Sūkta 80
- Devatā देवता
- Uṣas
- Ṛṣi ऋषि
- Satyaśravas Ātreya
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles bhurikpaṅkti (3-5); nicṛttriṣṭup (1, 6); virāṭtrisṭup (2)
2nd set of styles triṣṭubh
-
Ṛk 1
द्यु॒तद्या॑मानं बृह॒तीमृ॒तेन॑ ऋ॒ताव॑रीमरु॒णप्सुं॑ विभा॒तीं ।
दे॒वीमु॒षसं॒ स्व॑रा॒वहं॑तीं॒ प्रति॒ विप्रा॑सो म॒तिभि॑र्जरंते ॥द्युतद्यामानम् बृहतीम् ऋतेन ऋतावरीम् अरुणप्सुं विभातीम् |
देवीम् उषसं स्वर् आवहन्तीम् प्रति विप्रासो मतिभिर् जरन्ते ||dyutádyāmānam bṛhatī́mṛténa ṛtā́varīmaruṇápsum vibhātī́m ǀ
devī́muṣásam svárāváhantīm práti víprāso matíbhirjarante ǁdyutadyāmānam bṛhatīm ṛtena ṛtāvarīm aruṇapsuṃ vibhātīm |
devīm uṣasaṃ svar āvahantīm prati viprāso matibhir jarante ||द्यु॒तत्ऽया॑मानम् । बृ॒ह॒तीम् । ऋ॒तेन॑ । ऋ॒तऽव॑रीम् । अ॒रु॒णऽप्सु॑म् । वि॒ऽभा॒तीम् ।
दे॒वीम् । उ॒षस॑म् । स्वः॑ । आ॒ऽवह॑न्तीम् । प्रति॑ । विप्रा॑सः । म॒तिऽभिः॑ । ज॒र॒न्ते॒ ॥द्युतत्ऽयामानम् । बृहतीम् । ऋतेन । ऋतऽवरीम् । अरुणऽप्सुम् । विऽभातीम् ।
देवीम् । उषसम् । स्वः । आऽवहन्तीम् । प्रति । विप्रासः । मतिऽभिः । जरन्ते ॥dyutát-yāmānam ǀ bṛhatī́m ǀ ṛténa ǀ ṛtá-varīm ǀ aruṇá-psum ǀ vi-bhātī́m ǀ
devī́m ǀ uṣásam ǀ sváḥ ǀ ā-váhantīm ǀ práti ǀ víprāsaḥ ǀ matí-bhiḥ ǀ jarante ǁdyutat-yāmānam ǀ bṛhatīm ǀ ṛtena ǀ ṛta-varīm ǀ aruṇa-psum ǀ vi-bhātīm ǀ
devīm ǀ uṣasam ǀ svaḥ ǀ ā-vahantīm ǀ prati ǀ viprāsaḥ ǀ mati-bhiḥ ǀ jarante ǁ5.80.1 Aṣṭaka 4.4.23.1Anuvāka 5.6.59
-
Ṛk 2
ए॒षा जनं॑ दर्श॒ता बो॒धयं॑ती सु॒गान्प॒थः कृ॑ण्व॒ती या॒त्यग्रे॑ ।
बृ॒ह॒द्र॒था बृ॑ह॒ती वि॑श्वमि॒न्वोषा ज्योति॑र्यच्छ॒त्यग्रे॒ अह्नां॑ ॥एषा जनं दर्शता बोधयन्ती सुगान् पथः कृण्वती यात्य् अग्रे |
बृहद्रथा बृहती विश्वमिन्वोषा ज्योतिर् यच्छत्य् अग्रे अह्नाम् ||eṣā́ jánam darśatā́ bodháyantī sugā́npatháḥ kṛṇvatī́ yātyágre ǀ
bṛhadrathā́ bṛhatī́ viśvaminvóṣā́ jyótiryacchatyágre áhnām ǁeṣā janaṃ darśatā bodhayantī sugān pathaḥ kṛṇvatī yāty agre |
