑ । परि॑ऽतक्म्या । या । ऋ॒ण॒म्ऽच॒ये । राज॑नि । रु॒शमा॑नाम् ।
अत्यः॑ । न । वा॒जी । र॒घुः । अ॒ज्यमा॑नः । ब॒भ्रुः । च॒त्वारि॑ । अ॒स॒न॒त् । स॒हस्रा॑ ॥
औच्छत् । सा । रात्री । परिऽतक्म्या । या । ऋणम्ऽचये । राजनि । रुशमानाम् ।
अत्यः । न । वाजी । रघुः । अज्यमानः । बभ्रुः । चत्वारि । असनत् । सहस्रा ॥
áucchat ǀ sā́ ǀ rā́trī ǀ pári-takmyā ǀ yā́ ǀ ṛṇam-cayé ǀ rā́jani ǀ ruśámānām ǀ
átyaḥ ǀ ná ǀ vājī́ ǀ raghúḥ ǀ ajyámānaḥ ǀ babhrúḥ ǀ catvā́ri ǀ asanat ǀ sahásrā ǁ
aucchat ǀ sā ǀ rātrī ǀ pari-takmyā ǀ yā ǀ ṛṇam-caye ǀ rājani ǀ ruśamānām ǀ
atyaḥ ǀ na ǀ vājī ǀ raghuḥ ǀ ajyamānaḥ ǀ babhruḥ ǀ catvāri ǀ asanat ǀ sahasrā ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 05.030.14
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.1.28.04
- Maṇḍala · Anuvāka · Ṛk
- 05.02.104
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Babhru Ātreya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.