Ṛk 5.40.8
Saṃhitā
ग्राव्णो॑ ब्र॒ह्मा यु॑युजा॒नः स॑प॒र्यन् की॒रिणा॑ दे॒वान्नम॑सोप॒शिक्ष॑न् ।
अत्रिः॒ सूर्य॑स्य दि॒वि चक्षु॒राधा॒त्स्व॑र्भानो॒रप॑ मा॒या अ॑घुक्षत् ॥
ग्राव्णो ब्रह्मा युयुजानः सपर्यन् कीरिणा देवान् नमसोपशिक्षन् |
अत्रिः सूर्यस्य दिवि चक्षुर् आधात् स्वर्भानोर् अप माया अघुक्षत् ||
grā́vṇo brahmā́ yuyujānáḥ saparyán kīríṇā devā́nnámasopaśíkṣan ǀ
átriḥ sū́ryasya diví cákṣurā́dhātsvárbhānorápa māyā́ aghukṣat ǁ
grāvṇo brahmā yuyujānaḥ saparyan kīriṇā devān namasopaśikṣan |
atriḥ sūryasya divi cakṣur ādhāt svarbhānor apa māyā aghukṣat ||
Padapāṭha
ग्राव्णः॑ । ब्र॒ह्मा । यु॒यु॒जा॒नः । स॒प॒र्यन् । की॒रिणा॑ । दे॒वान् । नम॑सा । उ॒प॒ऽशिक्ष॑न् ।
अत्रिः॑ । सूर्य॑स्य । दि॒वि । चक्षुः॑ । आ । अ॒धा॒त् । स्वः॑ऽभानोः । अप॑ । मा॒याः । अ॒घु॒क्ष॒त् ॥
ग्राव्णः । ब्रह्मा । युयुजानः । सपर्यन् । कीरिणा । देवान् । नमसा । उपऽशिक्षन् ।
अत्रिः । सूर्यस्य । दिवि । चक्षुः । आ । अधात् । स्वःऽभानोः । अप । मायाः । अघुक्षत् ॥
grā́vṇaḥ ǀ brahmā́ ǀ yuyujānáḥ ǀ saparyán ǀ kīríṇā ǀ devā́n ǀ námasā ǀ upa-śíkṣan ǀ
átriḥ ǀ sū́ryasya ǀ diví ǀ cákṣuḥ ǀ ā́ ǀ adhāt ǀ sváḥ-bhānoḥ ǀ ápa ǀ māyā́ḥ ǀ aghukṣat ǁ
grāvṇaḥ ǀ brahmā ǀ yuyujānaḥ ǀ saparyan ǀ kīriṇā ǀ devān ǀ namasā ǀ upa-śikṣan ǀ
atriḥ ǀ sūryasya ǀ divi ǀ cakṣuḥ ǀ ā ǀ adhāt ǀ svaḥ-bhānoḥ ǀ apa ǀ māyāḥ ǀ aghukṣat ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 05.040.08
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.2.12.03
- Maṇḍala · Anuvāka · Ṛk
- 05.03.056
- Devatā देवता
- 1-4: Indra; 5: Sūrya; 6: Indra, Atri; 7-9: Atri
- Ṛṣi ऋषि
- Atri Bhauma
- Chandas छन्दस्
- Triṣṭubh, Uṣṇih, Anuṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.