Ṛgveda · Maṇḍala 5

Sūkta 51

Viśvedevās · Svastyātreya Ātreya · 15 ṛks

Link
Devatā देवता
Viśvedevās
Ṛṣi ऋषि
Svastyātreya Ātreya
Chandas छन्दस्
Uṣṇih, Gāyatrī, Jagatī Or Triṣṭubh, Anuṣṭubh
Metres by ṛk

1st set of styles nicṛduṣṇik (5, 8-10); nicṛdgāyatrī (2-4); anuṣṭup (14, 15); gāyatrī (1); uṣṇik (6); virāḍuṣnik (7); nicṛttriṣṭup (11); triṣṭup (12); paṅktiḥ (13)

2nd set of styles uṣṇih (5-10); gāyatrī (1-4); jagatī or triṣṭubh (11-13); anuṣṭubh (14, 15)

  1. Ṛk 1

    अग्ने॑ सु॒तस्य॑ पी॒तये॒ विश्वै॒रूमे॑भि॒रा ग॑हि ।
    दे॒वेभि॑र्ह॒व्यदा॑तये ॥

    अग्ने सुतस्य पीतये विश्वैर् ऊमेभिर् आ गहि |
    देवेभिर् हव्यदातये ||

    ágne sutásya pītáye víśvairū́mebhirā́ gahi ǀ
    devébhirhavyádātaye ǁ

    agne sutasya pītaye viśvair ūmebhir ā gahi |
    devebhir havyadātaye ||

    अग्ने॑ । सु॒तस्य॑ । पी॒तये॑ । विश्वैः॑ । ऊमे॑भिः । आ । ग॒हि॒ ।
    दे॒वेभिः॑ । ह॒व्यऽदा॑तये ॥

    अग्ने । सुतस्य । पीतये । विश्वैः । ऊमेभिः । आ । गहि ।
    देवेभिः । हव्यऽदातये ॥

    ágne ǀ sutásya ǀ pītáye ǀ víśvaiḥ ǀ ū́mebhiḥ ǀ ā́ ǀ gahi ǀ
    devébhiḥ ǀ havyá-dātaye ǁ

    agne ǀ sutasya ǀ pītaye ǀ viśvaiḥ ǀ ūmebhiḥ ǀ ā ǀ gahi ǀ
    devebhiḥ ǀ havya-dātaye ǁ

    5.51.1 Aṣṭaka 4.3.5.1Anuvāka 5.4.42

  2. Ṛk 2

    ऋत॑धीतय॒ आ ग॑त॒ सत्य॑धर्माणो अध्व॒रं ।
    अ॒ग्नेः पि॑बत जि॒ह्वया॑ ॥

    ऋतधीतय आ गत सत्यधर्माणो अध्वरम् |
    अग्नेः पिबत जिह्वया ||

    ṛ́tadhītaya ā́ gata sátyadharmāṇo adhvarám ǀ
    agnéḥ pibata jihváyā ǁ

    ṛtadhītaya ā gata satyadharmāṇo adhvaram |
    agneḥ pibata jihvayā ||

    ऋत॑ऽधीतयः । आ । ग॒त॒ । सत्य॑ऽधर्माणः । अ॒ध्व॒रम् ।
    अ॒ग्नेः । पि॒ब॒त॒ । जि॒ह्वया॑ ॥

    ऋतऽधीतयः । आ । गत । सत्यऽधर्माणः । अध्वरम् ।
    अग्नेः । पिबत । जिह्वया ॥

    ṛ́ta-dhītayaḥ ǀ ā́ ǀ gata ǀ sátya-dharmāṇaḥ ǀ adhvarám ǀ
    agnéḥ ǀ pibata ǀ jihváyā ǁ

    ṛta-dhītayaḥ ǀ ā ǀ gata ǀ satya-dharmāṇaḥ ǀ adhvaram ǀ
    agneḥ ǀ pibata ǀ jihvayā ǁ