bṛhadrathā bṛhatī viśvaminvoṣā jyotir yacchaty agre ahnām ||ए॒षा । जन॑म् । द॒र्श॒ता । बो॒धय॑न्ती । सु॒ऽगान् । प॒थः । कृ॒ण्व॒ती । या॒ति॒ । अग्रे॑ ।
बृ॒ह॒त्ऽर॒था । बृ॒ह॒ती । वि॒श्व॒म्ऽइ॒न्वा । उ॒षाः । ज्योतिः॑ । य॒च्छ॒ति॒ । अग्रे॑ । अह्ना॑म् ॥एषा । जनम् । दर्शता । बोधयन्ती । सुऽगान् । पथः । कृण्वती । याति । अग्रे ।
बृहत्ऽरथा । बृहती । विश्वम्ऽइन्वा । उषाः । ज्योतिः । यच्छति । अग्रे । अह्नाम् ॥eṣā́ ǀ jánam ǀ darśatā́ ǀ bodháyantī ǀ su-gā́n ǀ patháḥ ǀ kṛṇvatī́ ǀ yāti ǀ ágre ǀ
bṛhat-rathā́ ǀ bṛhatī́ ǀ viśvam-invā́ ǀ uṣā́ḥ ǀ jyótiḥ ǀ yacchati ǀ ágre ǀ áhnām ǁeṣā ǀ janam ǀ darśatā ǀ bodhayantī ǀ su-gān ǀ pathaḥ ǀ kṛṇvatī ǀ yāti ǀ agre ǀ
bṛhat-rathā ǀ bṛhatī ǀ viśvam-invā ǀ uṣāḥ ǀ jyotiḥ ǀ yacchati ǀ agre ǀ ahnām ǁ5.80.2 Aṣṭaka 4.4.23.2Anuvāka 5.6.60
-
Ṛk 3
ए॒षा गोभि॑ररु॒णेभि॑र्युजा॒नास्रे॑धंती र॒यिमप्रा॑यु चक्रे ।
प॒थो रदं॑ती सुवि॒ताय॑ दे॒वी पु॑रुष्टु॒ता वि॒श्ववा॑रा॒ वि भा॑ति ॥एषा गोभिर् अरुणेभिर् युजानास्रेधन्ती रयिम् अप्रायु चक्रे |
पथो रदन्ती सुविताय देवी पुरुष्टुता विश्ववारा वि भाति ||eṣā́ góbhiraruṇébhiryujānā́sredhantī rayímáprāyu cakre ǀ
pathó rádantī suvitā́ya devī́ puruṣṭutā́ viśvávārā ví bhāti ǁeṣā gobhir aruṇebhir yujānāsredhantī rayim aprāyu cakre |
patho radantī suvitāya devī puruṣṭutā viśvavārā vi bhāti ||ए॒षा । गोभिः॑ । अ॒रु॒णेभिः॑ । यु॒जा॒ना । अस्रे॑धन्ती । र॒यिम् । अप्र॑ऽआयु । च॒क्रे॒ ।
प॒थः । रद॑न्ती । सु॒वि॒ताय॑ । दे॒वी । पु॒रु॒ऽस्तु॒ता । वि॒श्वऽवा॑रा । वि । भा॒ति॒ ॥एषा । गोभिः । अरुणेभिः । युजाना । अस्रेधन्ती । रयिम् । अप्रऽआयु । चक्रे ।
पथः । रदन्ती । सुविताय । देवी । पुरुऽस्तुता । विश्वऽवारा । वि । भाति ॥eṣā́ ǀ góbhiḥ ǀ aruṇébhiḥ ǀ yujānā́ ǀ ásredhantī ǀ rayím ǀ ápra-āyu ǀ cakre ǀ
patháḥ ǀ rádantī ǀ suvitā́ya ǀ devī́ ǀ puru-stutā́ ǀ viśvá-vārā ǀ ví ǀ bhāti ǁeṣā ǀ gobhiḥ ǀ aruṇebhiḥ ǀ yujānā ǀ asredhantī ǀ rayim ǀ apra-āyu ǀ cakre ǀ
pathaḥ ǀ radantī ǀ suvitāya ǀ devī ǀ puru-stutā ǀ viśva-vārā ǀ vi ǀ bhāti ǁ5.80.3 Aṣṭaka 4.4.23.3Anuvāka 5.6.61
