Ṛk 5.52.9
Saṃhitā
उ॒त स्म॒ ते परु॑ष्ण्या॒मूर्णा॑ वसत शुं॒ध्यवः॑ ।
उ॒त प॒व्या रथा॑ना॒मद्रिं॑ भिंदं॒त्योज॑सा ॥
उत स्म ते परुष्ण्याम् ऊर्णा वसत शुन्ध्यवः |
उत पव्या रथानाम् अद्रिम् भिन्दन्त्य् ओजसा ||
utá sma té páruṣṇyāmū́rṇā vasata śundhyávaḥ ǀ
utá pavyā́ ráthānāmádrim bhindantyójasā ǁ
uta sma te paruṣṇyām ūrṇā vasata śundhyavaḥ |
uta pavyā rathānām adrim bhindanty ojasā ||
Padapāṭha
उ॒त । स्म॒ । ते । परु॑ष्ण्याम् । ऊर्णाः॑ । व॒स॒त॒ । शु॒न्ध्यवः॑ ।
उ॒त । प॒व्या । रथा॑नाम् । अद्रि॑म् । भि॒न्द॒न्ति॒ । ओज॑सा ॥
उत । स्म । ते । परुष्ण्याम् । ऊर्णाः । वसत । शुन्ध्यवः ।
उत । पव्या । रथानाम् । अद्रिम् । भिन्दन्ति । ओजसा ॥
utá ǀ sma ǀ té ǀ páruṣṇyām ǀ ū́rṇāḥ ǀ vasata ǀ śundhyávaḥ ǀ
utá ǀ pavyā́ ǀ ráthānām ǀ ádrim ǀ bhindanti ǀ ójasā ǁ
uta ǀ sma ǀ te ǀ paruṣṇyām ǀ ūrṇāḥ ǀ vasata ǀ śundhyavaḥ ǀ
uta ǀ pavyā ǀ rathānām ǀ adrim ǀ bhindanti ǀ ojasā ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 05.052.09
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.3.09.04
- Maṇḍala · Anuvāka · Ṛk
- 05.04.065
- Devatā देवता
- Maruts
- Ṛṣi ऋषि
- Śyāvāśva Ātreya
- Chandas छन्दस्
- Anuṣṭubh, Paṅkti
- Svara स्वरः
- गान्धारः
Text and interpretations from the Ṛgveda database of theveda.org.in.