    5.51.2 Aṣṭaka 4.3.5.2Anuvāka 5.4.43

  3. Ṛk 3

    विप्रे॑भिर्विप्र संत्य प्रात॒र्याव॑भि॒रा ग॑हि ।
    दे॒वेभिः॒ सोम॑पीतये ॥

    विप्रेभिर् विप्र सन्त्य प्रातर्यावभिर् आ गहि |
    देवेभिः सोमपीतये ||

    víprebhirvipra santya prātaryā́vabhirā́ gahi ǀ
    devébhiḥ sómapītaye ǁ

    viprebhir vipra santya prātaryāvabhir ā gahi |
    devebhiḥ somapītaye ||

    विप्रे॑भिः । वि॒प्र॒ । स॒न्त्य॒ । प्रा॒त॒र्याव॑ऽभिः । आ । ग॒हि॒ ।
    दे॒वेभिः॑ । सोम॑ऽपीतये ॥

    विप्रेभिः । विप्र । सन्त्य । प्रातर्यावऽभिः । आ । गहि ।
    देवेभिः । सोमऽपीतये ॥

    víprebhiḥ ǀ vipra ǀ santya ǀ prātaryā́va-bhiḥ ǀ ā́ ǀ gahi ǀ
    devébhiḥ ǀ sóma-pītaye ǁ

    viprebhiḥ ǀ vipra ǀ santya ǀ prātaryāva-bhiḥ ǀ ā ǀ gahi ǀ
    devebhiḥ ǀ soma-pītaye ǁ

    5.51.3 Aṣṭaka 4.3.5.3Anuvāka 5.4.44

  4. Ṛk 4

    अ॒यं सोम॑श्च॒मू सु॒तोऽम॑त्रे॒ परि॑ षिच्यते ।
    प्रि॒य इंद्रा॑य वा॒यवे॑ ॥

    अयं सोमश् चमू सुतो ऽमत्रे परि षिच्यते |
    प्रिय इन्द्राय वायवे ||

    ayám sómaścamū́ sutó’matre pári ṣicyate ǀ
    priyá índrāya vāyáve ǁ

    ayaṃ somaś camū suto 'matre pari ṣicyate |
    priya indrāya vāyave ||

    अ॒यम् । सोमः॑ । च॒मू इति॑ । सु॒तः । अम॑त्रे । परि॑ । सि॒च्य॒ते॒ ।
    प्रि॒यः । इन्द्रा॑य । वा॒यवे॑ ॥

    अयम् । सोमः । चमू इति । सुतः । अमत्रे । परि । सिच्यते ।
    प्रियः । इन्द्राय । वायवे ॥

    ayám ǀ sómaḥ ǀ camū́ íti ǀ sutáḥ ǀ ámatre ǀ pári ǀ sicyate ǀ
    priyáḥ ǀ índrāya ǀ vāyáve ǁ

    ayam ǀ somaḥ ǀ camū iti ǀ sutaḥ ǀ amatre ǀ pari ǀ sicyate ǀ
    priyaḥ ǀ indrāya ǀ vāyave ǁ

    5.51.4 Aṣṭaka 4.3.5.4Anuvāka 5.4.45

  5. Ṛk 5

    वाय॒वा या॑हि वी॒तये॑ जुषा॒णो ह॒व्यदा॑तये ।
    पिबा॑ सु॒तस्यांध॑सो अ॒भि प्रयः॑ ॥

    वायव् आ याहि वीतये जुषाणो हव्यदातये |
    पिबा सुतस्यान्धसो अभि प्रयः ||

    vā́yavā́ yāhi vītáye juṣāṇó havyádātaye ǀ
    píbā sutásyā́ndhaso abhí práyaḥ ǁ

    vāyav ā yāhi vītaye juṣāṇo havyadātaye |
    pibā sutasyāndhaso abhi prayaḥ ||

    वायो॒ इति॑ । आ । या॒हि॒ । वी॒तये॑ । जु॒षा॒णः । ह॒व्यऽदा॑तये ।
    पिब॑ । सु॒तस्य॑ । अन्ध॑सः । अ॒भि । प्रयः॑ ॥

