Ṛk 5.80.5
Saṃhitā
ए॒षा शु॒भ्रा न त॒न्वो॑ विदा॒नोर्ध्वेव॑ स्ना॒ती दृ॒शये॑ नो अस्थात् ।
अप॒ द्वेषो॒ बाध॑माना॒ तमां॑स्यु॒षा दि॒वो दु॑हि॒ता ज्योति॒षागा॑त् ॥
एषा शुभ्रा न तन्वो विदानोर्ध्वेव स्नाती दृशये नो अस्थात् |
अप द्वेषो बाधमाना तमांस्य् उषा दिवो दुहिता ज्योतिषागात् ||
eṣā́ śubhrā́ ná tanvó vidānórdhvéva snātī́ dṛśáye no asthāt ǀ
ápa dvéṣo bā́dhamānā támāṃsyuṣā́ divó duhitā́ jyótiṣā́gāt ǁ
eṣā śubhrā na tanvo vidānordhveva snātī dṛśaye no asthāt |
apa dveṣo bādhamānā tamāṃsy uṣā divo duhitā jyotiṣāgāt ||
Padapāṭha
ए॒षा । शु॒भ्रा । न । त॒न्वः॑ । वि॒दा॒ना । ऊ॒र्ध्वाऽइ॑व । स्ना॒ती । दृ॒शये॑ । नः॒ । अ॒स्था॒त् ।
अप॑ । द्वेषः॑ । बाध॑माना । तमां॑सि । उ॒षाः । दि॒वः । दु॒हि॒ता । ज्योति॑षा । आ । अ॒गा॒त् ॥
एषा । शुभ्रा । न । तन्वः । विदाना । ऊर्ध्वाऽइव । स्नाती । दृशये । नः । अस्थात् ।
अप । द्वेषः । बाधमाना । तमांसि । उषाः । दिवः । दुहिता । ज्योतिषा । आ । अगात् ॥
eṣā́ ǀ śubhrā́ ǀ ná ǀ tanváḥ ǀ vidānā́ ǀ ūrdhvā́-iva ǀ snātī́ ǀ dṛśáye ǀ naḥ ǀ asthāt ǀ
ápa ǀ dvéṣaḥ ǀ bā́dhamānā ǀ támāṃsi ǀ uṣā́ḥ ǀ diváḥ ǀ duhitā́ ǀ jyótiṣā ǀ ā́ ǀ agāt ǁ
eṣā ǀ śubhrā ǀ na ǀ tanvaḥ ǀ vidānā ǀ ūrdhvā-iva ǀ snātī ǀ dṛśaye ǀ naḥ ǀ asthāt ǀ
apa ǀ dveṣaḥ ǀ bādhamānā ǀ tamāṃsi ǀ uṣāḥ ǀ divaḥ ǀ duhitā ǀ jyotiṣā ǀ ā ǀ agāt ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 05.080.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.4.23.05
- Maṇḍala · Anuvāka · Ṛk
- 05.06.063
- Devatā देवता
- Uṣas
- Ṛṣi ऋषि
- Satyaśravas Ātreya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.