Ṛgveda · Maṇḍala 5

Sūkta 7

Agni · Iṣa Ātreya · 10 ṛks

Link
Devatā देवता
Agni
Ṛṣi ऋषि
Iṣa Ātreya
Chandas छन्दस्
Anuṣṭubh, Paṅkti
Metres by ṛk

1st set of styles nicṛdanuṣṭup (4, 5, 8, 9); svarāḍuṣnik (6, 7); virāḍanuṣṭup (1); anuṣṭup (2); bhuriganuṣṭup (3); nicṛdbṛhatī (10)

2nd set of styles anuṣṭubh (1-9); paṅkti (10)

  1. Ṛk 1

    सखा॑यः॒ सं वः॑ स॒म्यंच॒मिषं॒ स्तोमं॑ चा॒ग्नये॑ ।
    वर्षि॑ष्ठाय क्षिती॒नामू॒र्जो नप्त्रे॒ सह॑स्वते ॥

    सखायः सं वः सम्यञ्चम् इषं स्तोमं चाग्नये |
    वर्षिष्ठाय क्षितीनाम् ऊर्जो नप्त्रे सहस्वते ||

    sákhāyaḥ sám vaḥ samyáñcamíṣam stómam cāgnáye ǀ
    várṣiṣṭhāya kṣitīnā́mūrjó náptre sáhasvate ǁ

    sakhāyaḥ saṃ vaḥ samyañcam iṣaṃ stomaṃ cāgnaye |
    varṣiṣṭhāya kṣitīnām ūrjo naptre sahasvate ||

    सखा॑यः । सम् । वः॒ । स॒म्यञ्च॑म् । इष॑म् । स्तोम॑म् । च॒ । अ॒ग्नये॑ ।
    वर्षि॑ष्ठाय । क्षि॒ती॒नाम् । ऊ॒र्जः । नप्त्रे॑ । सह॑स्वते ॥

    सखायः । सम् । वः । सम्यञ्चम् । इषम् । स्तोमम् । च । अग्नये ।
    वर्षिष्ठाय । क्षितीनाम् । ऊर्जः । नप्त्रे । सहस्वते ॥

    sákhāyaḥ ǀ sám ǀ vaḥ ǀ samyáñcam ǀ íṣam ǀ stómam ǀ ca ǀ agnáye ǀ
    várṣiṣṭhāya ǀ kṣitīnā́m ǀ ūrjáḥ ǀ náptre ǀ sáhasvate ǁ

    sakhāyaḥ ǀ sam ǀ vaḥ ǀ samyañcam ǀ iṣam ǀ stomam ǀ ca ǀ agnaye ǀ
    varṣiṣṭhāya ǀ kṣitīnām ǀ ūrjaḥ ǀ naptre ǀ sahasvate ǁ

    5.7.1 Aṣṭaka 3.8.24.1Anuvāka 5.1.69

  2. Ṛk 2

    कुत्रा॑ चि॒द्यस्य॒ समृ॑तौ र॒ण्वा नरो॑ नृ॒षद॑ने ।
    अर्हं॑तश्चि॒द्यमिं॑ध॒ते सं॑ज॒नयं॑ति जं॒तवः॑ ॥

    कुत्रा चिद् यस्य समृतौ रण्वा नरो नृषदने |
    अर्हन्तश् चिद् यम् इन्धते संजनयन्ति जन्तवः ||

    kútrā cidyásya sámṛtau raṇvā́ náro nṛṣádane ǀ
    árhantaścidyámindhaté saṃjanáyanti jantávaḥ ǁ

    kutrā cid yasya samṛtau raṇvā naro nṛṣadane |
    arhantaś cid yam indhate saṃjanayanti jantavaḥ ||

    कुत्र॑ । चि॒त् । यस्य॑ । सम्ऽऋ॑तौ । र॒ण्वाः । नरः॑ । नृ॒ऽसद॑ने ।
    अर्ह॑न्तः । चि॒त् । यम् । इ॒न्ध॒ते । स॒म्ऽज॒नय॑न्ति । ज॒न्तवः॑ ॥