    वायो इति । आ । याहि । वीतये । जुषाणः । हव्यऽदातये ।
    पिब । सुतस्य । अन्धसः । अभि । प्रयः ॥

    vā́yo íti ǀ ā́ ǀ yāhi ǀ vītáye ǀ juṣāṇáḥ ǀ havyá-dātaye ǀ
    píba ǀ sutásya ǀ ándhasaḥ ǀ abhí ǀ práyaḥ ǁ

    vāyo iti ǀ ā ǀ yāhi ǀ vītaye ǀ juṣāṇaḥ ǀ havya-dātaye ǀ
    piba ǀ sutasya ǀ andhasaḥ ǀ abhi ǀ prayaḥ ǁ

    5.51.5 Aṣṭaka 4.3.5.5Anuvāka 5.4.46

  6. Ṛk 6

    इंद्र॑श्च वायवेषां सु॒तानां॑ पी॒तिम॑र्हथः ।
    तांजु॑षेथामरे॒पसा॑व॒भि प्रयः॑ ॥

    इन्द्रश् च वायव् एषां सुतानाम् पीतिम् अर्हथः |
    ताञ् जुषेथाम् अरेपसाव् अभि प्रयः ||

    índraśca vāyaveṣām sutā́nām pītímarhathaḥ ǀ
    tā́ñjuṣethāmarepásāvabhí prayaḥ ǁ

    indraś ca vāyav eṣāṃ sutānām pītim arhathaḥ |
    tāñ juṣethām arepasāv abhi prayaḥ ||

    इन्द्रः॑ । च॒ । वायो॒ इति॑ । ए॒षा॒म् । सु॒ताना॑म् । पी॒तिम् । अ॒र्ह॒थः॒ ।
    तान् । जु॒षे॒था॒म् । अ॒रे॒पसौ । अ॒भि । प्रयः॑ ॥

    इन्द्रः । च । वायो इति । एषाम् । सुतानाम् । पीतिम् । अर्हथः ।
    तान् । जुषेथाम् । अरेपसौ । अभि । प्रयः ॥

    índraḥ ǀ ca ǀ vā́yo íti ǀ eṣām ǀ sutā́nām ǀ pītím ǀ arhathaḥ ǀ
    tā́n ǀ juṣethām ǀ arepásáu ǀ abhí ǀ práyaḥ ǁ

    indraḥ ǀ ca ǀ vāyo iti ǀ eṣām ǀ sutānām ǀ pītim ǀ arhathaḥ ǀ
    tān ǀ juṣethām ǀ arepasau ǀ abhi ǀ prayaḥ ǁ

    5.51.6 Aṣṭaka 4.3.6.1Anuvāka 5.4.47

  7. Ṛk 7

    सु॒ता इंद्रा॑य वा॒यवे॒ सोमा॑सो॒ दध्या॑शिरः ।
    नि॒म्नं न यं॑ति॒ सिंध॑वो॒ऽभि प्रयः॑ ॥

    सुता इन्द्राय वायवे सोमासो दध्याशिरः |
    निम्नं न यन्ति सिन्धवो ऽभि प्रयः ||

    sutā́ índrāya vāyáve sómāso dádhyāśiraḥ ǀ
    nimnám ná yanti síndhavo’bhí práyaḥ ǁ

    sutā indrāya vāyave somāso dadhyāśiraḥ |
    nimnaṃ na yanti sindhavo 'bhi prayaḥ ||

    सु॒ताः । इन्द्रा॑य । वा॒यवे॑ । सोमा॑सः । दधि॑ऽआशिरः ।
    नि॒म्नम् । न । य॒न्ति॒ । सिन्ध॑वः । अ॒भि । प्रयः॑ ॥

    सुताः । इन्द्राय । वायवे । सोमासः । दधिऽआशिरः ।
    निम्नम् । न । यन्ति । सिन्धवः । अभि । प्रयः ॥

    sutā́ḥ ǀ índrāya ǀ vāyáve ǀ sómāsaḥ ǀ dádhi-āśiraḥ ǀ
    nimnám ǀ ná ǀ yanti ǀ síndhavaḥ ǀ abhí ǀ práyaḥ ǁ

    sutāḥ ǀ indrāya ǀ vāyave ǀ somāsaḥ ǀ dadhi-āśiraḥ ǀ
    nimnam ǀ na ǀ yanti ǀ sindhavaḥ ǀ abhi ǀ prayaḥ ǁ

