Sūkta 81
- Devatā देवता
- Savitṛ
- Ṛṣi ऋषि
- Śyāvāśva Ātreya
- Chandas छन्दस्
- Jagatī
Metres by ṛk
1st set of styles jagatī (1, 5); virāḍjagatī (2); svarāṭtriṣṭup (3); nicṛjjagatī (4)
2nd set of styles jagatī
-
Ṛk 1
युं॒जते॒ मन॑ उ॒त युं॑जते॒ धियो॒ विप्रा॒ विप्र॑स्य बृह॒तो वि॑प॒श्चितः॑ ।
वि होत्रा॑ दधे वयुना॒विदेक॒ इन्म॒ही दे॒वस्य॑ सवि॒तुः परि॑ष्टुतिः ॥युञ्जते मन उत युञ्जते धियो विप्रा विप्रस्य बृहतो विपश्चितः |
वि होत्रा दधे वयुनाविद् एक इन् मही देवस्य सवितुः परिष्टुतिः ||yuñjáte mána utá yuñjate dhíyo víprā víprasya bṛható vipaścítaḥ ǀ
ví hótrā dadhe vayunāvídéka ínmahī́ devásya savitúḥ páriṣṭutiḥ ǁyuñjate mana uta yuñjate dhiyo viprā viprasya bṛhato vipaścitaḥ |
vi hotrā dadhe vayunāvid eka in mahī devasya savituḥ pariṣṭutiḥ ||यु॒ञ्जते॑ । मनः॑ । उ॒त । यु॒ञ्ज॒ते॒ । धियः॑ । विप्राः॑ । विप्र॑स्य । बृ॒ह॒तः । वि॒पः॒ऽचितः॑ ।
वि । होत्राः॑ । द॒धे॒ । व॒यु॒न॒ऽवित् । एकः॑ । इत् । म॒ही । दे॒वस्य॑ । स॒वि॒तुः । परि॑ऽस्तुतिः ॥युञ्जते । मनः । उत । युञ्जते । धियः । विप्राः । विप्रस्य । बृहतः । विपःऽचितः ।
वि । होत्राः । दधे । वयुनऽवित् । एकः । इत् । मही । देवस्य । सवितुः । परिऽस्तुतिः ॥yuñjáte ǀ mánaḥ ǀ utá ǀ yuñjate ǀ dhíyaḥ ǀ víprāḥ ǀ víprasya ǀ bṛhatáḥ ǀ vipaḥ-cítaḥ ǀ
ví ǀ hótrāḥ ǀ dadhe ǀ vayuna-vít ǀ ékaḥ ǀ ít ǀ mahī́ ǀ devásya ǀ savitúḥ ǀ pári-stutiḥ ǁyuñjate ǀ manaḥ ǀ uta ǀ yuñjate ǀ dhiyaḥ ǀ viprāḥ ǀ viprasya ǀ bṛhataḥ ǀ vipaḥ-citaḥ ǀ
vi ǀ hotrāḥ ǀ dadhe ǀ vayuna-vit ǀ ekaḥ ǀ it ǀ mahī ǀ devasya ǀ savituḥ ǀ pari-stutiḥ ǁ5.81.1 Aṣṭaka 4.4.24.1Anuvāka 5.6.65
-
Ṛk 2
विश्वा॑ रू॒पाणि॒ प्रति॑ मुंचते क॒विः प्रासा॑वीद्भ॒द्रं द्वि॒पदे॒ चतु॑ष्पदे ।
वि नाक॑मख्यत्सवि॒ता वरे॒ण्योऽनु॑ प्र॒याण॑मु॒षसो॒ वि रा॑जति ॥विश्वा रूपाणि प्रति मुञ्चते कविः प्रासावीद् भद्रं द्विपदे चतुष्पदे |
वि नाकम् अख्यत् सविता वरेण्यो ऽनु प्रयाणम् उषसो वि राजति ||víśvā rūpā́ṇi práti muñcate kavíḥ prā́sāvīdbhadrám dvipáde cátuṣpade ǀ
ví nā́kamakhyatsavitā́ váreṇyó’nu prayā́ṇamuṣáso ví rājati ǁviśvā rūpāṇi prati muñcate kaviḥ prāsāvīd bhadraṃ dvipade catuṣpade |
vi nākam akhyat savitā vareṇyo 'nu prayāṇam uṣaso vi rājati ||विश्वा॑ । रू॒पाणि॑ । प्रति॑ । मु॒ञ्च॒ते॒ । क॒विः । प्र । अ॒सा॒वी॒त् । भ॒द्रम् । द्वि॒ऽपदे॑ । चतुः॑ऽपदे ।
