Ṛk 5.30.3
Saṃhitā
प्र नु व॒यं सु॒ते या ते॑ कृ॒तानींद्र॒ ब्रवा॑म॒ यानि॑ नो॒ जुजो॑षः ।
वेद॒दवि॑द्वांछृ॒णव॑च्च वि॒द्वान्वह॑ते॒ऽयं म॒घवा॒ सर्व॑सेनः ॥
प्र नु वयं सुते या ते कृतानीन्द्र ब्रवाम यानि नो जुजोषः |
वेदद् अविद्वाञ् छृणवच् च विद्वान् वहते ऽयम् मघवा सर्वसेनः ||
prá nú vayám suté yā́ te kṛtā́nī́ndra brávāma yā́ni no jújoṣaḥ ǀ
védadávidvāñchṛṇávacca vidvā́nváhate’yám maghávā sárvasenaḥ ǁ
pra nu vayaṃ sute yā te kṛtānīndra bravāma yāni no jujoṣaḥ |
vedad avidvāñ chṛṇavac ca vidvān vahate 'yam maghavā sarvasenaḥ ||
Padapāṭha
प्र । नु । व॒यम् । सु॒ते । या । ते॒ । कृ॒तानि॑ । इन्द्र॑ । ब्रवा॑म । यानि॑ । नः॒ । जुजो॑षः ।
वेद॑त् । अवि॑द्वान् । शृ॒णव॑त् । च॒ । वि॒द्वान् । वह॑ते । अ॒यम् । म॒घऽवा॑ । सर्व॑ऽसेनः ॥
प्र । नु । वयम् । सुते । या । ते । कृतानि । इन्द्र । ब्रवाम । यानि । नः । जुजोषः ।
वेदत् । अविद्वान् । शृणवत् । च । विद्वान् । वहते । अयम् । मघऽवा । सर्वऽसेनः ॥
prá ǀ nú ǀ vayám ǀ suté ǀ yā́ ǀ te ǀ kṛtā́ni ǀ índra ǀ brávāma ǀ yā́ni ǀ naḥ ǀ jújoṣaḥ ǀ
védat ǀ ávidvān ǀ śṛṇávat ǀ ca ǀ vidvā́n ǀ váhate ǀ ayám ǀ maghá-vā ǀ sárva-senaḥ ǁ
pra ǀ nu ǀ vayam ǀ sute ǀ yā ǀ te ǀ kṛtāni ǀ indra ǀ bravāma ǀ yāni ǀ naḥ ǀ jujoṣaḥ ǀ
vedat ǀ avidvān ǀ śṛṇavat ǀ ca ǀ vidvān ǀ vahate ǀ ayam ǀ magha-vā ǀ sarva-senaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 05.030.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.1.26.03
- Maṇḍala · Anuvāka · Ṛk
- 05.02.093
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Babhru Ātreya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.