    कुत्र । चित् । यस्य । सम्ऽऋतौ । रण्वाः । नरः । नृऽसदने ।
    अर्हन्तः । चित् । यम् । इन्धते । सम्ऽजनयन्ति । जन्तवः ॥

    kútra ǀ cit ǀ yásya ǀ sám-ṛtau ǀ raṇvā́ḥ ǀ náraḥ ǀ nṛ-sádane ǀ
    árhantaḥ ǀ cit ǀ yám ǀ indhaté ǀ sam-janáyanti ǀ jantávaḥ ǁ

    kutra ǀ cit ǀ yasya ǀ sam-ṛtau ǀ raṇvāḥ ǀ naraḥ ǀ nṛ-sadane ǀ
    arhantaḥ ǀ cit ǀ yam ǀ indhate ǀ sam-janayanti ǀ jantavaḥ ǁ

    5.7.2 Aṣṭaka 3.8.24.2Anuvāka 5.1.70

  3. Ṛk 3

    सं यदि॒षो वना॑महे॒ सं ह॒व्या मानु॑षाणां ।
    उ॒त द्यु॒म्नस्य॒ शव॑स ऋ॒तस्य॑ र॒श्मिमा द॑दे ॥

    सं यद् इषो वनामहे सं हव्या मानुषाणाम् |
    उत द्युम्नस्य शवस ऋतस्य रश्मिम् आ ददे ||

    sám yádiṣó vánāmahe sám havyā́ mā́nuṣāṇām ǀ
    utá dyumnásya śávasa ṛtásya raśmímā́ dade ǁ

    saṃ yad iṣo vanāmahe saṃ havyā mānuṣāṇām |
    uta dyumnasya śavasa ṛtasya raśmim ā dade ||

    सम् । यत् । इ॒षः । वना॑महे । सम् । ह॒व्या । मानु॑षाणाम् ।
    उ॒त । द्यु॒म्नस्य॑ । शव॑सा । ऋ॒तस्य॑ । र॒श्मिम् । आ । द॒दे॒ ॥

    सम् । यत् । इषः । वनामहे । सम् । हव्या । मानुषाणाम् ।
    उत । द्युम्नस्य । शवसा । ऋतस्य । रश्मिम् । आ । ददे ॥

    sám ǀ yát ǀ iṣáḥ ǀ vánāmahe ǀ sám ǀ havyā́ ǀ mā́nuṣāṇām ǀ
    utá ǀ dyumnásya ǀ śávasā ǀ ṛtásya ǀ raśmím ǀ ā́ ǀ dade ǁ

    sam ǀ yat ǀ iṣaḥ ǀ vanāmahe ǀ sam ǀ havyā ǀ mānuṣāṇām ǀ
    uta ǀ dyumnasya ǀ śavasā ǀ ṛtasya ǀ raśmim ǀ ā ǀ dade ǁ

    5.7.3 Aṣṭaka 3.8.24.3Anuvāka 5.1.71

  4. Ṛk 4

    स स्मा॑ कृणोति के॒तुमा नक्तं॑ चिद्दू॒र आ स॒ते ।
    पा॒व॒को यद्वन॒स्पती॒न्प्र स्मा॑ मि॒नात्य॒जरः॑ ॥

    स स्मा कृणोति केतुम् आ नक्तं चिद् दूर आ सते |
    पावको यद् वनस्पतीन् प्र स्मा मिनात्य् अजरः ||

    sá smā kṛṇoti ketúmā́ náktam ciddūrá ā́ saté ǀ
    pāvakó yádvánaspátīnprá smā minā́tyajáraḥ ǁ

    sa smā kṛṇoti ketum ā naktaṃ cid dūra ā sate |
    pāvako yad vanaspatīn pra smā mināty ajaraḥ ||

    सः । स्म॒ । कृ॒णो॒ति॒ । के॒तुम् । आ । नक्त॑म् । चि॒त् । दू॒रे । आ । स॒ते ।
    पा॒व॒कः । यत् । वन॒स्पती॑न् । प्र । स्म॒ । मि॒नाति॑ । अ॒जरः॑ ॥

