Ṛk 5.80.2
Saṃhitā
ए॒षा जनं॑ दर्श॒ता बो॒धयं॑ती सु॒गान्प॒थः कृ॑ण्व॒ती या॒त्यग्रे॑ ।
बृ॒ह॒द्र॒था बृ॑ह॒ती वि॑श्वमि॒न्वोषा ज्योति॑र्यच्छ॒त्यग्रे॒ अह्नां॑ ॥
एषा जनं दर्शता बोधयन्ती सुगान् पथः कृण्वती यात्य् अग्रे |
बृहद्रथा बृहती विश्वमिन्वोषा ज्योतिर् यच्छत्य् अग्रे अह्नाम् ||
eṣā́ jánam darśatā́ bodháyantī sugā́npatháḥ kṛṇvatī́ yātyágre ǀ
bṛhadrathā́ bṛhatī́ viśvaminvóṣā́ jyótiryacchatyágre áhnām ǁ
eṣā janaṃ darśatā bodhayantī sugān pathaḥ kṛṇvatī yāty agre |
bṛhadrathā bṛhatī viśvaminvoṣā jyotir yacchaty agre ahnām ||
Padapāṭha
ए॒षा । जन॑म् । द॒र्श॒ता । बो॒धय॑न्ती । सु॒ऽगान् । प॒थः । कृ॒ण्व॒ती । या॒ति॒ । अग्रे॑ ।
बृ॒ह॒त्ऽर॒था । बृ॒ह॒ती । वि॒श्व॒म्ऽइ॒न्वा । उ॒षाः । ज्योतिः॑ । य॒च्छ॒ति॒ । अग्रे॑ । अह्ना॑म् ॥
एषा । जनम् । दर्शता । बोधयन्ती । सुऽगान् । पथः । कृण्वती । याति । अग्रे ।
बृहत्ऽरथा । बृहती । विश्वम्ऽइन्वा । उषाः । ज्योतिः । यच्छति । अग्रे । अह्नाम् ॥
eṣā́ ǀ jánam ǀ darśatā́ ǀ bodháyantī ǀ su-gā́n ǀ patháḥ ǀ kṛṇvatī́ ǀ yāti ǀ ágre ǀ
bṛhat-rathā́ ǀ bṛhatī́ ǀ viśvam-invā́ ǀ uṣā́ḥ ǀ jyótiḥ ǀ yacchati ǀ ágre ǀ áhnām ǁ
eṣā ǀ janam ǀ darśatā ǀ bodhayantī ǀ su-gān ǀ pathaḥ ǀ kṛṇvatī ǀ yāti ǀ agre ǀ
bṛhat-rathā ǀ bṛhatī ǀ viśvam-invā ǀ uṣāḥ ǀ jyotiḥ ǀ yacchati ǀ agre ǀ ahnām ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 05.080.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.4.23.02
- Maṇḍala · Anuvāka · Ṛk
- 05.06.060
- Devatā देवता
- Uṣas
- Ṛṣi ऋषि
- Satyaśravas Ātreya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- मध्यमः
Text and interpretations from the Ṛgveda database of theveda.org.in.