Ṛk 5.30.15
Saṃhitā
चतुः॑सहस्रं॒ गव्य॑स्य प॒श्वः प्रत्य॑ग्रभीष्म रु॒शमे॑ष्वग्ने ।
घ॒र्मश्चि॑त्त॒प्तः प्र॒वृजे॒ य आसी॑दय॒स्मय॒स्तम्वादा॑म॒ विप्राः॑ ॥
चतुःसहस्रं गव्यस्य पश्वः प्रत्य् अग्रभीष्म रुशमेष्व् अग्ने |
घर्मश् चित् तप्तः प्रवृजे य आसीद् अयस्मयस् तम् व् आदाम विप्राः ||
cátuḥsahasram gávyasya paśváḥ prátyagrabhīṣma ruśámeṣvagne ǀ
gharmáścittaptáḥ pravṛ́je yá ā́sīdayasmáyastámvā́dāma víprāḥ ǁ
catuḥsahasraṃ gavyasya paśvaḥ praty agrabhīṣma ruśameṣv agne |
gharmaś cit taptaḥ pravṛje ya āsīd ayasmayas tam v ādāma viprāḥ ||
Padapāṭha
चतुः॑ऽसहस्रम् । गव्य॑स्य । प॒श्वः । प्रति॑ । अ॒ग्र॒भी॒ष्म॒ । रु॒शमे॑षु । अ॒ग्ने॒ ।
घ॒र्मः । चि॒त् । त॒प्तः । प्र॒ऽवृजे॑ । यः । आसी॑त् । अ॒य॒स्मयः॑ । तम् । ऊं॒ इति॑ । आदा॑म । विप्राः॑ ॥
चतुःऽसहस्रम् । गव्यस्य । पश्वः । प्रति । अग्रभीष्म । रुशमेषु । अग्ने ।
घर्मः । चित् । तप्तः । प्रऽवृजे । यः । आसीत् । अयस्मयः । तम् । ऊं इति । आदाम । विप्राः ॥
cátuḥ-sahasram ǀ gávyasya ǀ paśváḥ ǀ práti ǀ agrabhīṣma ǀ ruśámeṣu ǀ agne ǀ
gharmáḥ ǀ cit ǀ taptáḥ ǀ pra-vṛ́je ǀ yáḥ ǀ ā́sīt ǀ ayasmáyaḥ ǀ tám ǀ ūṃ íti ǀ ā́dāma ǀ víprāḥ ǁ
catuḥ-sahasram ǀ gavyasya ǀ paśvaḥ ǀ prati ǀ agrabhīṣma ǀ ruśameṣu ǀ agne ǀ
gharmaḥ ǀ cit ǀ taptaḥ ǀ pra-vṛje ǀ yaḥ ǀ āsīt ǀ ayasmayaḥ ǀ tam ǀ ūṃ iti ǀ ādāma ǀ viprāḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 05.030.15
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.1.28.05
- Maṇḍala · Anuvāka · Ṛk
- 05.02.105
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Babhru Ātreya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.