    सः । स्म । कृणोति । केतुम् । आ । नक्तम् । चित् । दूरे । आ । सते ।
    पावकः । यत् । वनस्पतीन् । प्र । स्म । मिनाति । अजरः ॥

    sáḥ ǀ sma ǀ kṛṇoti ǀ ketúm ǀ ā́ ǀ náktam ǀ cit ǀ dūré ǀ ā́ ǀ saté ǀ
    pāvakáḥ ǀ yát ǀ vánaspátīn ǀ prá ǀ sma ǀ minā́ti ǀ ajáraḥ ǁ

    saḥ ǀ sma ǀ kṛṇoti ǀ ketum ǀ ā ǀ naktam ǀ cit ǀ dūre ǀ ā ǀ sate ǀ
    pāvakaḥ ǀ yat ǀ vanaspatīn ǀ pra ǀ sma ǀ mināti ǀ ajaraḥ ǁ

    5.7.4 Aṣṭaka 3.8.24.4Anuvāka 5.1.72

  5. Ṛk 5

    अव॑ स्म॒ यस्य॒ वेष॑णे॒ स्वेदं॑ प॒थिषु॒ जुह्व॑ति ।
    अ॒भीमह॒ स्वजे॑न्यं॒ भूमा॑ पृ॒ष्ठेव॑ रुरुहुः ॥

    अव स्म यस्य वेषणे स्वेदम् पथिषु जुह्वति |
    अभीम् अह स्वजेन्यम् भूमा पृष्ठेव रुरुहुः ||

    áva sma yásya véṣaṇe svédam pathíṣu júhvati ǀ
    abhī́máha svájenyam bhū́mā pṛṣṭhéva ruruhuḥ ǁ

    ava sma yasya veṣaṇe svedam pathiṣu juhvati |
    abhīm aha svajenyam bhūmā pṛṣṭheva ruruhuḥ ||

    अव॑ । स्म॒ । यस्य॑ । वेष॑णे । स्वेद॑म् । प॒थिषु॑ । जुह्व॑ति ।
    अ॒भि । ई॒म् । अह॑ । स्वऽजे॑न्यम् । भूम॑ । पृ॒ष्ठाऽइ॑व । रु॒रु॒हुः॒ ॥

    अव । स्म । यस्य । वेषणे । स्वेदम् । पथिषु । जुह्वति ।
    अभि । ईम् । अह । स्वऽजेन्यम् । भूम । पृष्ठाऽइव । रुरुहुः ॥

    áva ǀ sma ǀ yásya ǀ véṣaṇe ǀ svédam ǀ pathíṣu ǀ júhvati ǀ
    abhí ǀ īm ǀ áha ǀ svá-jenyam ǀ bhū́ma ǀ pṛṣṭhā́-iva ǀ ruruhuḥ ǁ

    ava ǀ sma ǀ yasya ǀ veṣaṇe ǀ svedam ǀ pathiṣu ǀ juhvati ǀ
    abhi ǀ īm ǀ aha ǀ sva-jenyam ǀ bhūma ǀ pṛṣṭhā-iva ǀ ruruhuḥ ǁ

    5.7.5 Aṣṭaka 3.8.24.5Anuvāka 5.1.73

  6. Ṛk 6

    यं मर्त्यः॑ पुरु॒स्पृहं॑ वि॒दद्विश्व॑स्य॒ धाय॑से ।
    प्र स्वाद॑नं पितू॒नामस्त॑तातिं चिदा॒यवे॑ ॥

    यम् मर्त्यः पुरुस्पृहं विदद् विश्वस्य धायसे |
    प्र स्वादनम् पितूनाम् अस्ततातिं चिद् आयवे ||

    yám mártyaḥ puruspṛ́ham vidádvíśvasya dhā́yase ǀ
    prá svā́danam pitūnā́mástatātim cidāyáve ǁ

    yam martyaḥ puruspṛhaṃ vidad viśvasya dhāyase |
    pra svādanam pitūnām astatātiṃ cid āyave ||