    5.51.7 Aṣṭaka 4.3.6.2Anuvāka 5.4.48

  8. Ṛk 8

    स॒जूर्विश्वे॑भिर्दे॒वेभि॑र॒श्विभ्या॑मु॒षसा॑ स॒जूः ।
    आ या॑ह्यग्ने अत्रि॒वत्सु॒ते र॑ण ॥

    सजूर् विश्वेभिर् देवेभिर् अश्विभ्याम् उषसा सजूः |
    आ याह्य् अग्ने अत्रिवत् सुते रण ||

    sajū́rvíśvebhirdevébhiraśvíbhyāmuṣásā sajū́ḥ ǀ
    ā́ yāhyagne atrivátsuté raṇa ǁ

    sajūr viśvebhir devebhir aśvibhyām uṣasā sajūḥ |
    ā yāhy agne atrivat sute raṇa ||

    स॒ऽजूः । विश्वे॑भिः । दे॒वेभिः॑ । अ॒श्विऽभ्या॑म् । उ॒षसा॑ । स॒ऽजूः ।
    आ । या॒हि॒ । अ॒ग्ने॒ । अ॒त्रि॒ऽवत् । सु॒ते । र॒ण॒ ॥

    सऽजूः । विश्वेभिः । देवेभिः । अश्विऽभ्याम् । उषसा । सऽजूः ।
    आ । याहि । अग्ने । अत्रिऽवत् । सुते । रण ॥

    sa-jū́ḥ ǀ víśvebhiḥ ǀ devébhiḥ ǀ aśví-bhyām ǀ uṣásā ǀ sa-jū́ḥ ǀ
    ā́ ǀ yāhi ǀ agne ǀ atri-vát ǀ suté ǀ raṇa ǁ

    sa-jūḥ ǀ viśvebhiḥ ǀ devebhiḥ ǀ aśvi-bhyām ǀ uṣasā ǀ sa-jūḥ ǀ
    ā ǀ yāhi ǀ agne ǀ atri-vat ǀ sute ǀ raṇa ǁ

    5.51.8 Aṣṭaka 4.3.6.3Anuvāka 5.4.49

  9. Ṛk 9

    स॒जूर्मि॒त्रावरु॑णाभ्यां स॒जूः सोमे॑न॒ विष्णु॑ना ।
    आ या॑ह्यग्ने अत्रि॒वत्सु॒ते र॑ण ॥

    सजूर् मित्रावरुणाभ्यां सजूः सोमेन विष्णुना |
    आ याह्य् अग्ने अत्रिवत् सुते रण ||

    sajū́rmitrā́váruṇābhyām sajū́ḥ sómena víṣṇunā ǀ
    ā́ yāhyagne atrivátsuté raṇa ǁ

    sajūr mitrāvaruṇābhyāṃ sajūḥ somena viṣṇunā |
    ā yāhy agne atrivat sute raṇa ||

    स॒ऽजूः । मि॒त्रावरु॑णाभ्याम् । स॒ऽजूः । सोमे॑न । विष्णु॑ना ।
    आ । या॒हि॒ । अ॒ग्ने॒ । अ॒त्रि॒ऽवत् । सु॒ते । र॒ण॒ ॥

    सऽजूः । मित्रावरुणाभ्याम् । सऽजूः । सोमेन । विष्णुना ।
    आ । याहि । अग्ने । अत्रिऽवत् । सुते । रण ॥

    sa-jū́ḥ ǀ mitrā́váruṇābhyām ǀ sa-jū́ḥ ǀ sómena ǀ víṣṇunā ǀ
    ā́ ǀ yāhi ǀ agne ǀ atri-vát ǀ suté ǀ raṇa ǁ

    sa-jūḥ ǀ mitrāvaruṇābhyām ǀ sa-jūḥ ǀ somena ǀ viṣṇunā ǀ
    ā ǀ yāhi ǀ agne ǀ atri-vat ǀ sute ǀ raṇa ǁ

