Ṛk 5.58.7
Saṃhitā
प्रथि॑ष्ट॒ याम॑न्पृथि॒वी चि॑देषां॒ भर्ते॑व॒ गर्भं॒ स्वमिच्छवो॑ धुः ।
वाता॒न्ह्यश्वां॑धु॒र्या॑युयु॒ज्रे व॒र्षं स्वेदं॑ चक्रिरे रु॒द्रिया॑सः ॥
प्रथिष्ट यामन् पृथिवी चिद् एषाम् भर्तेव गर्भं स्वम् इच् छवो धुः |
वातान् ह्य् अश्वान् धुर्य् आयुयुज्रे वर्षं स्वेदं चक्रिरे रुद्रियासः ||
práthiṣṭa yā́manpṛthivī́ cideṣām bhárteva gárbham svámícchávo dhuḥ ǀ
vā́tānhyáśvāndhuryā́yuyujré varṣám svédam cakrire rudríyāsaḥ ǁ
prathiṣṭa yāman pṛthivī cid eṣām bharteva garbhaṃ svam ic chavo dhuḥ |
vātān hy aśvān dhury āyuyujre varṣaṃ svedaṃ cakrire rudriyāsaḥ ||
Padapāṭha
प्रथि॑ष्ट । याम॑न् । पृ॒थि॒वी । चि॒त् । ए॒षा॒म् । भर्ता॑ऽइव । गर्भ॑म् । स्वम् । इत् । शवः॑ । धुः॒ ।
वाता॑न् । हि । अश्वा॑न् । धु॒रि । आ॒ऽयु॒यु॒ज्रे । व॒र्षम् । स्वेद॑म् । च॒क्रि॒रे॒ । रु॒द्रिया॑सः ॥
प्रथिष्ट । यामन् । पृथिवी । चित् । एषाम् । भर्ताऽइव । गर्भम् । स्वम् । इत् । शवः । धुः ।
वातान् । हि । अश्वान् । धुरि । आऽयुयुज्रे । वर्षम् । स्वेदम् । चक्रिरे । रुद्रियासः ॥
práthiṣṭa ǀ yā́man ǀ pṛthivī́ ǀ cit ǀ eṣām ǀ bhártā-iva ǀ gárbham ǀ svám ǀ ít ǀ śávaḥ ǀ dhuḥ ǀ
vā́tān ǀ hí ǀ áśvān ǀ dhurí ǀ ā-yuyujré ǀ varṣám ǀ svédam ǀ cakrire ǀ rudríyāsaḥ ǁ
prathiṣṭa ǀ yāman ǀ pṛthivī ǀ cit ǀ eṣām ǀ bhartā-iva ǀ garbham ǀ svam ǀ it ǀ śavaḥ ǀ dhuḥ ǀ
vātān ǀ hi ǀ aśvān ǀ dhuri ǀ ā-yuyujre ǀ varṣam ǀ svedam ǀ cakrire ǀ rudriyāsaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 05.058.07
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.3.23.07
- Maṇḍala · Anuvāka · Ṛk
- 05.05.015
- Devatā देवता
- Maruts
- Ṛṣi ऋषि
- Śyāvāśva Ātreya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.