-
Ṛk 4
ए॒षा व्ये॑नी भवति द्वि॒बर्हा॑ आविष्कृण्वा॒ना त॒न्वं॑ पु॒रस्ता॑त् ।
ऋ॒तस्य॒ पंथा॒मन्वे॑ति सा॒धु प्र॑जान॒तीव॒ न दिशो॑ मिनाति ॥एषा व्येनी भवति द्विबर्हा आविष्कृण्वाना तन्वम् पुरस्तात् |
ऋतस्य पन्थाम् अन्व् एति साधु प्रजानतीव न दिशो मिनाति ||eṣā́ vyenī bhavati dvibárhā āviṣkṛṇvānā́ tanvám purástāt ǀ
ṛtásya pánthāmánveti sādhú prajānatī́va ná díśo mināti ǁeṣā vyenī bhavati dvibarhā āviṣkṛṇvānā tanvam purastāt |
ṛtasya panthām anv eti sādhu prajānatīva na diśo mināti ||ए॒षा । विऽए॑नी । भ॒व॒ति॒ । द्वि॒ऽबर्हाः॑ । आ॒विः॒ऽकृ॒ण्वा॒ना । त॒न्व॑म् । पु॒रस्ता॑त् ।
ऋ॒तस्य॑ । पन्था॑म् । अनु॑ । ए॒ति॒ । सा॒धु । प्र॒जा॒न॒तीऽइ॑व । न । दिशः॑ । मि॒ना॒ति॒ ॥एषा । विऽएनी । भवति । द्विऽबर्हाः । आविःऽकृण्वाना । तन्वम् । पुरस्तात् ।
ऋतस्य । पन्थाम् । अनु । एति । साधु । प्रजानतीऽइव । न । दिशः । मिनाति ॥eṣā́ ǀ ví-enī ǀ bhavati ǀ dvi-bárhāḥ ǀ āviḥ-kṛṇvānā́ ǀ tanvám ǀ purástāt ǀ
ṛtásya ǀ pánthām ǀ ánu ǀ eti ǀ sādhú ǀ prajānatī́-iva ǀ ná ǀ díśaḥ ǀ mināti ǁeṣā ǀ vi-enī ǀ bhavati ǀ dvi-barhāḥ ǀ āviḥ-kṛṇvānā ǀ tanvam ǀ purastāt ǀ
ṛtasya ǀ panthām ǀ anu ǀ eti ǀ sādhu ǀ prajānatī-iva ǀ na ǀ diśaḥ ǀ mināti ǁ5.80.4 Aṣṭaka 4.4.23.4Anuvāka 5.6.62
-
Ṛk 5
ए॒षा शु॒भ्रा न त॒न्वो॑ विदा॒नोर्ध्वेव॑ स्ना॒ती दृ॒शये॑ नो अस्थात् ।
अप॒ द्वेषो॒ बाध॑माना॒ तमां॑स्यु॒षा दि॒वो दु॑हि॒ता ज्योति॒षागा॑त् ॥एषा शुभ्रा न तन्वो विदानोर्ध्वेव स्नाती दृशये नो अस्थात् |
अप द्वेषो बाधमाना तमांस्य् उषा दिवो दुहिता ज्योतिषागात् ||eṣā́ śubhrā́ ná tanvó vidānórdhvéva snātī́ dṛśáye no asthāt ǀ
ápa dvéṣo bā́dhamānā támāṃsyuṣā́ divó duhitā́ jyótiṣā́gāt ǁeṣā śubhrā na tanvo vidānordhveva snātī dṛśaye no asthāt |
apa dveṣo bādhamānā tamāṃsy uṣā divo duhitā jyotiṣāgāt ||ए॒षा । शु॒भ्रा । न । त॒न्वः॑ । वि॒दा॒ना । ऊ॒र्ध्वाऽइ॑व । स्ना॒ती । दृ॒शये॑ । नः॒ । अ॒स्था॒त् ।