    5.51.9 Aṣṭaka 4.3.6.4Anuvāka 5.4.50

  10. Ṛk 10

    स॒जूरा॑दि॒त्यैर्वसु॑भिः स॒जूरिंद्रे॑ण वा॒युना॑ ।
    आ या॑ह्यग्ने अत्रि॒वत्सु॒ते र॑ण ॥

    सजूर् आदित्यैर् वसुभिः सजूर् इन्द्रेण वायुना |
    आ याह्य् अग्ने अत्रिवत् सुते रण ||

    sajū́rādityáirvásubhiḥ sajū́ríndreṇa vāyúnā ǀ
    ā́ yāhyagne atrivátsuté raṇa ǁ

    sajūr ādityair vasubhiḥ sajūr indreṇa vāyunā |
    ā yāhy agne atrivat sute raṇa ||

    स॒ऽजूः । आ॒दि॒त्यैः । वसु॑ऽभिः । स॒ऽजूः । इन्द्रे॑ण । वा॒युना॑ ।
    आ । या॒हि॒ । अ॒ग्ने॒ । अ॒त्रि॒ऽवत् । सु॒ते । र॒ण॒ ॥

    सऽजूः । आदित्यैः । वसुऽभिः । सऽजूः । इन्द्रेण । वायुना ।
    आ । याहि । अग्ने । अत्रिऽवत् । सुते । रण ॥

    sa-jū́ḥ ǀ ādityáiḥ ǀ vásu-bhiḥ ǀ sa-jū́ḥ ǀ índreṇa ǀ vāyúnā ǀ
    ā́ ǀ yāhi ǀ agne ǀ atri-vát ǀ suté ǀ raṇa ǁ

    sa-jūḥ ǀ ādityaiḥ ǀ vasu-bhiḥ ǀ sa-jūḥ ǀ indreṇa ǀ vāyunā ǀ
    ā ǀ yāhi ǀ agne ǀ atri-vat ǀ sute ǀ raṇa ǁ

    5.51.10 Aṣṭaka 4.3.6.5Anuvāka 5.4.51

  11. Ṛk 11

    स्व॒स्ति नो॑ मिमीताम॒श्विना॒ भगः॑ स्व॒स्ति दे॒व्यदि॑तिरन॒र्वणः॑ ।
    स्व॒स्ति पू॒षा असु॑रो दधातु नः स्व॒स्ति द्यावा॑पृथि॒वी सु॑चे॒तुना॑ ॥

    स्वस्ति नो मिमीताम् अश्विना भगः स्वस्ति देव्य् अदितिर् अनर्वणः |
    स्वस्ति पूषा असुरो दधातु नः स्वस्ति द्यावापृथिवी सुचेतुना ||

    svastí no mimītāmaśvínā bhágaḥ svastí devyáditiranarváṇaḥ ǀ
    svastí pūṣā́ ásuro dadhātu naḥ svastí dyā́vāpṛthivī́ sucetúnā ǁ

    svasti no mimītām aśvinā bhagaḥ svasti devy aditir anarvaṇaḥ |
    svasti pūṣā asuro dadhātu naḥ svasti dyāvāpṛthivī sucetunā ||

    स्व॒स्ति । नः॒ । मि॒मी॒ता॒म् । अ॒श्विना॑ । भगः॑ । स्व॒स्ति । दे॒वी । अदि॑तिः । अ॒न॒र्वणः॑ ।
    स्व॒स्ति । पू॒षा । असु॑रः । द॒धा॒तु॒ । नः॒ । स्व॒स्ति । द्यावा॑पृथि॒वी इति॑ । सु॒ऽचे॒तुना॑ ॥

    स्वस्ति । नः । मिमीताम् । अश्विना । भगः । स्वस्ति । देवी । अदितिः । अनर्वणः ।
    स्वस्ति । पूषा । असुरः । दधातु । नः । स्वस्ति । द्यावापृथिवी इति । सुऽचेतुना ॥

    svastí ǀ naḥ ǀ mimītām ǀ aśvínā ǀ bhágaḥ ǀ svastí ǀ devī́ ǀ áditiḥ ǀ anarváṇaḥ ǀ
    svastí ǀ pūṣā́ ǀ ásuraḥ ǀ dadhātu ǀ naḥ ǀ svastí ǀ dyā́vāpṛthivī́ íti ǀ su-cetúnā ǁ

    svasti ǀ naḥ ǀ mimītām ǀ aśvinā ǀ bhagaḥ ǀ svasti ǀ devī ǀ aditiḥ ǀ anarvaṇaḥ ǀ
    svasti ǀ pūṣā ǀ asuraḥ ǀ dadhātu ǀ naḥ ǀ svasti ǀ dyāvāpṛthivī iti ǀ su-cetunā ǁ