वि । नाक॑म् । अ॒ख्य॒त् । स॒वि॒ता । वरे॑ण्यः । अनु॑ । प्र॒ऽयान॑म् । उ॒षसः॑ । वि । रा॒ज॒ति॒ ॥विश्वा । रूपाणि । प्रति । मुञ्चते । कविः । प्र । असावीत् । भद्रम् । द्विऽपदे । चतुःऽपदे ।
वि । नाकम् । अख्यत् । सविता । वरेण्यः । अनु । प्रऽयानम् । उषसः । वि । राजति ॥víśvā ǀ rūpā́ṇi ǀ práti ǀ muñcate ǀ kavíḥ ǀ prá ǀ asāvīt ǀ bhadrám ǀ dvi-páde ǀ cátuḥ-pade ǀ
ví ǀ nā́kam ǀ akhyat ǀ savitā́ ǀ váreṇyaḥ ǀ ánu ǀ pra-yā́nam ǀ uṣásaḥ ǀ ví ǀ rājati ǁviśvā ǀ rūpāṇi ǀ prati ǀ muñcate ǀ kaviḥ ǀ pra ǀ asāvīt ǀ bhadram ǀ dvi-pade ǀ catuḥ-pade ǀ
vi ǀ nākam ǀ akhyat ǀ savitā ǀ vareṇyaḥ ǀ anu ǀ pra-yānam ǀ uṣasaḥ ǀ vi ǀ rājati ǁ5.81.2 Aṣṭaka 4.4.24.2Anuvāka 5.6.66
-
Ṛk 3
यस्य॑ प्र॒याण॒मन्व॒न्य इद्य॒युर्दे॒वा दे॒वस्य॑ महि॒मान॒मोज॑सा ।
यः पार्थि॑वानि विम॒मे स एत॑शो॒ रजां॑सि दे॒वः स॑वि॒ता म॑हित्व॒ना ॥यस्य प्रयाणम् अन्व् अन्य इद् ययुर् देवा देवस्य महिमानम् ओजसा |
यः पार्थिवानि विममे स एतशो रजांसि देवः सविता महित्वना ||yásya prayā́ṇamánvanyá ídyayúrdevā́ devásya mahimā́namójasā ǀ
yáḥ pā́rthivāni vimamé sá étaśo rájāṃsi deváḥ savitā́ mahitvanā́ ǁyasya prayāṇam anv anya id yayur devā devasya mahimānam ojasā |
yaḥ pārthivāni vimame sa etaśo rajāṃsi devaḥ savitā mahitvanā ||यस्य॑ । प्र॒ऽयान॑म् । अनु॑ । अ॒न्ये । इत् । य॒युः । दे॒वाः । दे॒वस्य॑ । म॒हि॒मान॑म् । ओज॑सा ।
यः । पार्थि॑वानि । वि॒ऽम॒मे । सः । एत॑शः । रजां॑सि । दे॒वः । स॒वि॒ता । म॒हि॒ऽत्व॒ना ॥यस्य । प्रऽयानम् । अनु । अन्ये । इत् । ययुः । देवाः । देवस्य । महिमानम् । ओजसा ।
यः । पार्थिवानि । विऽममे । सः । एतशः । रजांसि । देवः । सविता । महिऽत्वना ॥yásya ǀ pra-yā́nam ǀ ánu ǀ anyé ǀ ít ǀ yayúḥ ǀ devā́ḥ ǀ devásya ǀ mahimā́nam ǀ ójasā ǀ
yáḥ ǀ pā́rthivāni ǀ vi-mamé ǀ sáḥ ǀ étaśaḥ ǀ rájāṃsi ǀ deváḥ ǀ savitā́ ǀ mahi-tvanā́ ǁyasya ǀ pra-yānam ǀ anu ǀ anye ǀ it ǀ yayuḥ ǀ devāḥ ǀ devasya ǀ mahimānam ǀ ojasā ǀ
yaḥ ǀ pārthivāni ǀ vi-mame ǀ saḥ ǀ etaśaḥ ǀ rajāṃsi ǀ devaḥ ǀ savitā ǀ mahi-tvanā ǁ5.81.3 Aṣṭaka 4.4.24.3Anuvāka 5.6.67
-
Ṛk 4
उ॒त या॑सि सवित॒स्त्रीणि॑ रोच॒नोत सूर्य॑स्य र॒श्मिभिः॒ समु॑च्यसि ।
उ॒त रात्री॑मुभ॒यतः॒ परी॑यस उ॒त मि॒त्रो भ॑वसि देव॒ धर्म॑भिः ॥उत यासि सवितस् त्रीणि रोचनोत सूर्यस्य रश्मिभिः सम् उच्यसि |
उत रात्रीम् उभयतः परीयस उत मित्रो भवसि देव धर्मभिः ||utá yāsi savitastrī́ṇi rocanótá sū́ryasya raśmíbhiḥ sámucyasi ǀ
utá rā́trīmubhayátaḥ párīyasa utá mitró bhavasi deva dhármabhiḥ ǁuta yāsi savitas trīṇi rocanota sūryasya raśmibhiḥ sam ucyasi |