    यम् । मर्त्यः॑ । पु॒रु॒ऽस्पृह॑म् । वि॒दत् । विश्व॑स्य । धाय॑से ।
    प्र । स्वाद॑नम् । पि॒तू॒नाम् । अस्त॑ऽतातिम् । चि॒त् । आ॒यवे॑ ॥

    यम् । मर्त्यः । पुरुऽस्पृहम् । विदत् । विश्वस्य । धायसे ।
    प्र । स्वादनम् । पितूनाम् । अस्तऽतातिम् । चित् । आयवे ॥

    yám ǀ mártyaḥ ǀ puru-spṛ́ham ǀ vidát ǀ víśvasya ǀ dhā́yase ǀ
    prá ǀ svā́danam ǀ pitūnā́m ǀ ásta-tātim ǀ cit ǀ āyáve ǁ

    yam ǀ martyaḥ ǀ puru-spṛham ǀ vidat ǀ viśvasya ǀ dhāyase ǀ
    pra ǀ svādanam ǀ pitūnām ǀ asta-tātim ǀ cit ǀ āyave ǁ

    5.7.6 Aṣṭaka 3.8.25.1Anuvāka 5.1.74

  7. Ṛk 7

    स हि ष्मा॒ धन्वाक्षि॑तं॒ दाता॒ न दात्या प॒शुः ।
    हिरि॑श्मश्रुः॒ शुचि॑दन्नृ॒भुरनि॑भृष्टतविषिः ॥

    स हि ष्मा धन्वाक्षितं दाता न दात्य् आ पशुः |
    हिरिश्मश्रुः शुचिदन्न् ऋभुर् अनिभृष्टतविषिः ||

    sá hí ṣmā dhánvā́kṣitam dā́tā ná dā́tyā́ paśúḥ ǀ
    híriśmaśruḥ śúcidannṛbhúránibhṛṣṭataviṣiḥ ǁ

    sa hi ṣmā dhanvākṣitaṃ dātā na dāty ā paśuḥ |
    hiriśmaśruḥ śucidann ṛbhur anibhṛṣṭataviṣiḥ ||

    सः । हि । स्म॒ । धन्व॑ । आऽक्षि॑तम् । दाता॑ । न । दाति॑ । आ । प॒शुः ।
    हिरि॑ऽश्मश्रुः । शुचि॑ऽदन् । ऋ॒भुः । अनि॑भृष्टऽतविषिः ॥

    सः । हि । स्म । धन्व । आऽक्षितम् । दाता । न । दाति । आ । पशुः ।
    हिरिऽश्मश्रुः । शुचिऽदन् । ऋभुः । अनिभृष्टऽतविषिः ॥

    sáḥ ǀ hí ǀ sma ǀ dhánva ǀ ā́-kṣitam ǀ dā́tā ǀ ná ǀ dā́ti ǀ ā́ ǀ paśúḥ ǀ
    híri-śmaśruḥ ǀ śúci-dan ǀ ṛbhúḥ ǀ ánibhṛṣṭa-taviṣiḥ ǁ

    saḥ ǀ hi ǀ sma ǀ dhanva ǀ ā-kṣitam ǀ dātā ǀ na ǀ dāti ǀ ā ǀ paśuḥ ǀ
    hiri-śmaśruḥ ǀ śuci-dan ǀ ṛbhuḥ ǀ anibhṛṣṭa-taviṣiḥ ǁ

    5.7.7 Aṣṭaka 3.8.25.2Anuvāka 5.1.75

  8. Ṛk 8

    शुचिः॑ ष्म॒ यस्मा॑ अत्रि॒वत्प्र स्वधि॑तीव॒ रीय॑ते ।
    सु॒षूर॑सूत मा॒ता क्रा॒णा यदा॑न॒शे भगं॑ ॥

    शुचिः ष्म यस्मा अत्रिवत् प्र स्वधितीव रीयते |
    सुषूर् असूत माता क्राणा यद् आनशे भगम् ||

    śúciḥ ṣma yásmā atrivátprá svádhitīva rī́yate ǀ
    suṣū́rasūta mātā́ krāṇā́ yádānaśé bhágam ǁ