    5.51.11 Aṣṭaka 4.3.7.1Anuvāka 5.4.52

  12. Ṛk 12

    स्व॒स्तये॑ वा॒युमुप॑ ब्रवामहै॒ सोमं॑ स्व॒स्ति भुव॑नस्य॒ यस्पतिः॑ ।
    बृह॒स्पतिं॒ सर्व॑गणं स्व॒स्तये॑ स्व॒स्तय॑ आदि॒त्यासो॑ भवंतु नः ॥

    स्वस्तये वायुम् उप ब्रवामहै सोमं स्वस्ति भुवनस्य यस् पतिः |
    बृहस्पतिं सर्वगणं स्वस्तये स्वस्तय आदित्यासो भवन्तु नः ||

    svastáye vāyúmúpa bravāmahai sómam svastí bhúvanasya yáspátiḥ ǀ
    bṛ́haspátim sárvagaṇam svastáye svastáya ādityā́so bhavantu naḥ ǁ

    svastaye vāyum upa bravāmahai somaṃ svasti bhuvanasya yas patiḥ |
    bṛhaspatiṃ sarvagaṇaṃ svastaye svastaya ādityāso bhavantu naḥ ||

    स्व॒स्तये॑ । वा॒युम् । उप॑ । ब्र॒वा॒म॒है॒ । सोम॑म् । स्व॒स्ति । भुव॑नस्य । यः । पतिः॑ ।
    बृह॒स्पति॑म् । सर्व॑ऽगणम् । स्व॒स्तये॑ । स्व॒स्तये॑ । आ॒दि॒त्यासः॑ । भ॒व॒न्तु॒ । नः॒ ॥

    स्वस्तये । वायुम् । उप । ब्रवामहै । सोमम् । स्वस्ति । भुवनस्य । यः । पतिः ।
    बृहस्पतिम् । सर्वऽगणम् । स्वस्तये । स्वस्तये । आदित्यासः । भवन्तु । नः ॥

    svastáye ǀ vāyúm ǀ úpa ǀ bravāmahai ǀ sómam ǀ svastí ǀ bhúvanasya ǀ yáḥ ǀ pátiḥ ǀ
    bṛ́haspátim ǀ sárva-gaṇam ǀ svastáye ǀ svastáye ǀ ādityā́saḥ ǀ bhavantu ǀ naḥ ǁ

    svastaye ǀ vāyum ǀ upa ǀ bravāmahai ǀ somam ǀ svasti ǀ bhuvanasya ǀ yaḥ ǀ patiḥ ǀ
    bṛhaspatim ǀ sarva-gaṇam ǀ svastaye ǀ svastaye ǀ ādityāsaḥ ǀ bhavantu ǀ naḥ ǁ

    5.51.12 Aṣṭaka 4.3.7.2Anuvāka 5.4.53

  13. Ṛk 13

    विश्वे॑ दे॒वा नो॑ अ॒द्या स्व॒स्तये॑ वैश्वान॒रो वसु॑र॒ग्निः स्व॒स्तये॑ ।
    दे॒वा अ॑वंत्वृ॒भवः॑ स्व॒स्तये॑ स्व॒स्ति नो॑ रु॒द्रः पा॒त्वंह॑सः ॥

