Ṛk 5.52.6
Saṃhitā
आ रु॒क्मैरा यु॒धा नर॑ ऋ॒ष्वा ऋ॒ष्टीर॑सृक्षत ।
अन्वे॑नाँ॒ अह॑ वि॒द्युतो॑ म॒रुतो॒ जझ्झ॑तीरिव भा॒नुर॑र्त॒ त्मना॑ दि॒वः ॥
आ रुक्मैर् आ युधा नर ऋष्वा ऋष्टीर् असृक्षत |
अन्व् एनां अह विद्युतो मरुतो जज्झतीर् इव भानुर् अर्त त्मना दिवः ||
ā́ rukmáirā́ yudhā́ nára ṛṣvā́ ṛṣṭī́rasṛkṣata ǀ
ánvenām̐ áha vidyúto marúto jájhjhatīriva bhānúrarta tmánā diváḥ ǁ
ā rukmair ā yudhā nara ṛṣvā ṛṣṭīr asṛkṣata |
anv enāṃ aha vidyuto maruto jajjhatīr iva bhānur arta tmanā divaḥ ||
Padapāṭha
आ । रु॒क्मैः । आ । यु॒धा । नरः॑ । ऋ॒ष्वाः । ऋ॒ष्टीः । अ॒सृ॒क्ष॒त॒ ।
अनु॑ । ए॒ना॒न् । अह॑ । वि॒ऽद्युतः॑ । म॒रुतः॑ । जझ्झ॑तीःऽइव । भा॒नुः । अ॒र्त॒ । त्मना॑ । दि॒वः ॥
आ । रुक्मैः । आ । युधा । नरः । ऋष्वाः । ऋष्टीः । असृक्षत ।
अनु । एनान् । अह । विऽद्युतः । मरुतः । जझ्झतीःऽइव । भानुः । अर्त । त्मना । दिवः ॥
ā́ ǀ rukmáiḥ ǀ ā́ ǀ yudhā́ ǀ náraḥ ǀ ṛṣvā́ḥ ǀ ṛṣṭī́ḥ ǀ asṛkṣata ǀ
ánu ǀ enān ǀ áha ǀ vi-dyútaḥ ǀ marútaḥ ǀ jájhjhatīḥ-iva ǀ bhānúḥ ǀ arta ǀ tmánā ǀ diváḥ ǁ
ā ǀ rukmaiḥ ǀ ā ǀ yudhā ǀ naraḥ ǀ ṛṣvāḥ ǀ ṛṣṭīḥ ǀ asṛkṣata ǀ
anu ǀ enān ǀ aha ǀ vi-dyutaḥ ǀ marutaḥ ǀ jajhjhatīḥ-iva ǀ bhānuḥ ǀ arta ǀ tmanā ǀ divaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 05.052.06
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.3.09.01
- Maṇḍala · Anuvāka · Ṛk
- 05.04.062
- Devatā देवता
- Maruts
- Ṛṣi ऋषि
- Śyāvāśva Ātreya
- Chandas छन्दस्
- Anuṣṭubh, Paṅkti
- Svara स्वरः
- गान्धारः
Text and interpretations from the Ṛgveda database of theveda.org.in.