    śuciḥ ṣma yasmā atrivat pra svadhitīva rīyate |
    suṣūr asūta mātā krāṇā yad ānaśe bhagam ||

    शुचिः॑ । स्म॒ । यस्मै॑ । अ॒त्रि॒ऽवत् । प्र । स्वधि॑तिःऽइव । रीय॑ते ।
    सु॒ऽसूः । अ॒सू॒त॒ । मा॒ता । क्रा॒णा । यत् । आ॒न॒शे । भग॑म् ॥

    शुचिः । स्म । यस्मै । अत्रिऽवत् । प्र । स्वधितिःऽइव । रीयते ।
    सुऽसूः । असूत । माता । क्राणा । यत् । आनशे । भगम् ॥

    śúciḥ ǀ sma ǀ yásmai ǀ atri-vát ǀ prá ǀ svádhitiḥ-iva ǀ rī́yate ǀ
    su-sū́ḥ ǀ asūta ǀ mātā́ ǀ krāṇā́ ǀ yát ǀ ānaśé ǀ bhágam ǁ

    śuciḥ ǀ sma ǀ yasmai ǀ atri-vat ǀ pra ǀ svadhitiḥ-iva ǀ rīyate ǀ
    su-sūḥ ǀ asūta ǀ mātā ǀ krāṇā ǀ yat ǀ ānaśe ǀ bhagam ǁ

    5.7.8 Aṣṭaka 3.8.25.3Anuvāka 5.1.76

  9. Ṛk 9

    आ यस्ते॑ सर्पिरासु॒तेऽग्ने॒ शमस्ति॒ धाय॑से ।
    ऐषु॑ द्यु॒म्नमु॒त श्रव॒ आ चि॒त्तं मर्त्ये॑षु धाः ॥

    आ यस् ते सर्पिरासुते ऽग्ने शम् अस्ति धायसे |
    ऐषु द्युम्नम् उत श्रव आ चित्तम् मर्त्येषु धाः ||

    ā́ yáste sarpirāsuté’gne śámásti dhā́yase ǀ
    áiṣu dyumnámutá śráva ā́ cittám mártyeṣu dhāḥ ǁ

    ā yas te sarpirāsute 'gne śam asti dhāyase |
    aiṣu dyumnam uta śrava ā cittam martyeṣu dhāḥ ||

    आ । यः । ते॒ । स॒र्पिः॒ऽआ॒सु॒ते॒ । अग्ने॑ । शम् । अस्ति॑ । धाय॑से ।
    आ । ए॒षु॒ । द्यु॒म्नम् । उ॒त । श्रवः॑ । आ । चि॒त्तम् । मर्त्ये॑षु । धाः॒ ॥

    आ । यः । ते । सर्पिःऽआसुते । अग्ने । शम् । अस्ति । धायसे ।
    आ । एषु । द्युम्नम् । उत । श्रवः । आ । चित्तम् । मर्त्येषु । धाः ॥

    ā́ ǀ yáḥ ǀ te ǀ sarpiḥ-āsute ǀ ágne ǀ śám ǀ ásti ǀ dhā́yase ǀ
    ā́ ǀ eṣu ǀ dyumnám ǀ utá ǀ śrávaḥ ǀ ā́ ǀ cittám ǀ mártyeṣu ǀ dhāḥ ǁ

    ā ǀ yaḥ ǀ te ǀ sarpiḥ-āsute ǀ agne ǀ śam ǀ asti ǀ dhāyase ǀ
    ā ǀ eṣu ǀ dyumnam ǀ uta ǀ śravaḥ ǀ ā ǀ cittam ǀ martyeṣu ǀ dhāḥ ǁ

    5.7.9 Aṣṭaka 3.8.25.4Anuvāka 5.1.77

  10. Ṛk 10

    इति॑ चिन्म॒न्युम॒ध्रिज॒स्त्वादा॑त॒मा प॒शुं द॑दे ।
    आद॑ग्ने॒ अपृ॑ण॒तोऽत्रिः॑ सासह्या॒द्दस्यू॑नि॒षः सा॑सह्या॒न्नॄन् ॥