    विश्वे देवा नो अद्या स्वस्तये वैश्वानरो वसुर् अग्निः स्वस्तये |
    देवा अवन्त्व् ऋभवः स्वस्तये स्वस्ति नो रुद्रः पात्व् अंहसः ||

    víśve devā́ no adyā́ svastáye vaiśvānaró vásuragníḥ svastáye ǀ
    devā́ avantvṛbhávaḥ svastáye svastí no rudráḥ pātváṃhasaḥ ǁ

    viśve devā no adyā svastaye vaiśvānaro vasur agniḥ svastaye |
    devā avantv ṛbhavaḥ svastaye svasti no rudraḥ pātv aṃhasaḥ ||

    विश्वे॑ । दे॒वाः । नः॒ । अ॒द्य । स्व॒स्तये॑ । वै॒श्वा॒न॒रः । वसुः॑ । अ॒ग्निः । स्व॒स्तये॑ ।
    दे॒वाः । अ॒व॒न्तु॒ । ऋ॒भवः॑ । स्व॒स्तये॑ । स्व॒स्ति । नः॒ । रु॒द्रः । पा॒तु॒ । अंह॑सः ॥

    विश्वे । देवाः । नः । अद्य । स्वस्तये । वैश्वानरः । वसुः । अग्निः । स्वस्तये ।
    देवाः । अवन्तु । ऋभवः । स्वस्तये । स्वस्ति । नः । रुद्रः । पातु । अंहसः ॥

    víśve ǀ devā́ḥ ǀ naḥ ǀ adyá ǀ svastáye ǀ vaiśvānaráḥ ǀ vásuḥ ǀ agníḥ ǀ svastáye ǀ
    devā́ḥ ǀ avantu ǀ ṛbhávaḥ ǀ svastáye ǀ svastí ǀ naḥ ǀ rudráḥ ǀ pātu ǀ áṃhasaḥ ǁ

    viśve ǀ devāḥ ǀ naḥ ǀ adya ǀ svastaye ǀ vaiśvānaraḥ ǀ vasuḥ ǀ agniḥ ǀ svastaye ǀ
    devāḥ ǀ avantu ǀ ṛbhavaḥ ǀ svastaye ǀ svasti ǀ naḥ ǀ rudraḥ ǀ pātu ǀ aṃhasaḥ ǁ

    5.51.13 Aṣṭaka 4.3.7.3Anuvāka 5.4.54

  14. Ṛk 14

    स्व॒स्ति मि॑त्रावरुणा स्व॒स्ति प॑थ्ये रेवति ।
    स्व॒स्ति न॒ इंद्र॑श्चा॒ग्निश्च॑ स्व॒स्ति नो॑ अदिते कृधि ॥

    स्वस्ति मित्रावरुणा स्वस्ति पथ्ये रेवति |
    स्वस्ति न इन्द्रश् चाग्निश् च स्वस्ति नो अदिते कृधि ||

    svastí mitrāvaruṇā svastí pathye revati ǀ
    svastí na índraścāgníśca svastí no adite kṛdhi ǁ

    svasti mitrāvaruṇā svasti pathye revati |
    svasti na indraś cāgniś ca svasti no adite kṛdhi ||

    स्व॒स्ति । मि॒त्रा॒व॒रु॒णा॒ । स्व॒स्ति । प॒थ्ये॒ । रे॒व॒ति॒ ।
    स्व॒स्ति । नः॒ । इन्द्रः॑ । च॒ । अ॒ग्निः । च॒ । स्व॒स्ति । नः॒ । अ॒दि॒ते॒ । कृ॒धि॒ ॥

    स्वस्ति । मित्रावरुणा । स्वस्ति । पथ्ये । रेवति ।
    स्वस्ति । नः । इन्द्रः । च । अग्निः । च । स्वस्ति । नः । अदिते । कृधि ॥

    svastí ǀ mitrāvaruṇā ǀ svastí ǀ pathye ǀ revati ǀ
    svastí ǀ naḥ ǀ índraḥ ǀ ca ǀ agníḥ ǀ ca ǀ svastí ǀ naḥ ǀ adite ǀ kṛdhi ǁ

    svasti ǀ mitrāvaruṇā ǀ svasti ǀ pathye ǀ revati ǀ
    svasti ǀ naḥ ǀ indraḥ ǀ ca ǀ agniḥ ǀ ca ǀ svasti ǀ naḥ ǀ adite ǀ kṛdhi ǁ