अप॑ । द्वेषः॑ । बाध॑माना । तमां॑सि । उ॒षाः । दि॒वः । दु॒हि॒ता । ज्योति॑षा । आ । अ॒गा॒त् ॥एषा । शुभ्रा । न । तन्वः । विदाना । ऊर्ध्वाऽइव । स्नाती । दृशये । नः । अस्थात् ।
अप । द्वेषः । बाधमाना । तमांसि । उषाः । दिवः । दुहिता । ज्योतिषा । आ । अगात् ॥eṣā́ ǀ śubhrā́ ǀ ná ǀ tanváḥ ǀ vidānā́ ǀ ūrdhvā́-iva ǀ snātī́ ǀ dṛśáye ǀ naḥ ǀ asthāt ǀ
ápa ǀ dvéṣaḥ ǀ bā́dhamānā ǀ támāṃsi ǀ uṣā́ḥ ǀ diváḥ ǀ duhitā́ ǀ jyótiṣā ǀ ā́ ǀ agāt ǁeṣā ǀ śubhrā ǀ na ǀ tanvaḥ ǀ vidānā ǀ ūrdhvā-iva ǀ snātī ǀ dṛśaye ǀ naḥ ǀ asthāt ǀ
apa ǀ dveṣaḥ ǀ bādhamānā ǀ tamāṃsi ǀ uṣāḥ ǀ divaḥ ǀ duhitā ǀ jyotiṣā ǀ ā ǀ agāt ǁ5.80.5 Aṣṭaka 4.4.23.5Anuvāka 5.6.63
-
Ṛk 6
ए॒षा प्र॑ती॒ची दु॑हि॒ता दि॒वो नॄन्योषे॑व भ॒द्रा नि रि॑णीते॒ अप्सः॑ ।
व्यू॒र्ण्व॒ती दा॒शुषे॒ वार्या॑णि॒ पुन॒र्ज्योति॑र्युव॒तिः पू॒र्वथा॑कः ॥एषा प्रतीची दुहिता दिवो नॄन् योषेव भद्रा नि रिणीते अप्सः |
व्यूर्ण्वती दाशुषे वार्याणि पुनर् ज्योतिर् युवतिः पूर्वथाकः ||eṣā́ pratīcī́ duhitā́ divó nṝ́nyóṣeva bhadrā́ ní riṇīte ápsaḥ ǀ
vyūrṇvatī́ dāśúṣe vā́ryāṇi púnarjyótiryuvatíḥ pūrváthākaḥ ǁeṣā pratīcī duhitā divo nṝn yoṣeva bhadrā ni riṇīte apsaḥ |
vyūrṇvatī dāśuṣe vāryāṇi punar jyotir yuvatiḥ pūrvathākaḥ ||ए॒षा । प्र॒ती॒ची । दु॒हि॒ता । दि॒वः । नॄन् । योषा॑ऽइव । भ॒द्रा । नि । रि॒णी॒ते॒ । अप्सः॑ ।
वि॒ऽऊ॒र्ण्व॒ती । दा॒शुषे॑ । वार्या॑णि । पुनः॑ । ज्योतिः॑ । यु॒व॒तिः । पू॒र्वऽथा॑ । अ॒क॒रित्य॑कः ॥एषा । प्रतीची । दुहिता । दिवः । नॄन् । योषाऽइव । भद्रा । नि । रिणीते । अप्सः ।
विऽऊर्ण्वती । दाशुषे । वार्याणि । पुनः । ज्योतिः । युवतिः । पूर्वऽथा । अकरित्यकः ॥eṣā́ ǀ pratīcī́ ǀ duhitā́ ǀ diváḥ ǀ nṝ́n ǀ yóṣā-iva ǀ bhadrā́ ǀ ní ǀ riṇīte ǀ ápsaḥ ǀ
vi-ūrṇvatī́ ǀ dāśúṣe ǀ vā́ryāṇi ǀ púnaḥ ǀ jyótiḥ ǀ yuvatíḥ ǀ pūrvá-thā ǀ akarítyakaḥ ǁeṣā ǀ pratīcī ǀ duhitā ǀ divaḥ ǀ nṝn ǀ yoṣā-iva ǀ bhadrā ǀ ni ǀ riṇīte ǀ apsaḥ ǀ
vi-ūrṇvatī ǀ dāśuṣe ǀ vāryāṇi ǀ punaḥ ǀ jyotiḥ ǀ yuvatiḥ ǀ pūrva-thā ǀ akarityakaḥ ǁ5.80.6 Aṣṭaka 4.4.23.6Anuvāka 5.6.64
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.