    इति चिन् मन्युम् अध्रिजस् त्वादातम् आ पशुं ददे |
    आद् अग्ने अपृणतो ऽत्रिः सासह्याद् दस्यून् इषः सासह्यान् नॄन् ||

    íti cinmanyúmadhríjastvā́dātamā́ paśúm dade ǀ
    ā́dagne ápṛṇató’triḥ sāsahyāddásyūniṣáḥ sāsahyānnṝ́n ǁ

    iti cin manyum adhrijas tvādātam ā paśuṃ dade |
    ād agne apṛṇato 'triḥ sāsahyād dasyūn iṣaḥ sāsahyān nṝn ||

    इति॑ । चि॒त् । म॒न्युम् । अ॒ध्रिजः॑ । त्वाऽदा॑तम् । आ । प॒शुम् । द॒दे॒ ।
    आत् । अ॒ग्ने॒ । अपृ॑णतः । अत्रिः॑ । स॒स॒ह्या॒त् । दस्यू॑न् । इ॒षः । स॒स॒ह्या॒त् । नॄन् ॥

    इति । चित् । मन्युम् । अध्रिजः । त्वाऽदातम् । आ । पशुम् । ददे ।
    आत् । अग्ने । अपृणतः । अत्रिः । ससह्यात् । दस्यून् । इषः । ससह्यात् । नॄन् ॥

    íti ǀ cit ǀ manyúm ǀ adhríjaḥ ǀ tvā́-dātam ǀ ā́ ǀ paśúm ǀ dade ǀ
    ā́t ǀ agne ǀ ápṛṇataḥ ǀ átriḥ ǀ sasahyāt ǀ dásyūn ǀ iṣáḥ ǀ sasahyāt ǀ nṝ́n ǁ

    iti ǀ cit ǀ manyum ǀ adhrijaḥ ǀ tvā-dātam ǀ ā ǀ paśum ǀ dade ǀ
    āt ǀ agne ǀ apṛṇataḥ ǀ atriḥ ǀ sasahyāt ǀ dasyūn ǀ iṣaḥ ǀ sasahyāt ǀ nṝn ǁ

    5.7.10 Aṣṭaka 3.8.25.5Anuvāka 5.1.78

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 5.7 · Agni

Interpretations

Sri Aurobindo

Ṛk 1

O comrades, in you an integral force and complete laud to Fire the most powerful among the peoples, to the mighty child of energy. (267)

Ṛk 2

Whom wheresoever they come into contact with him men who have the power rapturously set alight in this house of man and all beings born strive to bring to birth. (268)

Ṛk 3

When so we win completely the impulsions of force, completely the offerings human beings must give, then he gathers to himself the Ray of the light and the might and the Truth. (268)

Ṛk 4

Yea, he creates the light of intuition even for one who is far off in the night, the purifying and imperishable Fire ravages the trees of the forest. (268)

Ṛk 5

When in his service men cast down their sweat on the paths, they ascend to a self-born ground as if to wide levels. (268)

Ṛk 6

Him mortal man must come to know as one who holds the multitude of his desires so that he may establish in him all; he moves towards the sweet taste of the draughts of the wine and to the building of the house for man.(268)

Ṛk 7

Pure and bright, verily, is he and he tears our desert dwelling place,11 like a beast who tears, a Beast with golden beard and tusks of bright purity, he is like a smith whose force is unafflicted by the heat of the Fire. (269)

Ṛk 8

Yes, he is pure and bright and he is as one whose axe is like an eater and ever enters deeper; with a happy delivery his mother bore him, for he is an achiever of the work and wins enjoyment of the bliss.(269)

Ṛk 9

O Fire, to whom is poured the running stream of the offering of light, the man who is a happy ground for establishing thee,—in such mortals found the light, and the inspiration and the knowledge. (269)

Ṛk 10

Even so, irresistible born, I receive the force of mind, the cow of vision given by thee. O Fire, then may Atri overcome the destroyers who satisfy thee not, may he overcome forces and men. (269)