Ṛk 5.54.7
Saṃhitā
न स जी॑यते मरुतो॒ न ह॑न्यते॒ न स्रे॑धति॒ न व्य॑थते॒ न रि॑ष्यति ।
नास्य॒ राय॒ उप॑ दस्यंति॒ नोतय॒ ऋषिं॑ वा॒ यं राजा॑नं वा॒ सुषू॑दथ ॥
न स जीयते मरुतो न हन्यते न स्रेधति न व्यथते न रिष्यति |
नास्य राय उप दस्यन्ति नोतय ऋषिं वा यं राजानं वा सुषूदथ ||
ná sá jīyate maruto ná hanyate ná sredhati ná vyathate ná riṣyati ǀ
nā́sya rā́ya úpa dasyanti nótáya ṛ́ṣim vā yám rā́jānam vā súṣūdatha ǁ
na sa jīyate maruto na hanyate na sredhati na vyathate na riṣyati |
nāsya rāya upa dasyanti notaya ṛṣiṃ vā yaṃ rājānaṃ vā suṣūdatha ||
Padapāṭha
न । सः । जी॒य॒ते॒ । म॒रु॒तः॒ । न । ह॒न्य॒ते॒ । न । स्रे॒ध॒ति॒ । न । व्य॒थ॒ते॒ । न । रि॒ष्य॒ति॒ ।
न । अ॒स्य॒ । रायः॑ । उप॑ । द॒स्य॒न्ति॒ । न । ऊ॒तयः॑ । ऋषि॑म् । वा॒ । यम् । राजा॑नम् । वा॒ । सुसू॑दथ ॥
न । सः । जीयते । मरुतः । न । हन्यते । न । स्रेधति । न । व्यथते । न । रिष्यति ।
न । अस्य । रायः । उप । दस्यन्ति । न । ऊतयः । ऋषिम् । वा । यम् । राजानम् । वा । सुसूदथ ॥
ná ǀ sáḥ ǀ jīyate ǀ marutaḥ ǀ ná ǀ hanyate ǀ ná ǀ sredhati ǀ ná ǀ vyathate ǀ ná ǀ riṣyati ǀ
ná ǀ asya ǀ rā́yaḥ ǀ úpa ǀ dasyanti ǀ ná ǀ ūtáyaḥ ǀ ṛ́ṣim ǀ vā ǀ yám ǀ rā́jānam ǀ vā ǀ súsūdatha ǁ
na ǀ saḥ ǀ jīyate ǀ marutaḥ ǀ na ǀ hanyate ǀ na ǀ sredhati ǀ na ǀ vyathate ǀ na ǀ riṣyati ǀ
na ǀ asya ǀ rāyaḥ ǀ upa ǀ dasyanti ǀ na ǀ ūtayaḥ ǀ ṛṣim ǀ vā ǀ yam ǀ rājānam ǀ vā ǀ susūdatha ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 05.054.07
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.3.15.02
- Maṇḍala · Anuvāka · Ṛk
- 05.04.096
- Devatā देवता
- Maruts
- Ṛṣi ऋषि
- Śyāvāśva Ātreya
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- गान्धारः
Text and interpretations from the Ṛgveda database of theveda.org.in.