Ṛk 5.7.1
Saṃhitā
सखा॑यः॒ सं वः॑ स॒म्यंच॒मिषं॒ स्तोमं॑ चा॒ग्नये॑ ।
वर्षि॑ष्ठाय क्षिती॒नामू॒र्जो नप्त्रे॒ सह॑स्वते ॥
सखायः सं वः सम्यञ्चम् इषं स्तोमं चाग्नये |
वर्षिष्ठाय क्षितीनाम् ऊर्जो नप्त्रे सहस्वते ||
sákhāyaḥ sám vaḥ samyáñcamíṣam stómam cāgnáye ǀ
várṣiṣṭhāya kṣitīnā́mūrjó náptre sáhasvate ǁ
sakhāyaḥ saṃ vaḥ samyañcam iṣaṃ stomaṃ cāgnaye |
varṣiṣṭhāya kṣitīnām ūrjo naptre sahasvate ||
Padapāṭha
सखा॑यः । सम् । वः॒ । स॒म्यञ्च॑म् । इष॑म् । स्तोम॑म् । च॒ । अ॒ग्नये॑ ।
वर्षि॑ष्ठाय । क्षि॒ती॒नाम् । ऊ॒र्जः । नप्त्रे॑ । सह॑स्वते ॥
सखायः । सम् । वः । सम्यञ्चम् । इषम् । स्तोमम् । च । अग्नये ।
वर्षिष्ठाय । क्षितीनाम् । ऊर्जः । नप्त्रे । सहस्वते ॥
sákhāyaḥ ǀ sám ǀ vaḥ ǀ samyáñcam ǀ íṣam ǀ stómam ǀ ca ǀ agnáye ǀ
várṣiṣṭhāya ǀ kṣitīnā́m ǀ ūrjáḥ ǀ náptre ǀ sáhasvate ǁ
sakhāyaḥ ǀ sam ǀ vaḥ ǀ samyañcam ǀ iṣam ǀ stomam ǀ ca ǀ agnaye ǀ
varṣiṣṭhāya ǀ kṣitīnām ǀ ūrjaḥ ǀ naptre ǀ sahasvate ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 05.007.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.8.24.01
- Maṇḍala · Anuvāka · Ṛk
- 05.01.069
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Iṣa Ātreya
- Chandas छन्दस्
- Anuṣṭubh, Paṅkti
- Svara स्वरः
- गान्धारः
Text and interpretations from the Ṛgveda database of theveda.org.in.