uta rātrīm ubhayataḥ parīyasa uta mitro bhavasi deva dharmabhiḥ ||उ॒त । या॒सि॒ । स॒वि॒त॒रिति॑ । त्रीणि॑ । रो॒च॒ना । उ॒त । सूर्य॑स्य । र॒श्मिऽभिः॑ । सम् । उ॒च्य॒सि॒ ।
उ॒त । रात्री॑म् । उ॒भ॒यतः॑ । परि॑ । ई॒य॒से॒ । उ॒त । मि॒त्रः । भ॒व॒सि॒ । दे॒व॒ । धर्म॑ऽभिः ॥उत । यासि । सवितरिति । त्रीणि । रोचना । उत । सूर्यस्य । रश्मिऽभिः । सम् । उच्यसि ।
उत । रात्रीम् । उभयतः । परि । ईयसे । उत । मित्रः । भवसि । देव । धर्मऽभिः ॥utá ǀ yāsi ǀ savitaríti ǀ trī́ṇi ǀ rocanā́ ǀ utá ǀ sū́ryasya ǀ raśmí-bhiḥ ǀ sám ǀ ucyasi ǀ
utá ǀ rā́trīm ǀ ubhayátaḥ ǀ pári ǀ īyase ǀ utá ǀ mitráḥ ǀ bhavasi ǀ deva ǀ dhárma-bhiḥ ǁuta ǀ yāsi ǀ savitariti ǀ trīṇi ǀ rocanā ǀ uta ǀ sūryasya ǀ raśmi-bhiḥ ǀ sam ǀ ucyasi ǀ
uta ǀ rātrīm ǀ ubhayataḥ ǀ pari ǀ īyase ǀ uta ǀ mitraḥ ǀ bhavasi ǀ deva ǀ dharma-bhiḥ ǁ5.81.4 Aṣṭaka 4.4.24.4Anuvāka 5.6.68
-
Ṛk 5
उ॒तेशि॑षे प्रस॒वस्य॒ त्वमेक॒ इदु॒त पू॒षा भ॑वसि देव॒ याम॑भिः ।
उ॒तेदं विश्वं॒ भुव॑नं॒ वि रा॑जसि श्या॒वाश्व॑स्ते सवितः॒ स्तोम॑मानशे ॥उतेशिषे प्रसवस्य त्वम् एक इद् उत पूषा भवसि देव यामभिः |
उतेदं विश्वम् भुवनं वि राजसि श्यावाश्वस् ते सवित स्तोमम् आनशे ||utéśiṣe prasavásya tváméka ídutá pūṣā́ bhavasi deva yā́mabhiḥ ǀ
utédám víśvam bhúvanam ví rājasi śyāvā́śvaste savitaḥ stómamānaśe ǁuteśiṣe prasavasya tvam eka id uta pūṣā bhavasi deva yāmabhiḥ |
utedaṃ viśvam bhuvanaṃ vi rājasi śyāvāśvas te savita stomam ānaśe ||उ॒त । ई॒शि॒षे॒ । प्र॒ऽस॒वस्य॑ । त्वम् । एकः॑ । इत् । उ॒त । पू॒षा । भ॒व॒सि॒ । दे॒व॒ । याम॑ऽभिः ।
उ॒त । इ॒दम् । विश्व॑म् । भुव॑नम् । वि । रा॒ज॒सि॒ । श्या॒वऽअ॑श्वः । ते॒ । स॒वि॒त॒रिति॑ । स्तोम॑म् । आ॒न॒शे॒ ॥उत । ईशिषे । प्रऽसवस्य । त्वम् । एकः । इत् । उत । पूषा । भवसि । देव । यामऽभिः ।
उत । इदम् । विश्वम् । भुवनम् । वि । राजसि । श्यावऽअश्वः । ते । सवितरिति । स्तोमम् । आनशे ॥utá ǀ īśiṣe ǀ pra-savásya ǀ tvám ǀ ékaḥ ǀ ít ǀ utá ǀ pūṣā́ ǀ bhavasi ǀ deva ǀ yā́ma-bhiḥ ǀ
utá ǀ idám ǀ víśvam ǀ bhúvanam ǀ ví ǀ rājasi ǀ śyāvá-aśvaḥ ǀ te ǀ savitaríti ǀ stómam ǀ ānaśe ǁuta ǀ īśiṣe ǀ pra-savasya ǀ tvam ǀ ekaḥ ǀ it ǀ uta ǀ pūṣā ǀ bhavasi ǀ deva ǀ yāma-bhiḥ ǀ
uta ǀ idam ǀ viśvam ǀ bhuvanam ǀ vi ǀ rājasi ǀ śyāva-aśvaḥ ǀ te ǀ savitariti ǀ stomam ǀ ānaśe ǁ5.81.5 Aṣṭaka 4.4.24.5Anuvāka 5.6.69
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.