Ṛk 5.30.10
Saṃhitā
समत्र॒ गावो॒ऽभितो॑ऽनवंते॒हेह॑ व॒त्सैर्वियु॑ता॒ यदास॑न् ।
सं ता इंद्रो॑ असृजदस्य शा॒कैर्यदीं॒ सोमा॑सः॒ सुषु॑ता॒ अमं॑दन् ॥
सम् अत्र गावो ऽभितो ऽनवन्तेहेह वत्सैर् वियुता यद् आसन् |
सं ता इन्द्रो असृजद् अस्य शाकैर् यद् ईं सोमासः सुषुता अमन्दन् ||
sámátra gā́vo’bhíto’navantehéha vatsáirvíyutā yádā́san ǀ
sám tā́ índro asṛjadasya śākáiryádīm sómāsaḥ súṣutā ámandan ǁ
sam atra gāvo 'bhito 'navanteheha vatsair viyutā yad āsan |
saṃ tā indro asṛjad asya śākair yad īṃ somāsaḥ suṣutā amandan ||
Padapāṭha
सम् । अत्र॑ । गावः॑ । अ॒भितः॑ । अ॒न॒व॒न्त॒ । इ॒हऽइ॑ह । व॒त्सैः । विऽयु॑ताः । यत् । आस॑न् ।
सम् । ताः । इन्द्रः॑ । अ॒सृ॒ज॒त् । अ॒स्य॒ । शा॒कैः । यत् । ई॒म् । सोमा॑सः । सुऽसु॑ताः । अम॑न्दन् ॥
सम् । अत्र । गावः । अभितः । अनवन्त । इहऽइह । वत्सैः । विऽयुताः । यत् । आसन् ।
सम् । ताः । इन्द्रः । असृजत् । अस्य । शाकैः । यत् । ईम् । सोमासः । सुऽसुताः । अमन्दन् ॥
sám ǀ átra ǀ gā́vaḥ ǀ abhítaḥ ǀ anavanta ǀ ihá-iha ǀ vatsáiḥ ǀ ví-yutāḥ ǀ yát ǀ ā́san ǀ
sám ǀ tā́ḥ ǀ índraḥ ǀ asṛjat ǀ asya ǀ śākáiḥ ǀ yát ǀ īm ǀ sómāsaḥ ǀ sú-sutāḥ ǀ ámandan ǁ
sam ǀ atra ǀ gāvaḥ ǀ abhitaḥ ǀ anavanta ǀ iha-iha ǀ vatsaiḥ ǀ vi-yutāḥ ǀ yat ǀ āsan ǀ
sam ǀ tāḥ ǀ indraḥ ǀ asṛjat ǀ asya ǀ śākaiḥ ǀ yat ǀ īm ǀ somāsaḥ ǀ su-sutāḥ ǀ amandan ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 05.030.10
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.1.27.05
- Maṇḍala · Anuvāka · Ṛk
- 05.02.100
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Babhru Ātreya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.