Ṛk 5.58.6
Saṃhitā
यत्प्राया॑सिष्ट॒ पृष॑तीभि॒रश्वै॑र्वीळुप॒विभि॑र्मरुतो॒ रथे॑भिः ।
क्षोदं॑त॒ आपो॑ रिण॒ते वना॒न्यवो॒स्रियो॑ वृष॒भः क्रं॑दतु॒ द्यौः ॥
यत् प्रायासिष्ट पृषतीभिर् अश्वैर् वीऌउपविभिर् मरुतो रथेभिः |
क्षोदन्त आपो रिणते वनान्य् अवोस्रियो वृषभः क्रन्दतु द्यौः ||
yátprā́yāsiṣṭa pṛ́ṣatībhiráśvairvīḷupavíbhirmaruto ráthebhiḥ ǀ
kṣódanta ā́po riṇaté vánānyávosríyo vṛṣabháḥ krandatu dyáuḥ ǁ
yat prāyāsiṣṭa pṛṣatībhir aśvair vīḷupavibhir maruto rathebhiḥ |
kṣodanta āpo riṇate vanāny avosriyo vṛṣabhaḥ krandatu dyauḥ ||
Padapāṭha
यत् । प्र । अया॑सिष्ट । पृष॑तीभिः । अश्वैः॑ । वी॒ळु॒प॒विऽभिः॑ । म॒रु॒तः॒ । रथे॑भिः ।
क्षोद॑न्ते । आपः॑ । रि॒ण॒ते । वना॑नि । अव॑ । उ॒स्रियः॑ । वृ॒ष॒भः । क्र॒न्द॒तु॒ । द्यौः ॥
यत् । प्र । अयासिष्ट । पृषतीभिः । अश्वैः । वीळुपविऽभिः । मरुतः । रथेभिः ।
क्षोदन्ते । आपः । रिणते । वनानि । अव । उस्रियः । वृषभः । क्रन्दतु । द्यौः ॥
yát ǀ prá ǀ áyāsiṣṭa ǀ pṛ́ṣatībhiḥ ǀ áśvaiḥ ǀ vīḷupaví-bhiḥ ǀ marutaḥ ǀ ráthebhiḥ ǀ
kṣódante ǀ ā́paḥ ǀ riṇaté ǀ vánāni ǀ áva ǀ usríyaḥ ǀ vṛṣabháḥ ǀ krandatu ǀ dyáuḥ ǁ
yat ǀ pra ǀ ayāsiṣṭa ǀ pṛṣatībhiḥ ǀ aśvaiḥ ǀ vīḷupavi-bhiḥ ǀ marutaḥ ǀ rathebhiḥ ǀ
kṣodante ǀ āpaḥ ǀ riṇate ǀ vanāni ǀ ava ǀ usriyaḥ ǀ vṛṣabhaḥ ǀ krandatu ǀ dyauḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 05.058.06
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.3.23.06
- Maṇḍala · Anuvāka · Ṛk
- 05.05.014
- Devatā देवता
- Maruts
- Ṛṣi ऋषि
- Śyāvāśva Ātreya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.