Ṛk 5.80.6
Saṃhitā
ए॒षा प्र॑ती॒ची दु॑हि॒ता दि॒वो नॄन्योषे॑व भ॒द्रा नि रि॑णीते॒ अप्सः॑ ।
व्यू॒र्ण्व॒ती दा॒शुषे॒ वार्या॑णि॒ पुन॒र्ज्योति॑र्युव॒तिः पू॒र्वथा॑कः ॥
एषा प्रतीची दुहिता दिवो नॄन् योषेव भद्रा नि रिणीते अप्सः |
व्यूर्ण्वती दाशुषे वार्याणि पुनर् ज्योतिर् युवतिः पूर्वथाकः ||
eṣā́ pratīcī́ duhitā́ divó nṝ́nyóṣeva bhadrā́ ní riṇīte ápsaḥ ǀ
vyūrṇvatī́ dāśúṣe vā́ryāṇi púnarjyótiryuvatíḥ pūrváthākaḥ ǁ
eṣā pratīcī duhitā divo nṝn yoṣeva bhadrā ni riṇīte apsaḥ |
vyūrṇvatī dāśuṣe vāryāṇi punar jyotir yuvatiḥ pūrvathākaḥ ||
Padapāṭha
ए॒षा । प्र॒ती॒ची । दु॒हि॒ता । दि॒वः । नॄन् । योषा॑ऽइव । भ॒द्रा । नि । रि॒णी॒ते॒ । अप्सः॑ ।
वि॒ऽऊ॒र्ण्व॒ती । दा॒शुषे॑ । वार्या॑णि । पुनः॑ । ज्योतिः॑ । यु॒व॒तिः । पू॒र्वऽथा॑ । अ॒क॒रित्य॑कः ॥
एषा । प्रतीची । दुहिता । दिवः । नॄन् । योषाऽइव । भद्रा । नि । रिणीते । अप्सः ।
विऽऊर्ण्वती । दाशुषे । वार्याणि । पुनः । ज्योतिः । युवतिः । पूर्वऽथा । अकरित्यकः ॥
eṣā́ ǀ pratīcī́ ǀ duhitā́ ǀ diváḥ ǀ nṝ́n ǀ yóṣā-iva ǀ bhadrā́ ǀ ní ǀ riṇīte ǀ ápsaḥ ǀ
vi-ūrṇvatī́ ǀ dāśúṣe ǀ vā́ryāṇi ǀ púnaḥ ǀ jyótiḥ ǀ yuvatíḥ ǀ pūrvá-thā ǀ akarítyakaḥ ǁ
eṣā ǀ pratīcī ǀ duhitā ǀ divaḥ ǀ nṝn ǀ yoṣā-iva ǀ bhadrā ǀ ni ǀ riṇīte ǀ apsaḥ ǀ
vi-ūrṇvatī ǀ dāśuṣe ǀ vāryāṇi ǀ punaḥ ǀ jyotiḥ ǀ yuvatiḥ ǀ pūrva-thā ǀ akarityakaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 05.080.06
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.4.23.06
- Maṇḍala · Anuvāka · Ṛk
- 05.06.064
- Devatā देवता
- Uṣas
- Ṛṣi ऋषि
- Satyaśravas Ātreya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.