    5.51.14 Aṣṭaka 4.3.7.4Anuvāka 5.4.55

  15. Ṛk 15

    स्व॒स्ति पंथा॒मनु॑ चरेम सूर्याचंद्र॒मसा॑विव ।
    पुन॒र्दद॒ताघ्न॑ता जान॒ता सं ग॑मेमहि ॥

    स्वस्ति पन्थाम् अनु चरेम सूर्याचन्द्रमसाव् इव |
    पुनर् ददताघ्नता जानता सं गमेमहि ||

    svastí pánthāmánu carema sūryācandramásāviva ǀ
    púnardádatā́ghnatā jānatā́ sám gamemahi ǁ

    svasti panthām anu carema sūryācandramasāv iva |
    punar dadatāghnatā jānatā saṃ gamemahi ||

    स्व॒स्ति । पन्था॑म् । अनु॑ । च॒रे॒म॒ । सू॒र्या॒च॒न्द्र॒मसौ॑ऽइव ।
    पुनः॑ । दद॑ता । अघ्न॑ता । जा॒न॒ता । सम् । ग॒मे॒म॒हि॒ ॥

    स्वस्ति । पन्थाम् । अनु । चरेम । सूर्याचन्द्रमसौऽइव ।
    पुनः । ददता । अघ्नता । जानता । सम् । गमेमहि ॥

    svastí ǀ pánthām ǀ ánu ǀ carema ǀ sūryācandramásau-iva ǀ
    púnaḥ ǀ dádatā ǀ ághnatā ǀ jānatā́ ǀ sám ǀ gamemahi ǁ

    svasti ǀ panthām ǀ anu ǀ carema ǀ sūryācandramasau-iva ǀ
    punaḥ ǀ dadatā ǀ aghnatā ǀ jānatā ǀ sam ǀ gamemahi ǁ

    5.51.15 Aṣṭaka 4.3.7.5Anuvāka 5.4.56

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 5.51 · Viśvedevās

Interpretations

Ralph T. H. Griffith

Ṛk 1

WITH all assistants, Agni, come hither to drink the Soma-juice; With Gods unto our sacred gifts.

Ṛk 2

Come to the sacrifice, O ye whose ways are right, whose laws are true, And drink the draught with Agni's tongue.

Ṛk 3

O Singer, with the singers, O Gracious, with those who move at dawn, Come to the Soma-draught with Gods.

Ṛk 4

To Indra and to Vāyu dear, this Soma, by the mortar pressed, Is now poured forth to fill the jar.

Ṛk 5

Vāyu, come hither to the feast, wellpleased unto our sacred gifts: Drink of the Soma juice effused come to the food.

Ṛk 6

Ye, Indra, Vāyu, well deserve to drink the juices pressed by us. Gladly accept them, spotless Pair come to the food.

Ṛk 7

For Indra and for Vāyu pressed are Soma juices blent with curd, As rivers to the lowland flow: come to the food.

Ṛk 8

Associate with all the Gods, come, with the Aśvins and with Dawn, Agni, as erst with Atri, so enjoy the juice.

Ṛk 9

Associate with Varuṇa, with Mitra, Soma, Viṣṇu, come, Agni, as erstwith Atri, so enjoy the juice.

Ṛk 10

Associate with Vasus, with Ādityas, Indra, Viyu, come, Agni as erst with Atri, so enjoy the juice.

Ṛk 11

May Bhaga and the Aśvins grant us health and wealth, and Goddess Adid and he whom none resist. The Asura Pūṣan grant us all prosperity, and Heaven and Earth most wise vouchsafe us happiness.

Ṛk 12

Let us solicit Vāyu for prosperity, and Soma who is Lord of all the world for weal; For weal Bṛhaspati with all his company. May the Ādityas bring us health and happiness.

Ṛk 13

May all the Gods, may Agni the beneficent, God of all men, this day be with us for our weal. Help us the Ṛbhus, the Divine Ones, for our good. May Rudra bless and keep us from calamity.

Ṛk 14

Prosper us, Mitra, Varuṇa. O wealthy Pathya, prosper us. Indra and Agni, prosper us; prosper us thou, O Aditi.